Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.213

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.213.1

चतुर्विधानि भूतानि स्थावराणि चराणि च ।
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च।
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः ॥ १२.२१३.१ ॥

众生有四类,有静止者与运动者。据说它们从未显现者中生起,又归于未显现者。应知未显现者的特征;心从未显现者而生,以自我为其本性。

12.213.2

यथाऽश्वत्थकणीकायामन्तर्भूतो महाद्रुमः ।
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा ॥ १२.२१३.२ ॥

如大无花果树隐藏于其种子之中,却显现为完全生长的样子,从未显现者而生也是如此。

12.213.3

आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा ।
तामन्वेति मनो यद्वल्लोहवर्मणि सन्निधौ ॥ १२.२१३.३ ॥

从未显现者所生的觉知追随自我;同样,心也追随它,犹如铁甲靠近磁石。

12.213.4

अभिद्रवत्ययस्कान्तमयोनिश्चेतनं यथा ।
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥ १२.२१३.४ ॥

如无生因的无识之铁奔向磁石,同样,由自性因所生的诸法及其他类似者也是如此。

12.213.5

तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः ।
अचेतनाश्चेतयितुः कारणादभिसंगताः ॥ १२.२१३.५ ॥

同样,从未显现者所生的诸法,具有作者之因的特征,虽无识,却因有觉知者之因而相合。

12.213.6

न भूर्न खं द्यौर्भूतानि नर्षयो न सुरासुराः ।
नान्यदासीदृते जीवमासेदुर्न तु संहतिम् ॥ १२.२१३.६ ॥

没有大地,没有虚空,没有天界,没有众生,没有仙人,没有天神与阿修罗;除了生命之我,别无他物存在,它们也未达到聚合。

12.213.7

सर्वं नित्यं सर्वगतं मनोहेतुत्वलक्षणम् ।
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ॥ १२.२१३.७ ॥

一切皆永恒、遍在,以作为心之因为特征;由无明所生的行为被宣说为因之标志。

12.213.8

तत्कारणेन संयुक्तं कार्यसंग्रहकारकम् ।
येनैतद्वर्तते चक्रमनादिनिधनं महत् ॥ १२.२१३.८ ॥

与彼因相连,聚集并造作诸果,由此无始无终的大轮得以运转。

12.213.9

येन स्वभावसद्भावं हेतुभूता सकारणा ।
एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम् ॥ १२.२१३.९ ॥

由之,自性之存在得以成立,作为因并与其因相连;如是,原质的展开实乃依止于至上补鲁莎而成。

12.213.10

अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् ।
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ १२.२१३.१० ॥

以未显为轴心,能显现万物,为诸变易所环绕;此轮由知场者所主宰,在光滑的轴上稳固地转动。

12.213.11

स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् ।
तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः ॥ १२.२१३.११ ॥

因其润滑,整个世界在此轮中如芝麻般被碾压,仿佛被由无明所生的享受所压迫、如被榨油之器挤压。

12.213.12

प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम् ।
देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्यः सनातनः ॥ १२.२१३.१२ ॥

此实由气息而成;然气息既息,身体便因对立而得维持。那清净、不可思议、永恒者,无主宰地住于身中。

12.213.13

भ्रामयन्नेषतो याति कालचक्रसमन्वितः ।
भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः ॥ १२.२१३.१३ ॥

与时轮相合,瞬息之间使其旋转而行,不断迷惑众生,并获得轮之速度。

12.213.14

स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु ।
तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते।
बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसंभवम् ॥ १२.२१३.१४ ॥

如同油类之物相合,芝麻在轮中被压榨,诸物中并无收成;同样,受心之机械所苦,又为外物所主宰,智者之业由此而生。

12.213.15

कर्म तत्कुरुते तर्षादहंकारपरिग्रहम् ।
कार्यकारणसंयोगे स हेतुरुपपादितः ॥ १२.२१३.१५ ॥

他因渴爱而行此业,执取我慢;在果与因的结合中,此即被确立为因。

12.213.16

यथाऽऽकर्ण्य च तच्छिष्यस्तत्वज्ञानमनुत्तमम् ।
नात्येति कारणं कार्यं न कार्यं कारणं तथा।
कार्याण्यमूनि करणे कालो भवति हेतुमान् ॥ १२.२१३.१६ ॥

弟子闻此无上真知,明白:因不越过果,果亦不成为因;同样,这些果存在于器官之中;唯时间成为有因之物。

12.213.17

हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् ।
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥ १२.२१३.१७ ॥

与因相连的自性及其变化,彼此相互转向;它们始终受原人(补鲁沙)所主宰。

12.213.18

सत्वरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः ।
क्षेत्रज्ञमेवानयाति पांसुर्वातेरितो यथा ॥ १२.२१३.१८ ॥

从善、激情与暗性之状态中脱落,具足因之力,他唯有到达知田者那里,如被风吹动的尘土。

12.213.19

न च तैः स्पृश्यते भावैर्न ते तेन महात्मना ।
सरजस्कोऽरजस्कश्च स वै वायुर्भवेद्यथा ॥ १२.२१३.१९ ॥

他不为那些状态所触,也不为那位大德所触。无论带尘与否,那风仍是风。

12.213.20

तथैतदन्तरं विद्यात्सत्वक्षेत्रज्ञयोर्बुधः ।
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥ १२.२१३.२० ॥

智者应当这样知道悉多与田知者之间的区别。通过修习如此相应,他不再回归本性。

12.213.21

संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः ।
तथा वार्तां समीक्षेत कृतलक्षणसंविदम् ॥ १२.२१३.२१ ॥

这个生起的疑惑,尊贵的仙人斩断了。同样,那具备标志与知识的论述应当被审察。

12.213.22

बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः ॥ १२.२१३.२२ ॥

如人毁坏被火烧过的种子,使其不再发芽,同样,以智慧烧尽烦恼的自我,不再重新出生。