Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.21.1

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ॥ १२.२१.१ ॥

这里的人们讲述这段古老的故事,那是因陀罗适时发问时,brhaspati所说的。

12.21.2

संतोषो वै स्वर्गसमः संतोषः परमं सुखम् ।
तुष्टेर्न किंचित्परतः सा सम्यक्प्रतितिष्ठति ॥ १२.२१.२ ॥

知足确实如同天堂;知足是最高的快乐。知足之外别无他物;它能牢固地确立。

12.21.3

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।
तदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति ॥ १२.२१.३ ॥

当人完全收敛欲望,如同乌龟收起四肢,那么不久,自我的光明便在自身之中清净显现。

12.21.4

न विभेति यदा चायं यदा चास्मान्न बिभ्यति ।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति ॥ १२.२१.४ ॥

当人不惧怕任何人,也无人惧怕他,并战胜了欲望与憎恶,那时他便能见到自我。

12.21.5

यदाऽसौ सर्वभूतानां न द्रुह्यति न काङ्क्षति ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १२.२१.५ ॥

当他在行为、思想与言语上不伤害任何众生,也不贪求任何众生,那时他便证得梵。

12.21.6

एवं कौन्तेय भूतानि तंतं धर्मं तथातथा ।
तदाऽऽत्मना प्रपश्यन्ति तस्माद्वुध्यस्व भारत ॥ १२.२१.६ ॥

如此,孔提之子啊,众生以自我见到各自的法,因此,婆罗多之后裔啊,你应当领悟。

12.21.7

अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ।
नैकं न चापरं केचिदुभयं च तथाऽपरे ॥ १२.२१.७ ॥

有人赞美和解(sāma),有人赞美努力(vyāyāma)。有人既不赞美其一,也不赞美其二,也不赞美二者;其他人亦然。

12.21.8

यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः ।
नैकं न चापरं केचिदुभयं च तथाऽपरे ॥ १२.२१.८ ॥

有人赞美祭祀(yajña),有人赞美出家弃世(saṃnyāsa)。有人既不赞美其一,也不赞美其二,也不赞美二者;其他人亦然。

12.21.9

दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम् ।
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥ १२.२१.९ ॥

有人赞美布施(dāna),有人赞美受施(pratigraha)。有人舍弃一切,默然静坐冥想。

12.21.10

राज्यमेके प्रशंसन्ति प्रजानां परिपालनम् ।
हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः ॥ १२.२१.१० ॥

有人赞美王权与保护百姓;(为此)杀戮、砍斫、剖裂(施加暴力)。有人则性好独处。

12.21.11

एतत्सर्वं समालोक्य बुधानामेव निश्चयः ।
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥ १२.२१.११ ॥

审视这一切之后,智者的定论是:不害众生,便是善人所认可的法(dharma)。

12.21.12

अद्रोहः सत्यवचनं संविभागो दया दमः ।
प्रजनं स्वेषु दारेषु मार्दवं हीरचापलम् ॥ १२.२१.१२ ॥

不害他人、说真实语、公正分享、慈悲、克制(调御)、只与自己的妻子生育子嗣、温和、羞耻心、不轻浮。

12.21.13

एवं धर्मं प्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत् ।
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालय ॥ १२.२१.१३ ॥

自生之子摩奴如此宣说:法是至上且所珍爱的。因此,贡提之子啊,应当努力守护它。

12.21.14

यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः ।
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित् ॥ १२.२१.१४ ॥

常居王国、克制自身、视喜与不喜为一、为刹帝利、食祭祀所余、通晓典籍义理之真谛者,此人即是国王。

12.21.15

असाधुनिग्रहरतः साधूनां प्रग्रहे रतः ।
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः ॥ १२.२१.१५ ॥

乐于惩治恶人、护持善人,使臣民安立于法之道,依法引导他们。

12.21.16

पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयेत् ।
विधानमाश्रमाणां वै कुर्यात्कर्माण्यतन्द्रितः ॥ १२.२१.१६ ॥

将王家的福德交给儿子,便应在森林中以野果为食而生活,依四行期的规定,不懈地履行职责。

12.21.17

य एवं वर्तते राजन्स राजा धर्मनिश्चितः ।
तस्यायं च परश्चैव लोकः स्यात्संफलोदयः ॥ १२.२१.१७ ॥

大王啊,如此行事的人,便是坚定于法的国王;对他而言,此世与彼世都将兴盛而结出善果。

12.21.18

निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम् ॥ १२.२१.१८ ॥

解脱极难获得,依我之见,其中有许多障碍。

12.21.19

एवं धर्ममनुक्रान्ताः सत्यदानतपः पराः ।
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥ १२.२१.१९ ॥

如此遵循法者,专注于真实、布施与苦行,具备慈悲之德,远离欲望与愤怒。

12.21.20

प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः ।
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥ १२.२१.२० ॥

专注于保护臣民,秉持至高之法,为牛与婆罗门而战,他们获得了无上之境。

12.21.21

एवं रुद्राः सवसवस्तथाऽऽदित्याः परंतप ।
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः।
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥ १२.२१.२१ ॥

同样,楞陀罗、婆苏、阿迪提耶,啊,敌人的征服者,萨陀耶,以及王仙众,皆依止此法,保持警觉,凭借其功德之业而升入天界。