摩诃婆罗多 · 章 12.215
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.215.1
रजसा साध्यते मोहस्तमश्च भरतर्षभ ।
क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः ॥ १२.२१५.१ ॥
婆罗多族的雄牛啊,迷惑由激情(罗阇)而生,也由黑暗(答摩)而生。压制愤怒、贪婪、恐惧与傲慢,才能得到清净。
12.215.2
परमं परमात्मानं देवमक्षयमव्ययम् ।
विष्णुमव्यक्तसंस्थानं विदुस्तं देवसत्तमम् ॥ १२.२१५.२ ॥
他们认为,那至高、至上我、不灭不变之神,形态未显的毗湿奴,是诸神中最优秀者。
12.215.3
तस्य मायापिनद्धाङ्गा ज्ञान भ्रष्टा निराशिषः ।
मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ॥ १२.२१५.३ ॥
肢体被他的幻术束缚、失去智慧、无所希冀的人,因知识的迷惑而趋向欲望。
12.215.4
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः ।
मानदर्पावहंकारमहंकारात्ततः क्रियाः ॥ १२.२१५.४ ॥
人因欲望而生愤怒,继而是贪婪与迷妄;是荣誉、傲慢与我慢。由我慢便生出种种行为。
12.215.5
क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम् ।
अथ दुःखसमारम्भा जराजन्मकृतक्षणाः ॥ १२.२१५.५ ॥
因业行而生情爱的纠结;由情爱而随之生忧愁。于是苦的开端出现,其机缘由衰老与出生所造就。
12.215.6
जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् ।
पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम् ॥ १२.२१५.६ ॥
出生之前是胎中的居留,由精与血所生,被粪便与尿液浸湿,浑浊,源于血。
12.215.7
तृष्णाभिभूतस्तैर्वद्धस्तानेवाभिपरिप्लवन् ।
तथा नरकगर्तस्थस्तृष्णारज्जुभिराचितः।
पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः ॥ १२.२१५.७ ॥
被渴爱所征服,被那些束缚所缚,他四处漂泊;躺在地狱的坑中,被渴爱之绳紧紧捆缚,肢体受功德与罪业驱使,他如虫一般出生。
12.215.8
मशकैर्मत्कुणैर्दष्टस्तथा चित्रवधार्दितः ।
नानाव्याधिभिराकीर्णः कथंचिद्यौवनं गतः ॥ १२.२१५.८ ॥
被蚊虫和臭虫叮咬,被种种折磨所苦,被各种疾病所围困,他勉强才得以长大成人。
12.215.9
कूर्मोत्सृजति भूयश्च रज्जुः स्वस्वमुखेप्सया ।
योषितं नरकं गृह्य जन्मकर्मवशानुगः ॥ १२.२१५.९ ॥
龟又放开,绳索也各自为了自己的口而放开。他把女人当作地狱而抓住,顺从出生与业力的支配而随行。
12.215.10
पुरक्षेत्रनिमित्तं यद्दुःखं वक्तुं न शक्यते ।
कस्तत्र निन्दकश्चैव नरके पच्यते भृशम् ॥ १२.२१५.१० ॥
因城市与田地而生的苦,难以言说;在那里,即使是诽谤者,也在地狱中被煎熬得厉害。
12.215.11
वार्धक्यमनुलङ्घेत तत्र कर्मारभेत्पुनः ।
भगवान्संस्तुतः पश्चात्किं प्रवक्ष्यामि ते भृशम् ॥ १२.२१५.११ ॥
人应当超越衰老,并在那里重新开始行动。在赞颂世尊之后,我还能对你详细说些什么呢?
12.215.12
संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः ।
प्रकृत्याः क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः।
तस्मादेवाविशेषेण नरोऽतीयाद्विशेषतः ॥ १२.२१५.१२ ॥
在那里应当明白:女人是轮回之网的承载者;她们是自性,即田地;而男人则具有田地知者的特征。因此,人应不分彼此地超越她们,尤其应当如此。
12.215.13
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् ।
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥ १२.२१५.१३ ॥
这些形貌可怖的克利提确实迷惑无知之人;隐藏于激情中的感官永恒之相,正是此物。
12.215.14
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः ।
स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत्।
स्वसंज्ञानस्वकांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत् ॥ १२.२१५.१४ ॥
因此,众生从由渴爱构成的贪爱之种子中出生。正如从肢体上除去由自身身体所生、并不视为己有的蛆虫,同样应当舍弃那些被视为己有之亲属、被称为儿子的蛆虫。
12.215.15
शुक्रतो रसतश्चैव देहाज्जायन्ति जन्तवः ।
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥ १२.२१५.१५ ॥
众生从精液、精华以及身体本身而生。智者应当不予理会,无论它们是由自性还是由业之结合而生。
12.215.16
रजस्तमसि पर्यस्तं सत्वं च रजसि स्थितम् ।
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यंहंकारलक्षणम् ॥ १२.२१५.१६ ॥
被罗阇与答摩所覆、住于罗阇中的萨埵,是智慧的所依;无明则以觉与我慢为特征。
12.215.17
तद्बीजं देहिनामाद्दुस्तद्बीजं जीवसंज्ञितम् ।
कर्मणा कालयुक्तेन संसारपरिवर्तनम् ॥ १२.२१५.१७ ॥
那是有身众生之种子,而这种子被称为命我。与业及时间相结合,便引起轮回的流转。
12.215.18
रमत्ययं यथा स्वप्ने मनसा देहवानिव ।
कर्मगर्भैर्गुणैर्देही गर्भे तदुपलभ्यते ॥ १२.२१५.१८ ॥
如同梦中,此我以意而乐,宛如有身;同样,有身者被业胎所孕的诸德所缠,在胎中亦以同样的方式被觉知。
12.215.19
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् ।
जायते तदहंकाराद्रागयुक्तेन चेतसा ॥ १२.२१५.१९ ॥
由如种子般的业所驱动,每一根感官皆生起;它由我慢和与贪爱相连的心而生。
12.215.20
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।
रूपरागात्तथा चक्षुर्घ्राणं गन्धजिघृक्षया ॥ १२.२१५.२० ॥
由于对声音的贪爱,在修养过自我的人身上生起耳根;同样,由于对色的贪爱生起眼根,由于想要闻香而生起鼻根。
12.215.21
संस्पर्शेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः ।
व्यानोदानौ समानश्च पञ्चधा देहयापनम् ॥ १२.२१५.२१ ॥
同样由于触的缘故生起风,它依止于上行气与下行气;与遍行气、上升气、平等气一起,身体以五种方式得以维持。
12.215.22
संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः ।
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥ १२.२१५.२२ ॥
人以由业所生、为梵天所包裹的肢体而降生——始末皆苦,中间亦苦,有身体的苦与心的苦。
12.215.23
दुःखं विद्यादुपादानादभिमानाच्च वर्धते ।
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥ १२.२१५.२३ ॥
应当知道,苦由取著而生,因我慢而增长;舍弃它们便有灭尽,知灭尽者得解脱。
12.215.24
इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ ।
परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥ १२.२१५.२४ ॥
智者应当如见尘埃般看清感官的生起与灭没,以经典之眼如实审察,然后依法而行。
12.215.25
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् ।
ज्ञानैश्च करणैर्देही न देहं पुननर्हति ॥ १२.२१५.२५ ॥
在无渴求之人身上,认知诸根不再趋向感官之境。具备知识与诸根的有身者,不再配得重新获得身体。