マハーバーラタ · 章 12.210
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.210.1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥ १२.२१०.१ ॥
祖父よ、大いなる智者よ、あらゆる聖典に通じた方よ!旅立ちの時、解脱を求め真理を思う者は何を唱えるべきでしょうか。
12.210.2
किंनु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते ।
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः ॥ १२.२१०.२ ॥
クル族の最良の人よ、死が近づいたとき、人は何を念じれば最高の成就を得られるのでしょうか。真実のままに聞きたく思います。
12.210.3
त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ ।
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् ॥ १२.२१०.३ ॥
罪なき方よ、あなたの問いは相応しく、有益で微妙です。王よ、注意して聞きなさい。かつてナーラダが聞いたことを。
12.210.4
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् ।
पुरा नारायणं देवं नारदः पर्यपृच्छत ॥ १२.२१०.४ ॥
昔、ナーラダは、シュリーヴァトサの印を持つ神、世界の種、無限にして諸世界の証人であるナーラーヤナに尋ねた。
12.210.5
अक्षरं परमं ब्रह्म निर्गुणं तमसः परम् ।
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम् ॥ १२.२१०.५ ॥
人々はそれを不滅の至高のブラフマン、属性なく、暗黒を超え、知るべき最高の住処、ブラフマーらの蓮華より生じたものと呼ぶ。
12.210.6
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः ॥ १२.२१०.६ ॥
尊き主よ、過去と未来の主よ。信仰あり感官を制した信者と、解脱を望むヨーギーたちは、あなたをどのように観想するのでしょうか。
12.210.7
किंनु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः ।
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते ॥ १२.२१०.७ ॥
人は毎朝起きて、日々何を唱えるべきか。また死に臨むとき、特に何を思い起こすべきか、偉大なる輝きの者よ。
12.210.8
कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम् ॥ १२.२१०.८ ॥
ヨーガを修めつつ、三昧においてどのように瞑想すべきか。永遠の真理を説いてください。
12.210.9
श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम् ।
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः ॥ १२.२१०.९ ॥
ナーラダの言葉を聞き、神々の主、恩恵を与える主たる世尊ヴィシュヌ自身がナーラダに語った。
12.210.10
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् ।
यामधीत्य प्रयाणे तु मद्भावयोपपद्यते ॥ १२.२१०.१० ॥
よろしい。この神聖な回想を汝に語ろう。これを学ぶ者は、旅立ちの時に私の境地に至る。
12.210.11
ओंकारमग्रतः कृत्वा मां नमस्कृत्य नारद ।
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ॥ १२.२१०.११ ॥
ナーラダよ、オーンを先に置き、私に礼拝し、一心にして自制して、この真言を唱えるべし。
12.210.12
ओं नमो भगवते वासुदेवायेति ॥ १२.२१०.१२ ॥
オーン。世尊ヴァースデーヴァに帰命し奉る。
12.210.13
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः ।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥ १२.२१०.१३ ॥
そう言われて、ナーラダは合掌し深く礼をして立ち、諸神の主、一切の我であるハリ、ヴィシュヌ主に語った。
12.210.14
अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥ १२.२१०.१४ ॥
合掌して、不変・永遠の神、万有の源、至高の人であるヴィシュヌに帰依します。彼は不滅であり、最高の境地です。
12.210.15
पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ १२.२१०.१५ ॥
太古の、万有の源、不滅の、世界の証人、蓮華眼の主、信者に慈悲深い方ヴィシュヌに帰依します。
12.210.16
लोकनाथं सहस्राक्षमद्भुतं परदं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ १२.२१०.१६ ॥
私は、世界の主、千眼の方、不思議な方、最高の境地を与える方、過去・未来・現在の主である世尊に帰依しました。
12.210.17
स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥ १२.२१०.१७ ॥
一切の世界の創造主、無限の方、あらゆる方向に顔を向ける方、蓮華臍の方、感官の主、真実、不変なる方に帰依します。
12.210.18
हिरण्यगर्भममृतं भूगर्भं परतः परम् ।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥ १२.२१०.१८ ॥
金胎の方、不死の方、大地の胎、最上の上なる方、主の主、始めも終わりもなく、太陽のように輝く方に私は帰依します。
12.210.19
सहस्रशीर्षं पुरुषं महर्षि तत्वभावनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ १२.२१०.१९ ॥
千の頭を持つプルシャ、偉大な聖仙、諸原理の根源、微細で不動、最も尊く、無畏を与える御方に帰依します。
12.210.20
नारायणं पुराणर्षि योगात्मानं सनातनम् ।
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम् ॥ १२.२१०.२० ॥
ナーラーヤナ、古の聖仙、ヨーガを自性とし、永遠であり、諸原理の住処、不動の主に帰依します。
12.210.21
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् ।
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥ १२.२१०.२१ ॥
一切衆生の主、これら全てに遍く御方、上下の師であるヴィシュヌが、私に恵みを垂れますように。
12.210.22
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः ।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥ १२.२१०.२२ ॥
そこから蓮華生まれの永遠なるブラフマーが生じ、ブラフマンの源、宇宙の我であるヴィシュヌが、私に恵みを垂れますように。
12.210.23
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे ॥ १२.२१०.२३ ॥
昔、劫末が訪れ、不動と動が滅び、ブラフマーらが没し、上下の諸世界が滅んだとき、それ(だけ)が(留まる)……
12.210.24
आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान् ।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥ १२.२१०.२४ ॥
生きとし生けるものが滅び、全てが没し去った後も、非物質の偉大なる宇宙の我が独り立ち続ける——ヴィシュヌが私に恵みを垂れますように。
12.210.25
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हुयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ १२.२१०.२५ ॥
四つで、また四つで、二つで、五つで、さらに二つで供物が捧げられる者——そのヴィシュヌが私に恵みを垂れんことを。
12.210.26
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥ १२.२१०.२६ ॥
雨雲、大地、穀物、時、法、行為と非行為——諸徳の源である褐色のヴァースデーヴァが私に恵みを垂れんことを。
12.210.27
अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥ १२.२१०.२७ ॥
アグニ、ソーマ、太陽と星々、そしてブラフマー、ルドラ、インドラ、ヨーギンらの輝きを増す者——そのヴィシュヌが私に恵みを垂れんことを。
12.210.28
योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञगर्भ हिरण्याङ्गं पञ्चयज्ञ नमोस्तु ते ॥ १२.२१०.२८ ॥
ヨーガの住処よ、あなたに礼拝。万物の住処、恩恵を与える者。祭祀を胎内に持つ者、金色の肢体、五祭の主よ——あなたに礼拝。
12.210.29
चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित ।
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत् ॥ १२.२१०.२९ ॥
四つの姿をもつ者、至高の住処、ラクシュミーの住処、至高者に礼拝される者。万物の住処よ、あなたに礼拝。ヴァースデーヴァ、根本原理の創造者よ。
12.210.30
अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् ।
विकर्तः पञ्चकाज्ञ नमस्ते ज्ञानसागर ॥ १२.२१०.३० ॥
不生にして無病、道そのもの、まことに無形、宇宙の姿を担う者、滅する者、五の主よ——あなたに礼拝、知の大海よ。
12.210.31
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ १२.२१०.३१ ॥
未顕現から顕現が生じた。未顕現を超える至高の不滅者、それより高いものは存在しない——その方に私は帰依します。
12.210.32
न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः ।
अनयोर्यः परतरस्तमस्मि शरणं गतः ॥ १२.२१०.३२ ॥
彼は根本原質でも大(マハット)でもなく、有情の原人でも不生者でもない。この二つを超える方に私は帰依します。
12.210.33
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ १२.२१०.३३ ॥
ブラフマーやイーシャナらは、常にこの主を思惟しても確信に至らない。その方に私は帰依します。
12.210.34
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ १२.२१०.३४ ॥
諸感官を制し、知と禅定に励む大いなる魂は、彼に至れば二度と戻らない。その方に私は帰依します。
12.210.35
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः ।
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः ॥ १२.२१०.३५ ॥
その一部分によって全世界を支えて遍く住する主。捉えがたく、無属性で、永遠なる方に私は帰依します。
12.210.36
सोमार्काग्निमयं तेजो या च तारमयी द्युतिः ।
दिवि संजायते योऽयं स महात्मा प्रसीदतु ॥ १२.२१०.३६ ॥
月と太陽と火からなる光輝、そして天に生じる星々の輝き。その大いなる魂よ、どうか御心をお示しください。
12.210.37
गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः ।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥ १२.२१०.३७ ॥
諸性質より生じながら無性質であり、太初の者、吉祥を具え、覚知あり、まことに不生、微細、遍在するヨーガ行者——その大いなる魂が慈悲を垂れ給わんことを。
12.210.38
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥ १२.२१०.३८ ॥
サーンキヤとヨーガに従う者たち、その他の成就者と至高の聖仙たち、それを知って解脱する者たち——その大いなる魂が慈悲を垂れ給わんことを。
12.210.39
अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः ।
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु ॥ १२.२१०.३९ ॥
未顕現にして、正しく統べる者、不可思議、有と無を超え、定住なく、根源の自性において最上なる者——その大いなる魂が慈悲を垂れ給わんことを。
12.210.40
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः ।
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ १२.२१०.४० ॥
場を知る者は五つの仕方で、五つの顔によって自性を享受し、大(マハット)と諸性質をも享受する者——その大いなる魂が慈悲を垂れ給わんことを。
12.210.41
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता ।
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु ॥ १२.२१०.४१ ॥
太陽の中にあるソーマ、その中にあるもの、そして元素の外にある輝き——その大いなる魂が慈悲を垂れ給わんことを。
12.210.42
नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख ।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः ॥ १२.२१०.४२ ॥
あらゆる方向より御身に礼拝。すべてである御身、眼と頭と顔があらゆるところにある御身。不変なる御身に礼拝。証人にして、場に堅固に住する御身。
12.210.43
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥ १२.२१०.४३ ॥
感官を超えた御方よ、御身に礼拝します。顕れた印によって御身は測られません。御身を知らぬ者は輪廻を流転します。
12.210.44
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः ।
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः ॥ १२.२१०.४४ ॥
欲望と怒りから解放され、愛着と嫌悪を離れ、尊き御方の帰依者である再生族は御身を知る。彼らは再び生まれることはない。
12.210.45
एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः ।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥ १२.२१०.४५ ॥
まことに、一心に専念し、対立の対を超え、結果を望まずに行い、知の火で業を焼き尽くした思索者たちは、御身に入る。
12.210.46
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत ॥ १२.२१०.४६ ॥
無身でありながら身に住み、すべての有身者に平等な御方。功徳と罪悪を離れた帰依者たちは、まさに御身に入る。
12.210.47
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च ।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥ १२.२१०.४७ ॥
未顕現、知性、自我意識、意、元素と諸感官――それらは御身の中にあり、御身もそれらの中にある。御身はそれらの中になく、それらも御身の中にはない。
12.210.48
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् ।
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः ॥ १२.२१०.४८ ॥
一、異、多を知る者は至高に至る。御身はすべての存在に平等であり、御身にとって憎むべき者も愛すべき者もいない。
12.210.49
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा ।
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव ॥ १२.२१०.४९ ॥
私は信愛によって、他に心を向けずに、平等を願います。動くものと動かないもの、四種の衆生のこの全体は、糸に宝石が貫かれるように、あなたによってあなたの中に貫かれています。
12.210.50
स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसंज्ञिकः ।
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः ॥ १२.२१०.५० ॥
あなたは創造者にして享受者、不動の者です。実でないものが実という名で呼ばれます。あなたは行為者でなく、原因であり、不動であり、自らの自己の中に別に住しています。
12.210.51
न ते भूतेषु संयोगो भूततत्वगुणाधिकः ।
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः ॥ १२.२१०.५१ ॥
あなたには存在者との結合はありません。あなたは元素とその性質を超えています。自我や知性との結合もなく、三つの性質との結合もありません。
12.210.52
न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः ।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग ॥ १२.२१०.५२ ॥
解脱の法もなく、あなたもなく、始まりも、生も、再生もありません。老いと死からの解放のために、私はあなたに帰依しました、遍在する方よ。
12.210.53
ईश्वरोसि जगन्नाथ ततः परम उच्यसे ।
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर ॥ १२.२१०.५३ ॥
あなたは主であり、世界の主です。ゆえにあなたは至高と呼ばれます。神よ、帰依者にとって善いことをお告げください、神々の主よ。
12.210.54
विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः ।
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा ॥ १२.२१०.५४ ॥
もはや私は感覚対象とも感官とも再び結びつくことはありません。香りは地へ去り、味もまた水へ去りますように。
12.210.55
तेजो हुताशनं यातु स्पर्शो यातु च मारुतम् ।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः ॥ १२.२१०.५५ ॥
光輝は火に入り、触覚は風に入り、聴覚は虚空に入れ。変異より生じた心も再びその根源に入れ。
12.210.56
इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु ।
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम् ॥ १२.२१०.५६ ॥
諸根もまたそれぞれの根源に入れ。地は水に、水は火に、火は風に入れ。
12.210.57
वायुराकाशमप्येतु मनश्चाकाश एव च ।
अहंकारं मनो यातु मोहनं सर्वदेहिनाम् ॥ १२.२१०.५७ ॥
風は虚空に入れ、心もまた虚空に入れ。心は我慢(アハンカーラ)に入れ。それは一切の有身者を惑わすものである。
12.210.58
अहंकारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत ॥ १२.२१०.५८ ॥
次に我慢は覚に入れ、覚は未顕現に入れ。アチュタよ。
12.210.59
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते ।
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ॥ १२.२१०.५९ ॥
自性が根源物質(プラダーナ)に入り、三徳の平衡が確立された時、私はすべての根、三徳、元素から離れよ。
12.210.60
निष्केवलं पदं तात काङ्क्षेऽहं परमं तव ।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ॥ १२.२१०.६० ॥
ああ友よ、私はあなたの至高で純粋な境地を切望する。私があなたと一つになり、私にもう再生がないことを。
12.210.61
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः ।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ १२.२१०.६१ ॥
心はあなたに定まり、息はあなたに溶け込み、あなたへの信愛を持ち、あなたを最高の帰依処とする。死が近づいたとき、私はただあなたを想い起こすであろう。
12.210.62
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥ १२.२१०.६२ ॥
前の身体で行った業から生じた病よ、どうか私の中に入り、苦しみを責めさいなめ。私の負債は完全に解かれよ。
12.210.63
अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः ।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥ १२.२१०.६३ ॥
神々の主よ、あなたこそ瞑想される御方です。私に再び生まれがないように。ですから言います、私の行為が私にとっての負債とならないように、と。
12.210.64
नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ १२.२१०.६४ ॥
過去に積まれたすべての病よ、私に近づくな。負債なく、私はあのヴィシュヌの最高の処へ行きたい。
12.210.65
अहं भगवतस्तस्य मम चासौ सनातनः ।
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति ॥ १२.२१०.६५ ॥
私はあの主のものであり、主は私のものである。主は永遠である。私は主によって失われることなく、主も私によって失われることはない。
12.210.66
कर्मेन्द्रियामि संयम्य पञ्च बुद्धीन्द्रियाणि च ।
दशेन्द्रियाणि मनसि अहंकारे तथा मनः ॥ १२.२१०.६६ ॥
五つの行為器官と五つの知覚器官を制御し、十の感覚を意に、意を自我意識に融合させるべきである。
12.210.67
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्पम् ॥ १२.२१०.६७ ॥
我執もまた知性に、知性を自己に置くべきである。知覚器官を制御した者は知性によって見て、最高を超えたものを知るべきである。
12.210.68
ममायमिति यस्याहं येन सर्वमिदं तततम् ।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥ १२.२१०.६८ ॥
「これは私のもの」という、私がそのために在り、そのことによってこのすべてが遍く満ちているもの——知性を超えたものを知って、彼は再び生まれることがない。
12.210.69
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ।
अपि पापसमाचारः स याति परमां गतिम् ॥ १२.२१०.६९ ॥
死が近づいたとき、このように私を念ずる者は、罪深い行いの者であっても最高の境地に至る。
12.210.70
ओं नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥ १२.२१०.७० ॥
オーム。有身者の最高の自己である、かの世尊に礼拝する。信者の唯一の拠り所である、不滅のナーラーヤナに礼拝する。
12.210.71
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ।
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत् ॥ १२.२१०.७१ ॥
心を集中して、眠る時も目覚めている時も、この神聖なヴァイシュナヴァの想起を唱え、どこにいてもこれを修習すべきである。
12.210.72
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः ॥ १२.२१०.७२ ॥
満月、新月の日、そして特に十二日に、信心ある者たちに、特に私の信者たちに、これを聞かせるべきである。
12.210.73
यद्यहंकारमाश्रित्य यज्ञदानतपः क्रियाः ।
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु ॥ १२.२१०.७३ ॥
もし人が我執に頼って祭祀・布施・苦行を行うなら、その果報は得るが、再生の循環から解放されることはない。
12.210.74
अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्यलिं ददत् ।
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् ॥ १२.२१०.७४ ॥
祖霊と神々を敬い、読誦し、供物を捧げ、合掌して施し、燃える火の中で私を念じる者は、至高の境地に至る。
12.210.75
यज्ञो दानं तपश्चैव पावनानि शरीरिणाम् ।
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः ॥ १२.२१०.७५ ॥
祭祀・布施・苦行だけが身を持つ者を浄める。ゆえに見返りを望まずに祭祀・布施・苦行を行うべきである。
12.210.76
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥ १२.२१०.७६ ॥
信心をもって「ナマハ」とだけ唱える我が信者は、たとえ賤民であっても不滅の世界を得る。ナーラダよ。
12.210.77
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ।
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः ॥ १२.२१०.७७ ॥
信心を持ち、自制して、規定どおりに私を礼拝する修行者たちは、私に帰依して私のもとに至る。ましてや、その人々は言うまでもない。
12.210.78
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते ।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम ॥ १२.२१०.७८ ॥
ここでの行為には始めと終わりがあるが、私の信者は不死を得る。ゆえに神仙よ、倦むことなく常に私を念想せよ。そうすれば成就を得て、私の境地を見るであろう。
12.210.79
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ १२.२१०.७९ ॥
無知な者に知識と法の教えを与える者は、あるいは全大地を施す者も、それと同じ果報はない。
12.210.80
तस्मात्प्रेदयं साधुभ्यो जन्मबन्धभयापहम् ।
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति ॥ १२.२१०.८० ॥
それゆえ、生まれの束縛への恐れを除くこの知識は善人に与えるべきである。人の中の最上者よ、このように与える者は幸福と力を得る。
12.210.81
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ १२.२१०.८१ ॥
千の馬祀祭を千度行う者も、私の帰依者が得るその境地には至らない。
12.210.82
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत ॥ १२.२१०.८२ ॥
昔、神聖な仙人ナーラダにこう問われた時に彼が語ったこと、善き誓いを持つ者よ、それをあなたに語ったのです。
12.210.83
त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥ १२.२१०.८३ ॥
あなたも一心に、三徳を超えた知るべきものを瞑想せよ。あらゆる在り方をもって、至高で不変のアートマンを崇拝せよ。
12.210.84
श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम् ।
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान् ॥ १२.२१०.८४ ॥
ナーラーヤナが語ったこの神聖な言葉を聞き、深い信愛に満ちたナーラダは、ただ一つの帰依を得た。
12.210.85
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ॥ १२.२१०.८५ ॥
十年間ひたすら聖仙神ナーラーヤナに帰依し、この(マントラ)を唱える者は、まことにヴィシュヌの至高の境地に至る。
12.210.86
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ १२.२१०.८६ ॥
ジャナールダナに信仰を寄せる者に、多くのマントラが何の益があろうか。「ナモー・ナーラーヤナーヤ」の一句こそ、すべての目的を成就させる。
12.210.87
इमां रहस्यां परमामनुस्मृति ।
मधीत्य बुद्धिं लभते च नैष्ठिकीम्।
विहाय दुःखान्यवमुच्य सङ्कटा ।
त्स वीतरागो विगतज्वरः सुखी ॥ १२.२१०.८७ ॥
この至高の秘密の念想を学ぶ者は、堅固な智慧を得る。苦しみを捨て、困難から解き放たれ、執着を離れ、苦悩を去って、幸福となる。