摩诃婆罗多 · 章 12.201
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.201.1
यदिन्द्रियैस्तूपगतैः पुरस्ता ।
त्प्राप्तान्गुणान्संस्मरते चिराय।
तेष्विन्द्रियेषूपहतेषु पश्चा ।
त्स बुद्धिरूपः परमः स्वभावः ॥ १२.२०१.१ ॥
摩奴说:当诸根先前靠近,带来所获得的诸德时,他长久地记住它们;然而当那些根被毁坏之后,他那具有智性形态的至上本性仍然存在。
12.201.2
य इन्द्रियार्थान्युगपत्समन्ता ।
न्नावेक्षते कृत्स्नशस्तुल्यकालम्।
यथाक्रमं संचरते स विद्वां ।
स्तस्मात्स एकः परमः शरीरी ॥ १२.२०१.२ ॥
摩奴说:若人不同时、全面、完整地观察诸根之境,而是依次而行,他便是智者;因此,唯有他是至上的具身者。
12.201.3
हुताशनं वायुरिवेन्धनस्थम् ॥ १२.२०१.३ ॥
摩奴说:如风吹动栖于薪中的火。
12.201.4
न चक्षुषा पश्यति रूपमात्मनो ।
न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्।
न श्रोत्रलिङ्गं श्रवणेन दर्शनं ।
तथा कृतं पश्यति तद्विनश्यति ॥ १२.२०१.४ ॥
摩奴说:眼不能见自我之形;一根不能见另一根之触;不能以作为听之标志的耳而得见。如此被看作所作的,终将毁灭。
12.201.5
श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ १२.२०१.५ ॥
摩奴说:耳等诸根不能以自我见各自之自我;而全知、全见的田知者能见它们。
12.201.6
यथा हिमवतः पार्श्वे पृष्ठं चन्द्रमसो यथा ।
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥ १२.२०१.६ ॥
摩奴说:如喜马拉雅山侧的背面与月亮的背面,人们从未见过,但并不因此就不存在。
12.201.7
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ ।
अदृष्टपूर्वश्चक्षुर्म्यां न चासौ नास्ति तावता ॥ १२.२०१.७ ॥
同样,在众生之中,众生的自我微妙,具有知识之性;未曾被肉眼见过,但不能因此说他不存在。
12.201.8
पश्यन्नपि यथा लक्ष्म जनः सोमेन विन्दति ।
एवमस्ति न चोत्पन्नं न च तन्न परायणम् ॥ १२.२०१.८ ॥
如同人借月亮看见标志而知道它,他也是如此存在;他不是生起的,也不是没有至高的归宿。
12.201.9
रूपवन्तमरूपत्वादुदयास्तमने बुधाः ।
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥ १२.२०१.९ ॥
因为有形者无形,智者以智慧在日出日落时清楚地看见,他们依随太阳的运行。
12.201.10
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः ।
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥ १२.२०१.१० ॥
同样,博学的人以智慧之灯,安坐而知晓远处之物,仿佛它近在眼前——与知识相合的可知者。
12.201.11
न हि स्वल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति ।
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥ १२.२०१.११ ॥
确实,任何目的都不会以不当的手段成就,正如靠水为生的人用线网捕鱼。
12.201.12
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा ।
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते ॥ १२.२०१.१२ ॥
如同鹿捕鹿,鸟捕鸟,象捕象,可知者唯有以知识才能把握。
12.201.13
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् ।
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति ॥ १२.२०१.१३ ॥
唯有蛇能看见蛇的脚,这便是譬喻。同样,住于有形之物中的有形者,应以智慧知之,并且只能由智慧见到。
12.201.14
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि ।
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥ १२.२०१.१४ ॥
正如诸根不能以诸根认识诸根,同样,此处的高级智慧也不能以智慧见到至上者。
12.201.15
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते ।
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥ १२.२०१.१५ ॥
正如新月之夜月亮因无可见之形而不可见,却并不毁灭,你应当如此认识有身者。
12.201.16
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते ।
तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते ॥ १२.२०१.१६ ॥
月亮圆盘耗尽,在新月之夜便不发光;同样,脱离形体的有身者也不被觉知。
12.201.17
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः ।
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥ १२.२०१.१७ ॥
正如月亮得到另一圆盘后又重新发光,有身者得到另一形体后也重新发光。
12.201.18
जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते ।
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥ १२.२०१.१८ ॥
它的生、长与消减是可以直接觉知的;但那种显现属于月亮,而不属于有身者。
12.201.19
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते ।
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥ १२.२०१.१९ ॥
月亮以升起、增长和亏损而被认识;在新月之日,它便显现为有形之体。
12.201.20
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः ।
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥ १२.२०१.२० ॥
犹如黑暗在靠近月亮或离开月亮时可被看见,你也应看见那有形体者的出入。
12.201.21
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते ।
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते ॥ १२.२०१.२१ ॥
如月与日相合时的黑暗可被察知,与身体相合的智慧也可被察知。
12.201.22
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते ।
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥ १२.२०१.२२ ॥
如罗睺脱离月与日便不可见,同样,脱离身体的有形者也不可见。
12.201.23
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः ।
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥ १२.२०१.२३ ॥
如月亮在新月之日与星宿相合,脱离身体者便与业的果报相合。