Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.211

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.211.1

देवानुरमनुष्येषु ऋषिमुख्येषु वा पुनः ।
विष्णोस्तत्वं यथाख्यातं को विद्वाननुवेत्ति तत् ॥ १२.२११.१ ॥

在诸神、非人或主要仙人之中,哪位智者真正理解所宣说的毗湿奴之本性?

12.211.2

एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्वतः ।
वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः ॥ १२.२११.२ ॥

请将这一切告诉我,婆罗多中最优秀者;我实在未得满足。我认为你是全知的。

12.211.3

कारितोऽहं त्वया राजन्यदॄत्तं च पुरा मम ।
गरुडेन पुरा मह्यं संवादोऽभूभृतोत्तम् ॥ १२.२११.३ ॥

国王啊,你促使我说话。请听听往昔我与迦卢达之间的真实对话,诸王中最优秀者。

12.211.4

पुराहं तप आस्थाय वासुदेवपरायणः ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेवच।
गङ्गद्वीपे समासीनो दशवर्षाणि भारत ॥ १२.२११.४ ॥

往昔我修苦行,专心皈依婆薮提婆,冥想、赞颂、礼拜,并唯独向他献祭;我坐在恒河的一座小岛上,度过了十年,婆罗多啊。

12.211.5

माता च मम ता देवी जननी लोकपावनी ।
समासीना समीपे मे रक्षणार्थं ममाच्युत ॥ १२.२११.५ ॥

我的母亲,那位女神,净化世界的母亲,为了保护我,坐在我的身旁,阿邙缺啊。

12.211.6

तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः ।
सुपर्णः पततांश्रेष्ठो मेरुमन्दरसन्निभः।
आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः ॥ १२.२११.६ ॥

那时,奇妙而荣耀的主宰,由全部吠陀构成,鸟中之最优者金翅鸟,如须弥山与曼陀罗山一般,心灵纯净,声名远扬,前来观看恒河。

12.211.7

तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः ।
प्रणिपत्य यथान्यायं कृताज्जलिरवस्थितः ॥ १२.२११.७ ॥

迎向那位已到来的大德者,我受到请求;依礼敬拜,合掌而立。

12.211.8

सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम् ।
तथा च पूजितः श्रीमानुणेपाविशदासने ॥ १२.२११.८ ॥

那位神也向大福的恒河致意,同样受到敬礼之后,那位光辉者便坐上了座位。

12.211.9

ततः कथान्तरे तं वै वचनं चेदमव्रवम् ।
वेदवेद महावीर्य वैनतेग महाबल ॥ १२.२११.९ ॥

于是在谈话中,我对他说了这些话:"精通吠陀的,大勇猛的,毗娜塔之子,大力的!"

12.211.10

नारायणं हृषीकेशं सहमानोऽनिशं हरिम् ।
जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः।
ममापि तस्य सद्भातं वक्तुमर्हसि सत्तम ॥ १२.२११.१० ॥

你持续地侍奉着那位那罗衍那、希利希盖莎、诃利,你知道他;你有资格说出遮那陀那是什么样的存在。也请你把他的真实品性告诉我,善人中最好的人。

12.211.11

शृणु भीष्म यथान्यायं पुरा त्वमिह सत्तमाः ।
अनेके पुनयः सिद्धा मानसोत्तरवासिनः
पगच्छुर्मा महाप्राज्ञा वासुदेवपरायणाः ॥ १२.२११.११ ॥

毗湿摩啊,请依次第听。往昔,许多居住在曼那萨之外的仙人与成就者,智慧广大、专心归依伐苏提婆,从此处前往。

12.211.12

पक्षीन्द्र वासुदेवस्य तत्वं वेत्सि परं पदम् ।
स्वसा सयो न तस्यास्ति सन्निकृष्टप्रियोपि च ॥ १२.२११.१२ ॥

鸟王啊,你知道伐苏提婆的真实本性和最高之境。他没有姐妹,没有主人,也没有亲近的所爱之人。

12.211.13

तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम् ।
अब्रवं च यथावृत्तं मम नारायणस्य च ॥ १२.२११.१३ ॥

我听了他们的话,向大哈里顶礼,并讲述了我与那罗延之间所发生的事。

12.211.14

शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा ।
आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै ॥ १२.२११.१४ ॥

诸位仙人中的猛虎,请听!往昔我盗取甘露在空中飞行时,在那里听到了一句话。

12.211.15

साधुसाधु महाबाहो प्रीतोस्मि तव दर्शनात् ।
वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना ॥ १२.२११.१५ ॥

善哉,善哉,大臂者!见到你我甚为欢喜。鸟王迦楼罗啊,现在从我这里选一个恩赐吧。

12.211.16

त्वामहं भक्तितत्वज्ञो ब्रवै वचनमुत्तमम् ।
इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः ॥ १२.२११.१६ ॥

“我通晓虔信的真谛,现对你说一句殊胜的话。”他在那里确实这样说了;随后世尊又对我说。

12.211.17

ऋषिरस्मि महावीर्य न मां जानाति वा मयि ।
असूयति च मां मूढ तच्छ्रुत्वा गर्वमास्थितः ॥ १२.२११.१७ ॥

大力者啊,我是仙人。你不认识我,或者妒忌我。愚人啊,听了这话,你便生出骄傲。

12.211.18

अहं देवनिकायानां मध्ये वचनमब्रवम् ।
ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम्।
वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः ॥ १२.२११.१८ ॥

我在诸神集会之中如此说道:“仙人啊,你先从我这里选一个恩赐;之后我再从你那里选一个。”事情就是如此,诸仙中的最上者啊。

12.211.19

तस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः ।
अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा।
वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर ॥ १२.२११.१९ ॥

因此,具有室利毗特萨标记的尊贵世尊天神今日注视着你。鸟中之王啊,请永远做我的坐骑。飞翔者之主啊,今日我从你这里求的正是这个恩赐。

12.211.20

तथेति तं वीक्ष्य मातामनहंकारमास्थितम् ।
जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम् ॥ १२.२११.२० ॥

说"就这样吧",看着他,我骄傲自满,想以幻术战胜幻术师毗湿奴、诃利。

12.211.21

त्वत्तो ह्यहं वृणे त्वद्य वरं ऋषिवरोत्तम ।
तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे ॥ १२.२११.२१ ॥

今日我从你这里求这恩赐,诸位优秀仙人中最杰出者:我将站在你之上。请赐予我这恩赐。

12.211.22

तथेति च हसन्प्राह हरिर्नारायणः प्रभुः ।
ध्वजं च मे भव सदा त्वमेव विहगेश्वर।
उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा ॥ १२.२११.२२ ॥

哈里那罗衍那世尊笑着说:"就这样吧。"鸟中之王啊,你永远做我的旗帜。鸟中之王啊,愿你的位置永远在我之上。

12.211.23

इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः ।
सहस्रचरणः श्रीमान्सहस्रादित्यसन्निभः ॥ १२.२११.२३ ॥

说完这些,手持海螺、轮和杖的尊贵世尊天神,千足、尊荣,如千个太阳。

12.211.24

सहस्रशीर्षा पुरुषः सहस्रनयनो महान् ।
सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः ॥ १२.२११.२४ ॥

千首的原人,千眼的伟大者,千冠者,不可思议者,千面者,遍一切处者。

12.211.25

विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः ।
क्वचित्संदृश्यमानस्तु चतुर्बाहुः क्वचिद्वरिः ॥ १२.२११.२५ ॥

有时他显现为神圣之相,如闪电之鬘,饰以层层璎珞;有时为四臂之身,有时则为赐予恩惠者。

12.211.26

क्वचिज्ज्योतिर्मयोचिन्त्यः क्वचित्स्कन्धे समाहितः ।
एवं मम जयन्देवस्तत्रैवान्तरधीयत ॥ १२.२११.२६ ॥

有时他光明而不可思议,有时则安坐于我的肩上。就这样,赐我胜利的神明便在那里隐去了。

12.211.27

ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम् ।
अस्याविमुच्य जननीं मया सह मुनीश्वराः ॥ १२.२११.२७ ॥

于是我满怀惊异,完成了至上的使命,未曾解救他的母亲,与你们一同离去,诸位圣者之主啊。

12.211.28

अचिन्त्योऽयमहं भूयः कोऽसौ मामब्रवीत्पुरा ।
कीदृग्विधः स भगवानिति मत्वा तमास्थितः ॥ १२.२११.२८ ॥

这位不可思议者再次——“先前与我说话的是谁?那位世尊是怎样的?”如此思量,我便依止于他。

12.211.29

अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् ।
अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम् ॥ १२.२११.२९ ॥

此后我看见神中之神、莲花眼者安坐于我肩上,而我负载着那奇妙的重量。

12.211.30

अवशस्तस्य भावेन यत्र यत्र स चेच्छति ।
विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन्।
अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः ॥ १२.२११.३० ॥

我在他的本性之下无能为力,他想往哪里,我便往哪里;心中充满惊异,思量着“这是什么?”,我承载着一切,再次没入水中。

12.211.31

सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः ।
स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक् ॥ १२.२११.३१ ॥

与因陀罗同在的诸神,以及以梵天为首、寿命一劫的大福者们赞颂我,他们每一位也都分别礼敬了我。

12.211.32

क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे ।
वैकर्णनाम सदनं हरेस्तस्य महात्मनः ॥ १२.२११.३२ ॥

在乳海北岸,有一座神圣、由宝石构成、吉祥的宫殿,名为维卡尔纳,是那位大德哈里的居所。

12.211.33

दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि ।
तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः ॥ १२.२११.३३ ॥

神圣、由光辉构成、庄严,连不死者也无法想象,以光与风构成的诸柱以各种形式矗立着。

12.211.34

विभूषितं हिरण्येन भास्वरेण समन्ततः ।
दिव्यं ज्योतिः समायुक्तं गीतवादित्रशोभितम् ॥ १२.२११.३४ ॥

四面以灿烂的黄金装饰,充满神圣的光明,并以歌声和乐器为之增色。

12.211.35

शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् ।
न च स्थलं न चान्यच्च पादयोस्तं समन्ततः।
वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः ॥ १२.२११.३५ ॥

我在那里听见声音,却看不见任何有形之体;既无处所,脚下也无别物。我颤抖着,合掌站在那里。

12.211.36

ततो ब्रह्मादयो देवा लोकपालास्तथैव च ।
सनन्दनाद्या मुनयस्तथाऽन्ये परजीविनः ॥ १२.२११.३६ ॥

于是,梵天等诸神、世界护持者,同样地,以萨难陀为首的诸仙,以及其他依他人寿命而存活者都来到了那里。

12.211.37

प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः ।
ब्रह्माणं परतः कृत्वा कृताञ्जलिपुटास्तदा ॥ १२.२११.३७ ॥

那时,众天神与乾闼婆中的最优者来到议事堂门前,以梵天居前,合掌致敬。

12.211.38

ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः ।
बोध्यमानो महाविष्णुराविर्भूत इवाबभौ ॥ १२.२११.३८ ॥

此时,被乳海浪花唤醒的大毗湿奴,仿佛刚刚显现,光辉照耀。

12.211.39

फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम् ।
पश्याम्यहं मुदाऽऽकाशे यस्योपरि जनार्दनम् ॥ १२.२११.३९ ॥

我欣喜地在天空中看到千头相连之花环所饰的舍首,安住于未显之中,而生主(Janārdana)在其上。

12.211.40

दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः ।
चर्तुभिर्बाहुभिर्युक्तं… ॥ १२.२११.४० ॥

具备四臂,修长、圆润、均匀而丰满,以臂钏和手镯闪耀……

12.211.41

पिताम्बरेण संवीतं कौस्तुभेन विराजितम् ।
वक्षस्थलेन संयुक्तं पद्मयाऽधिष्ठितेन च ॥ १२.२११.४१ ॥

身着黄色衣裳,以考斯图巴宝珠闪耀,胸膛相连,且有吉祥天女(Padmā/Lakṣmī)所居。

12.211.42

ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् ।
क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा ॥ १२.२११.४२ ॥

双目微微半开,他是一切因之因,在乳海之上闪耀,如同至高的青云。

12.211.43

न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन ।
ब्रह्मादिस्तम्बपर्यन्तं माशब्दमिति रोषितम्।
भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः ॥ १२.२११.४३ ॥

无人言语,无人发声。从梵天直到草茎,因“莫”字而愤怒,各类众生之群皆站立着,眉头紧皱,双眼斜视。

12.211.44

कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया ।
गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः ॥ १२.२११.४४ ॥

为世间之利益,从彼处出发,对我说:“去吧。”然后称我为“迦楼罗”。

12.211.45

ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः ।
आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः ॥ १२.२११.४५ ॥

于是我在他面前叩拜,合掌而立。他对我说:“来吧。”便沿东北之路而去。

12.211.46

अतीव मृदुभावेन गच्छन्निव स दृश्यते ।
अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा।
पतमानोऽहमनिशं योजनानि ततस्ततः ॥ १२.२११.४६ ॥

他仿佛以极其温柔的姿态行走。而我不断坠落,一由旬又一由旬地经过,历经阿由多、尼由多、普由多与阿浮陀之数。

12.211.47

ननु तत्वमहं भक्तो विष्ठितोस्मि प्रशास्तु नः ।
आगच्छ गरुडेत्येवं पुनराह स माधवः ॥ १२.२११.४७ ॥

“我确实是你的信徒,坚定而立;请吩咐我们。”于是摩陀婆又说:“来吧,迦楼罗。”

12.211.48

ततो भूयो ह्यहं पातं पतमानो विहायसम् ।
आजगाम ततो घोरं शतकोटिसमावृतम् ॥ १२.२११.४८ ॥

此后我又坠落于空中,来到一处可怖之地,被百千万亿之众所环绕。

12.211.49

तामसानीव भूतानि पर्वताभानि तत्र ह ।
समानानीव पद्मानि ततोऽहं भीत आस्थितः ॥ १२.२११.४९ ॥

那里有黑暗的众生,像山岳,也像莲花;于是我惊恐地站在那里。

12.211.50

ततो मां किंकरो घोरः शतयोजनमायतम् ।
निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत् ॥ १२.२११.५० ॥

于是一名可怖的侍从用手把我从那条百由旬长的路上抓住,像抛掷土块一样把我扔了出去。

12.211.51

तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम् ।
हुङ्कारघोपं तत्राहमशनीपातसन्निभान्।
कर्णमूले ह्यशृण्वन्तस्ततो भूतैः समास्थितः ॥ १२.२११.५१ ॥

我穿过那片黑暗,又越过水与天空,在那里我于耳根听到如雷击般的呼喝轰鸣;于是众生将我围住。

12.211.52

ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण ।
इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम् ॥ १२.२११.५२ ॥

于是我说:“诸神之主啊,莲花眼者,求你护佑我。”那时毗湿奴在那里对我说话。

12.211.53

सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयङ्करः ।
अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम् ॥ १२.२११.५३ ॥

在一个洞口,一个可怖者把我投了出去;转瞬之间我越过了,看见了火与风的圆域。

12.211.54

आकाशमिव संप्रेक्ष्य क्षेप्तुकाममुपागतः ।
तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः ॥ १२.२११.५४ ॥

他看着我如同看着天空,走近了,想要把我投掷出去;我在那里痛苦地呼喊着站立。

12.211.55

क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना ।
स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयङ्करः ॥ १२.२११.५५ ॥

片刻之后,那凶猛而极为愤怒的神鸟看见了我,以其羽翼的光辉可怖地向我扑来。

12.211.56

…गरुडकुलं सहस्रादित्यसन्निभम् ।
मां दृष्ट्वाऽप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः ॥ १२.२११.५६ ॥

……如千日之光的迦楼罗族,见到我后仍停留在那里;只是短时间内它极为虚弱。

12.211.57

अहो विहङ्गमः प्राप्त इति विस्मयमानसाः ।
मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम् ॥ १२.२११.५७ ॥

“啊!来了一只鸟!”他们心怀惊异,看见我后这样说;我在那里看见迦楼罗旗帜。

12.211.58

सहस्रयोजनायामं सहस्रादित्यवर्चसम् ।
सहस्रगरुडारूढं गरुडास्ते महाबलाः ॥ १२.२११.५८ ॥

长达千由旬,有千日之光辉,由千位迦楼罗乘坐——这些迦楼罗极为强大。

12.211.59

अत्याश्चर्यमिमं देव वपुषाऽस्मत्कुलोद्भवः ।
स्वल्पप्राणः स्वल्पकायः कोसौ पक्षी इहागतः ॥ १२.२११.५९ ॥

“神啊!这真是奇妙——这只出生于我们族中、却气息微弱、身躯渺小的鸟,是谁来到了这里?”

12.211.60

तच्छ्रुत्वाऽहं नष्टगर्वो भीतो लज्जासमन्वितः ।
स्वयं बुद्ध्श्च संविग्नस्ततो ह्यशृणवं पुनः ॥ १२.२११.६० ॥

听到这些,我的傲慢消散了;我感到恐惧,满怀羞愧。内心不安的我于是再次倾听。

12.211.61

आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः ।
परार्ध्यं च ततो गत्वा योजनानां शतं पुनः।
तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम् ॥ १२.२११.६१ ॥

听到“来吧,迦楼罗!”,我便登上了坐骑。再越过最高尺度之外的百由旬,我在那里看见了梵天,即最高居所者。

12.211.62

तत्रापि चापरं तत्र शतकोटिपितामहान् ।
पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः ॥ १२.२११.६२ ॥

在那里,又在另一处,我看见一百亿位祖父。那时世尊摩图苏陀那大声说:“再来吧!”

12.211.63

महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम् ।
कपित्थफलसंकाशमन्धकारैः समाश्रितम् ॥ १२.२११.६३ ॥

然后我看见一个伟大的族群——不朽的,有尺度的,像木苹果,被黑暗所环绕。

12.211.64

तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह ।
महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः ॥ १२.२११.६४ ॥

站在那里的尊贵的哈里劈开了一个卵。他抓住我这位大生灵,给了我,然后又把我扔了出去。

12.211.65

तन्सध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान् ।
पश्याम्यहं यथायोगं मातरं स्वकुलं तथा ॥ १२.२११.६५ ॥

在其中,我如其所应地看见七海、梵天,同样也看见诸神——还有我的母亲,以及我自己的家族。

12.211.66

एवं मयाऽनुभूतं हि तत्वान्वेषणकाङ्क्षिणा ।
शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः ॥ १२.२११.६६ ॥

我为寻求真理之心所驱,如此亲身经历了这一切。诸位最上的圣者啊,请看我,我如同一顶轿子。

12.211.67

इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराऽभवत् ।
तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम ॥ १२.२११.६७ ॥

我曾如此向婆罗门们讲述,毗湿摩啊,讲述我以前所经历的事情。至善者啊,我已按照法则把这一切都告诉了你。

12.211.68

योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् ।
नान्यथा शक्यरूपोसौ ज्ञानगम्यः परः पुमान् ॥ १२.२११.६८ ॥

瑜伽行者通过智慧见到至上的哈里而看见他。否则,那种形相无法获得;那至上的人只能通过智慧而知晓。

12.211.69

अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः ॥ १२.२११.६९ ॥

并且通过专一的虔诚,伟大的哈里可以被获得。

12.211.70

इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट् प्रभुः ।
आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत ॥ १२.२११.७० ॥

如此说完,尊贵的苏婆尔那,鸟王之主,向我的母亲告别,就在那里消失了。

12.211.71

तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् ।
ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम ॥ १२.२११.७१ ॥

因此,诸王之主啊,遍在自我、原初本体的创造者婆苏提婆,通过智慧与虔诚便可轻易获得,别无他途——这是我的看法。