Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.205

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.205.1

पितामह महाप्राज्ञ दुःखशोकसमाकुले ।
संसारचक्रे लोकानां निर्वेदो नास्ति किंन्विदम् ॥ १२.२०५.१ ॥

大祖父啊,大智者啊!在这充满痛苦与悲伤的轮回之轮中,众生为何没有厌离之心?

12.205.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबन्धनस्य संवादं भोगवत्या नृपोत्तम ॥ १२.२०५.२ ॥

关于此事,人们也讲述这个古老的故事——निबन्धन与भोगवती的对话,啊,诸王中最优秀者。

12.205.3

मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा ।
निरारम्भं निरालम्बमसज्जन्तं च कर्मणि।
पुत्रं दृष्ट्वाऽप्युवाचार्तं माता भोगवती तदा ॥ १२.२०५.३ ॥

名叫निबन्धन的仙人枯瘦,如同一束筋脉,不肯开始任何事务,无所依靠,也不执著于行动。看到痛苦的儿子,母亲भोगवती便说道。

12.205.4

उत्तिष्ठ मूढ किं शेषे निरपेक्षः सुहृज्जनैः ।
निरालम्बो धनोपाये पैतृकं तव किं धनम् ॥ १२.२०५.४ ॥

起来吧,愚人!你为何躺着?对朋友亲族漠不关心,在谋求财富之道上无所依靠——你的祖传财产又是什么呢?

12.205.5

पैतृकं मे महन्मातः सर्वदुःखालयं त्विह ।
अस्त्येतत्तद्विधाताय यतिष्ये तत्र मा शुचः ॥ १२.२०५.५ ॥

母亲,我这里的祖传财产很大,它是一切苦难的居所。我将在那里努力处置它——请不要悲伤。

12.205.6

इदं शरीरमत्युग्रं पित्रा दत्तमसंशयम् ।
तमेव पितरं गत्वा धनं तिष्ठति शाश्वतम् ॥ १२.२०५.६ ॥

这个极为可怕的身体无疑是父亲所赐。前往那位父亲之处,永恒的财富便常住在那里。

12.205.7

कश्चिन्महति संसारे वर्तमान… ।
वनदुगमभिप्राप्तो महत्क्रव्या… ॥ १२.२०५.७ ॥

某人身处广大轮回之中……抵达难以通行的林中,那里有大食肉者。

12.205.8

सिंहव्याघ्रगजाकारैरतिघोरैर्महा… ।
समन्तात्सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् ॥ १२.२०५.८ ॥

见此林四面被狮、虎、象之形的极其可怖的大……围绕,那人便痛苦。

12.205.9

स तद्वनं ह्यनुचरन्विप्रधावन्नितस्ततः ।
वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति ॥ १२.२०५.९ ॥

他在林中游走,惊慌地四处奔跑,环顾四方,为求庇护而奔逃。

12.205.10

अथापश्यद्वनं रूढं समन्ताद्वागुरावृतम् ।
वनमध्ये च तत्रासीदुदपानः समावृतः ॥ १२.२०५.१० ॥

于是他看见四周丛生、以网围绕的森林;林中央有一口被掩盖的井。

12.205.11

वल्लिभिस्तृणसंछिन्नैर्गूढाभिरभिसंवृतः ।
स पपात द्विजस्तत्र विजने सलिलाशये ॥ १२.२०५.११ ॥

被藤蔓环绕,被割草与隐藏的藤蔓遮掩,那位再生者便跌落在那荒僻的水池中。

12.205.12

विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले ।
बाहुभ्यां संपरिष्वक्तस्तया परमसत्वया ॥ १२.२०५.१२ ॥

他便攀附在那布满藤蔓丛的地方,以双臂紧紧抱住那极其坚韧的藤蔓。

12.205.13

स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधश्शिराः ।
अधस्तत्रैव जातश्च जम्बूवृक्षः सुदुस्तरः ॥ १२.२०५.१३ ॥

他便这样倒悬在那里,双脚向上,头向下;而正在其下生长着一棵极难穿越的阎浮树。

12.205.14

कूपस्य तस्य वेलाया अपश्यत्सुमहाफलम् ।
वृक्षं बहुविधं व्योमं वल्लीपुष्पसमाकुलम् ॥ १२.२०५.१४ ॥

在那井边,他看见一棵品种繁多的树,果实极大,枝叶伸向天空,开满了藤蔓的花。

12.205.15

नानारूपा मधुकरास्तस्मिन्वुक्षऽभवन्किल ।
तेषां मधूनां बहुधा धारा प्रववृते तदा ॥ १२.२०५.१५ ॥

树上有形态各异的蜜蜂,那时它们的蜂蜜化作许多股流淌下来。

12.205.16

विलम्बमानः स पुमान्धारां पिबति सर्वदा ।
न तस्य तृष्णा विरता पीयमानस्य संकटे ॥ १२.२०५.१६ ॥

那悬挂的人总是饮着那水流,然而在危难中饮着,他的渴望却从未停止。

12.205.17

परीप्सति च तां नित्यमतृप्तः स पुनः पुनः ।
एवं स वसते तत्र दुःखिदुःखी पुनः पुनः ॥ १२.२०५.१७ ॥

他永不满足,总是一次又一次地想要得到它;就这样,他一次次因苦而痛苦地住在那里。

12.205.18

मया तु तद्धनं देयं तव दास्यामि चेच्छसि ।
तस्य च प्रार्थितः सोथ दत्वा मुक्तिमवाप सः ॥ १२.२०५.१८ ॥

“那份财富我必须交给你;你若愿意,我就给你。”他被请求后,施与了布施,于是获得了解脱。

12.205.19

सा च त्यक्त्वाऽर्थसंकल्पं जगाम परमां गतिम् ॥ १२.२०५.१९ ॥

她舍弃了求财的念头,抵达了至高之境。

12.205.20

एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम ।
परं वैराग्यमागम्य गच्छन्ति परमं पदम् ॥ १२.२०५.२० ॥

如此,诸王中最优者啊,知晓轮回之轮本性的人获得至上的离欲,抵达最高之境。

12.205.21

एवं संसारचक्रस्य स्वरूपं विदितं न मे ।
पैतृकं तु धनं प्रोक्तं किं तद्विद्वन्महात्मना ॥ १२.२०५.२१ ॥

如此,我并不了解轮回之轮的本性。所说的祖传之财,智者啊,那位大德究竟是何意?

12.205.22

कान्तारमिति किं प्रोक्तं को हस्ती स तु कूपकः ।
किंसंज्ञिको महावृक्षो मधु वाऽपि पितामह ॥ १२.२०५.२२ ॥

所谓的“密林”指的是什么?那头象是谁,那口井又是什么?祖父啊,那棵大树叫什么名字,蜜又是什么?

12.205.23

एवं मे संशयं विद्धि धनशब्दं किमुच्यते ।
कथं लब्धं धनं तेन तथा च किमिदं त्विह ॥ १२.२०५.२३ ॥

请知我的疑惑:“财富”一词所指为何?他是如何获得那笔财富的?这里所说的又是什么?

12.205.24

उपाख्यानमिदं सर्वं मोक्षविद्भिरुदाहृतम् ।
सुमतिं विन्दते येन बन्धनाशश्च भारत ॥ १२.२०५.२४ ॥

这整段寓言是由通晓解脱之人所讲述的。婆罗多啊,由此可得正见,束缚得以断除。

12.205.25

एतदुक्तं हि कान्तारं महान्संसार एव सः ।
ये ते प्रतिष्ठिता व्याला व्याधयस्ते प्रकीर्तिताः ॥ १२.२०५.२५ ॥

此已说明:大轮回即是那座森林,而居于其中的猛兽被称为疾病。

12.205.26

या सा नारी महाघोरा वर्णरूपविनाशिनी ।
तामाहुश्च जरां प्राज्ञाः परिष्वक्तं यया जगत् ॥ १२.२०५.२६ ॥

那极其可怕、摧毁容色与形貌的女子,智者称之为老(Jarā),世界被她拥抱着。

12.205.27

यस्तत्र कूपे वसते महाहिः काल एव सः ।
यो वृक्षः स च मृत्युर्हि स्वकृतं तस्य तत्फलम् ॥ १२.२०५.२७ ॥

那里井中栖息的大蛇即是时间(Kāla),那棵树即是死亡;其果实便是他自己所作的业。

12.205.28

ये तु कृष्णाः सिता राजन्मूषिका रात्र्यहानि वै ॥ १२.२०५.२८ ॥

大王啊,那些黑白的老鼠,确实是夜与昼。

12.205.29

द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः ।
स च संवत्सरः प्रोक्तः पाशमासर्तवो मुखाः ॥ १२.२०५.२९ ॥

具十二足、形如六面的大象,被称为年;四季是它的绳索与口。

12.205.30

एतत्संसारचक्रस्य स्वरूपं व्याहृतं मया ।
एवं लब्धधनं राजंस्तत्स्वरूपं विनाशय ॥ १२.२०५.३० ॥

如是,我已为你说明了轮回之轮的真实本性。大王啊,既如此获得财富,便当除灭它的这一本性。

12.205.31

एतज्ज्ञात्वा तु सा राजन्परं वैराग्यमास्थिता ।
यथोक्तविधिना भूयः परं पदमवाप सः ॥ १२.२०५.३१ ॥

国王啊,她知晓此理,便达到了至高的离欲;依照所说的方法,他又得到了至上之境。

12.205.32

धत्ते धारयते चैव एतस्मात्कारणाद्धनम् ।
तद्गच्छ चामृतं शुद्धं हिरण्यममृतं तपः ॥ १२.२०५.३२ ॥

正因此故,它执持并维系财富。去往那纯净不朽的黄金,去往不朽的苦行吧。

12.205.33

तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः ।
तस्य प्रसादाद्दुःखस्य नाशं प्राप्स्यसि मानद ॥ १२.२०५.३३ ॥

具有那种本性的大天,正是提婆基之子黑天。尊贵者啊,因他的恩典,你将得到苦难的断除。

12.205.34

एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः ॥ १२.२०५.३४ ॥

那黑天唯一是作者,他是智者的至上归宿。

12.205.35

इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाऽश्विनौ ।
स्वेस्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः ॥ १२.२०५.३५ ॥

依靠此道,天帝、诸天、楼陀罗们以及双马童,还有通晓享受与解脱的人们,各自进入了自己的位置。

12.205.36

भूतानामन्तरात्माऽसौ स नित्यपदसंवृतः ।
श्रूयतामस्य सद्भावः सम्यग्ज्ञानं यथा तव ॥ १२.२०५.३६ ॥

他是一切众生的内在自我,被永恒之境所包裹。请听他的真实本性,使你获得正确的知识。

12.205.37

भवेदेतन्निबोध त्वं नारदाय पुरा हरिः ।
दर्शयित्वाऽऽत्मनो रूपं यदवोचत्स्वयं विभुः ॥ १२.२०५.३७ ॥

你要知道:古时哈里(毗湿奴)向那罗陀显示自身形相之后,这位遍在的主亲口所说的话。

12.205.38

पुरा देवऋषिः श्रीमान्नारदः परमार्थवान् ।
चचार पृथिवीं कृत्स्नां तीर्थान्यनुचरन्प्रभुः ॥ १२.२०५.३८ ॥

古时,知晓至高真理的光辉天仙那罗陀遍游整个大地,巡礼各处圣地。

12.205.39

हिमवत्पादमाश्रित्य विचार्य च पुनःपुनः ।
स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् ॥ १२.२०५.३९ ॥

他来到喜马拉雅山脚,反复思量,在那里看见一池布满莲花与青莲的湖水。

12.205.40

ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् ।
शोभमानां श्रिया राजन्क्रीडन्तीमुत्पलैस्तथा ॥ १२.२०५.४० ॥

在湖岸上,他看见一位身饰各种珠宝的少女,光彩照人,正在用青莲嬉戏,大王啊。

12.205.41

सा महात्मानमालोक्य नारदेत्याह भामिनी ।
तस्याः समीपमासाद्य तस्थौ विस्मितमानसः ॥ १२.२०५.४१ ॥

那美丽的女子看见这位大智者,便说:“那罗陀!”他心中惊异,走到她身边站立。

12.205.42

वीक्षमाणं तमाज्ञाय सा कन्या चारुवासिनी ।
विजजृम्भे महाभागा स्मयमाना पुनः पुनः ॥ १२.२०५.४२ ॥

她察觉他在凝视自己,这位身着华服、福分极大的少女,一再微笑着伸展身体。

12.205.43

तस्मात्समभवद्वक्रात्पुरुषाकृतिसंयुतः ।
रत्नविन्दुचिताङ्गस्तु सर्वाभरणभूषितः ॥ १२.२०५.४३ ॥

从那口中生出一位人形之身,肢体点缀着宝石般的斑点,身饰一切璎珞。

12.205.44

आदित्यसदृशाकारः शिरसा धारयन्मणिम् ।
पुनरेव तदाकारसदृशः समजायत ॥ १२.२०५.४४ ॥

形如太阳,头上戴着宝珠,又生出一位与那形相似者。

12.205.45

तृतीयस्तु महाराज विविधाभरणैर्युतः ।
प्रदक्षिणं तु तां कृत्वा विविधध्वनयस्तु ताम् ॥ १२.२०५.४५ ॥

大王啊,第三位佩戴各种装饰,向右绕行于她,并向她发出种种声音。

12.205.46

ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् ॥ १२.२०५.४६ ॥

于是那位婆罗门仙人与众人一起,向那位吉祥的少女发问。

12.205.47

का त्वं परमकल्याणि पद्मेन्दुसदृशानने ।
न जाने त्वां महादेवि ब्रूहि सत्यमनिन्दिते ॥ १२.२०५.४७ ॥

最吉祥的女子啊,面如莲花与明月者,你是谁?我不认识你。大女神啊,无瑕者,请说实话。

12.205.48

सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै ।
किं करिष्यामि तद्ब्रूहि तव यच्चेतसि स्थितम् ॥ १२.२०५.४८ ॥

我名叫萨维特丽。婆罗门仙人请听,愿你吉祥。我该做什么?请说出你心中所想。

12.205.49

अभिवादये त्वां सावित्रि कृतार्थोऽहमनिन्दिते ।
एतं मे संशयं देवि वक्तुमर्हसि शोभने ॥ १२.२०५.४९ ॥

萨维特丽啊,我向你致敬;无瑕者,我已得圆满。女神,光辉者,请你说明我这一疑惑。

12.205.50

यस्तु वै प्रथमोत्पन्नः कोऽसौ स पुरुषाकृतिः ।
बिन्दवस्तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः ॥ १२.२०५.५० ॥

那先生的、具有人形者是谁?大女神啊,然而头顶的点滴呈光明之形。

12.205.51

अग्रजः प्रथमोत्पन्नो यजुर्वेदस्तथाऽपरः ।
तृतीयः सामवेदस्तु संशयो व्येतु ते मुने ॥ १२.२०५.५१ ॥

长子,最先生起的是《夜柔吠陀》;另一个,第三者,是《娑摩吠陀》。牟尼啊,愿你的疑惑消除。

12.205.52

वेदाश्च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः ।
यत्तद्दृष्टं महज्ज्योतिर्ज्योतिरित्युच्यते बुधैः ॥ १२.२०५.५२ ॥

诸吠陀与点滴相连,依托于祭祀之果。所见的那大光明,智者称之为“光”。

12.205.53

ऋषे ज्ञेयं मया चाऽपीत्युक्त्वा चान्तरधीयत ।
ततः स विस्मयाविष्टो नारदः पुरुषर्षभ।
ध्यानयुक्तः स तु चिरं न बुबोध महामतिः ॥ १२.२०५.५३ ॥

“牟尼啊,此事我也当知晓。”说罢她便隐没了。于是那位充满惊奇的那罗陀,人中之牛啊,沉浸于禅定,许久都未能领悟,这位大智者。

12.205.54

ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः ।
तुष्टाव पुरुषव्याघ्रो जिज्ञासुश्च तदद्भुतम् ॥ १२.२०५.५४ ॥

于是,大光辉的人中之虎,语言节制、感官受控,沐浴之后,想要了解那奇妙之事,便赞颂起来。

12.205.55

ततो वर्षशते पूर्णे भगवाँलोकभावनः ।
प्रादुश्चकार विश्वात्मा ऋषेः परमसौहृदात् ॥ १२.२०५.५५ ॥

百年圆满之后,护持世界的世尊、一切之自我,因对仙人的至深慈爱而显现。

12.205.56

तमागतं जगन्नाथं सर्वकारणकारणम् ।
अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् ॥ १२.२०५.५६ ॥

那位来临的宇宙之主,一切因中之因,其双足赤如黄金,为一切天神的冠冕所映照。

12.205.57

वैनतेयपदस्पर्शकिणशोभितजानुकम् ।
पीताम्बरलसत्काञ्चीदामबद्धकटीतटम् ॥ १२.२०५.५७ ॥

其膝因迦楼罗足的触碰而生的茧痕而显庄严,腰间以闪耀的金腰带束于黄色衣裳之上。

12.205.58

श्रीवत्सवक्षसं चारुमणिकौस्तुभकन्धरम् ।
मन्दस्मितमुखाम्भोजं चलदायतलोचनम् ॥ १२.२०५.५८ ॥

胸前有吉祥痣,美丽的颈项佩戴宝珠憍赏弥,莲花般的面容带着微笑,修长的双眼流转。

12.205.59

नम्रचापानुकरणनम्रभ्रूयुगशोभितम् ।
नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् ॥ १२.२०५.५९ ॥

双眉弯弯如拉满之弓,饰以摩羯耳环,耳环上嵌有各色宝石、珠玉与金刚石,闪闪发光。

12.205.60

इन्द्रनीलनिभासं तं केयूरमकुटोज्ज्वलम् ।
देवैरिन्द्रपुरोगैश्च ऋषिसङघैरभिष्टुतम् ॥ १२.२०५.६० ॥

那身如因陀罗青宝石般光泽、以臂钏与宝冠照耀的主,受到以因陀罗为首的诸天神与仙人众的赞颂。

12.205.61

नारदो जयशब्देन ववन्दे शिरसा हरिम् ॥ १२.२०५.६१ ॥

那罗陀高呼“胜利”,低首向哈里致敬。

12.205.62

ततः स भगवाञ्श्रीमान्मेघगम्भीरया गिरा ।
प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ ॥ १२.२०५.६२ ॥

于是那位尊贵而光明的主宰,众生之主,以如云般深沉的声音,对倒伏于地的那罗陀说道。

12.205.63

भद्रमस्तु ऋषे तुभ्यं वरं वरय सुव्रत ।
यत्ते मनसि सुव्यक्तमस्ति च प्रददामि तन् ॥ १२.२०५.६३ ॥

愿你吉祥,仙人。持善愿者啊,请求一个恩赐吧;凡你心中清楚所想的,我都将赐予你。

12.205.64

स चेमं जयशब्देन प्रसीदेत्यातुरो मुनिः ।
प्रोवाच हृदि संरूढं शङ्खचक्रगदाधरम् ॥ १२.२०५.६४ ॥

那位焦急的仙人,高呼“胜利”并说“请垂怜”,向那手持海螺、轮盘与权杖、深驻于其心中者说道。

12.205.65

विवक्षितं जगन्नाथ मया ज्ञातं त्वयाऽच्युत ।
तत्प्रसीद हृषीकेश श्रोतुमिच्छामि तद्धरे ॥ १२.२०५.६५ ॥

我想说的,无垢者啊,你已经知道了。因此请垂怜,感官之主啊;我愿意聆听,哈里啊。

12.205.66

ततः स्मयन्महाविष्णुरभ्यभाषत नारदम् ।
यद्दृष्टं मम रूपं तु वेदानां शिरसि त्वया ॥ १२.२०५.६६ ॥

于是大毗湿奴微笑着对那罗陀说:“你在诸吠陀之首所见到的我的形相。”

12.205.67

निर्द्वन्द्वा निरहंकाराः शुचयः शुद्धलोचनाः ।
तं मां पश्यन्ति सततं तान्पृच्छ यदिहेच्छसि ॥ १२.२०५.६७ ॥

超越二元对立、无我执、清净且目光澄明者,始终见到我。你在此所欲求的,可去问他们。

12.205.68

ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः ।
तेषां प्रसादं देवर्षे मत्प्रसादमवैहि तत् ॥ १२.२०५.६८ ॥

具大智慧的瑜伽行者,作为我的部分而安住者,神圣的仙人啊,应知他们的恩典即是我的恩典。

12.205.69

इत्युक्त्वा स जगामाथ भगवान्भूतभावनः ।
तस्माद्व्रज हृषीकेशं कृष्णं देवकिनन्दनम् ॥ १२.२०५.६९ ॥

说完这话,护持众生的世尊便离去了。因此你应去见德瓦基之子、感官之主克里希那。

12.205.70

एतमाराध्य गोविन्दं गता मुक्तिं महर्षयः ।
एष कर्ता विकर्ता च सर्वकारणकारणम् ॥ १२.२०५.७० ॥

崇拜此戈温达之后,大仙人们获得了解脱。他是创造者,也是毁灭者,是一切原因的原因。

12.205.71

मयाऽप्येतच्छ्रुतं राजन्नारदात्तु निबोध तत् ।
स्वयमेव समाचष्ट नारदो भगवान्मुनिः ॥ १२.२०५.७१ ॥

大王,此事我也从那罗陀处听闻,请领会。世尊仙人那罗陀亲自讲述了此事。

12.205.72

समस्तसंसारविघातकारणं ।
भजन्ति ये विष्णुमनन्यमानसाः।
ते यान्ति सायुज्यमतीव दुर्लभ ।
मितीव नित्यं हृदि वर्णयन्ति ॥ १२.२०५.७२ ॥

以专一之心崇拜毗湿奴者——他是摧毁一切世俗束缚的原因——便获得极为难得的合一。如此,他们始终在心中宣说此事。