Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.203

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.203.1

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।
यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत् ॥ १२.२०३.१ ॥

若身体或心灵的痛苦降临,而非努力所能除去,便不应反复思念它。

12.203.2

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते ॥ १२.२०३.२ ॥

苦痛的药就是:不去思念它;被思念时,它会回来并再次兴起。

12.203.3

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ १२.२०३.३ ॥

心之苦以智慧消除,身之苦以药物消除。这便是智慧的力量,不可与愚者等同。

12.203.4

अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ॥ १२.२०३.४ ॥

青春、容貌、生命、积聚财富、健康与亲人相伴,皆是无常;智者不应贪恋这些。

12.203.5

न जानपदिकं दुःखमेकः शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १२.२०३.५ ॥

百姓的苦难,不应独自为之悲叹。若见到补救之法,便应不悲而去应对。

12.203.6

सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः ।
स्रिग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ १२.२०३.६ ॥

人生中苦远多于乐,此无疑问。对感官之境执着者,因迷惑而遭遇不愿有的死亡。

12.203.7

परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः ।
अभ्येति ब्रह्म सोत्यन्तं न ते शोचन्ति पण्डिताः ॥ १२.२०३.७ ॥

舍弃苦与乐二者之人,完全达到梵;智者不为他悲伤。

12.203.8

दुःखमर्था हि युज्यन्ते पालने न च ते सुखम् ।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥ १२.२०३.८ ॥

财物通过痛苦获得,守护它们也无乐趣;它们是经由苦难而得,因此不应思虑其丧失。

12.203.9

ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः ।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ॥ १२.२०३.९ ॥

应知心从所知之境退回,便具有知识之德;与明辨之器相结合,于是智慧生起。

12.203.10

यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते ।
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ॥ १२.२०३.१० ॥

当具备行为之德的智慧安住于心中时,便通过禅定、瑜伽与三摩地而证知梵。

12.203.11

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते ।
अपरादभिनिः स्रौति गिरेः शृङ्गादिवोदकम् ॥ १२.२०३.११ ॥

此具德之智慧只向诸德而转;它从下方之源涌出,犹如水从山峰流下。

12.203.12

यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् ।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा ॥ १२.२०३.१२ ॥

当心中证得超越诸德的原初禅定时,梵便被知晓,犹如金子在试金石上被验证。

12.203.13

मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम् ।
न समर्थं गुणापेक्षि निर्गुणस्य निदर्शने ॥ १२.२०३.१३ ॥

心若未被智慧所摄,便只指向感官之境。依赖于德性的心,无力观照无德者。

12.203.14

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः ।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ॥ १२.२०३.१४ ॥

关闭所有这些门户,安住于心,使心专注一境,便能证得那至高之境。

12.203.15

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये ।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते ॥ १२.२०३.१५ ॥

如同诸大元素在德性消亡时退隐,智慧摄取诸根后便安住于心中。

12.203.16

यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी ।
व्यवसायगुणोपेता तदा संपद्यते मनः ॥ १२.२०३.१६ ॥

当那游行于内、具备决断之德的智慧安住于心中时,心便与之合一。

12.203.17

गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः ।
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते ॥ १२.२०३.१७ ॥

当心与具德之物相连而沉入禅定时,便舍弃一切德性,证得无德之境。

12.203.18

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् ।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥ १२.२०३.१८ ॥

在此,关于未显现者的知识没有相称的譬喻。连足迹都没有的地方,谁能到达那个境界呢?

12.203.19

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च ।
निनीषेत्परमं ब्रह्म विशुद्धेनान्तरात्मना ॥ १२.२०३.१९ ॥

以苦行、推理、德性、出身与所学,以清净的内我,人应当致力于引导自己走向至高的梵。

12.203.20

गुणहीनो हि तं मार्गं बहिः समनुवर्तते ।
गुणाभावात्प्रकृत्या वा निस्तर्क्यं ज्ञेयसंमितम् ॥ १२.२०३.२० ॥

缺乏德性者只是外在地遵循那条道路;由于缺乏德性或出于本性,它超越推理,与所应知者等同。

12.203.21

नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते ।
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ॥ १२.२०३.२१ ॥

因无德性而得梵;因有德性而返回。散布于德性之中的觉性,如同燃料中的火。

12.203.22

यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः ।
तदा तत्परमं ब्रह्म संमुक्तं प्रकृतेः परम् ॥ १२.२०३.२२ ॥

当五根与其自身的作用分离时,那至高的梵便完全超脱于自性之外而得解脱。

12.203.23

एवं प्रकृतितः सर्वे संभवन्ति शरीरिणः ।
निवर्तन्ते निवृत्तौ च स्वर्गे नैवोपयान्ति च ॥ १२.२०३.२३ ॥

如是,一切有身众生皆从自性而生;至止息时便复返,也不能到达天界。

12.203.24

पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च ।
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः ॥ १२.२०३.२४ ॥

补鲁莎与自性、觉性、诸别境、诸根、我慢与自负皆已生起,被称为“诸有”(bhūta)。

12.203.25

एतस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते ।
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ॥ १२.२०३.२५ ॥

其第一种作用从原初本质(pradhāna)中生起。第二种则从未分化者(aviśeṣa)中约束成对之物的显现。

12.203.26

धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽष्यधर्मतः ।
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवम् ॥ १२.२०३.२६ ॥

由法(dharma)升起至善(śreyas);同样,法也从非法中升起。有欲者归于自性(prakṛti);离欲而具足智慧者,超越有(bhava)。