Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.216

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.216.1

अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा ।
तत्त्वज्ञानाच्चरन्राजन्प्राप्नुयात्परमां गतिम् ॥ १२.२१६.१ ॥

此处我将依照典籍之眼,如理宣说方法。大王,依真实之知而行者,将得至上之归宿。

12.216.2

सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते ।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः ॥ १२.२१६.२ ॥

在一切众生中,人被称为最上。在人之中,人们说再生者最上;在再生者之中,称为咒文见者最上。

12.216.3

सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः ।
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः ॥ १२.२१६.३ ॥

他们是一切众生的自我,知晓一切,见一切:通晓吠陀与典籍、对真实之义决断明确的婆罗门。

12.216.4

नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि ।
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥ १२.२१६.४ ॥

如同盲人在路上遭遇艰难,世间无知之人亦然。因此,知者更为殊胜。

12.216.5

तांस्तानुपासते धर्मान्धर्मकामा यथागमम् ।
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥ १२.२१६.५ ॥

求法之人依典籍奉行种种法则;但若无这些法则的共同意义,这些德性便不(能获得)。

12.216.6

वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः ।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान् ॥ १२.२१६.६ ॥

言语、身体与心意的清净,忍耐,真实,坚定与念memory:在一切法中,知法者所宣示的正是这些吉祥的德性。

12.216.7

यदिदं ब्रह्मणो रूपं ब्रह्मंचर्यमिति स्मृतम् ।
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम् ॥ १२.२१६.७ ॥

此梵行被称为梵的形态,超越一切法;由此人们到达至高的归宿。

12.216.8

लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम् ।
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥ १२.२१६.८ ॥

远离交合、无声无触之物,也就是以耳听、以目见。

12.216.9

वाक्संभाषाप्रवृत्तं यत्तन्मनः परिवर्जितम् ।
बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम् ॥ १२.२१६.९ ॥

沉迷于言语交谈的心应当舍弃;以智慧决定无染的梵行。

12.216.10

सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् ।
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥ १२.२१६.१० ॥

行为端正者应到达梵天界;中等者得见诸天;最上的再生者以学识而生,奉持最上的行为。

12.216.11

सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु ।
संप्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥ १२.२१६.११ ॥

梵行极为艰难,请听我说其方法。再生者应当制伏燃烧而升起的心。

12.216.12

योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः ।
कथंचिद्दर्शनादासां दुर्बलानां विशेद्रजः ॥ १२.२१६.१२ ॥

不应听闻女人的言谈,也不应看赤身裸体的女人;因为见到她们,热情便会侵入软弱者之心。

12.216.13

रागोत्पन्नश्चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः ।
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम् ॥ १२.२१६.१३ ॥

若由欲望而生,白天应三次入水;沉入水中,以心默诵三遍阿伽摩尔沙纳。

12.216.14

पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम् ।
ज्ञानयुक्तेन मनसा संततेन विचक्षणः ॥ १२.२१६.१४ ॥

如此,智者应以与智慧相应、持续不断的心,焚烧内在由激情所成的罪。

12.216.15

कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् ।
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥ १२.२१६.१५ ॥

如同与尸体和污秽相连、没有孔隙的绳索,应知寄居身中的自我即是身体的束缚。

12.216.16

अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम् ।
नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते ॥ १२.२१६.१६ ॥

装满污秽、被黏液与污垢覆盖的器皿,人连看都不愿看,又怎会想去触碰?

12.216.17

देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् ।
बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् ॥ १२.२१६.१७ ॥

身体之器装满污秽,外面覆盖着汗水与水,令人厌恶;男女的这一身体,在智者看来便是地狱。

12.216.18

छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् ।
अन्तस्यं स्रंसते तद्वज्जलं देहेषु देहिनाम् ॥ १२.२१६.१८ ॥

如同有孔的水罐泄出其中牢牢盛着的水,体内之水也从有身者的身体中流淌而出。

12.216.19

श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च ।
कफजालविनिर्यासः सरसश्चित्त मुञ्चय ॥ १२.२१६.१९ ॥

痰、泪、尿、沉渣、粪便与精液,以及从痰网渗出的液体——啊,心啊,放下它们吧。

12.216.20

वातपित्तकफान्रक्तं त्वङ्भांसं स्नायुमस्थि च ।
मज्जां देहं सिराजालैस्तर्पयन्ति रसा नृणाम् ॥ १२.२१६.२० ॥

风、胆汁与痰、血、皮、肉、筋、骨与髓——诸液通过脉络之网滋养人的身体。

12.216.21

दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः ।
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सहस्रशः ॥ १२.२१६.२१ ॥

应知此中有十条主要脉管,承载五根的性质,由之生出千万细脉。

12.216.22

एवमेताः सिरा नद्यो रसोदा देहसागरम् ।
तर्पयन्ति यथाकालमापगा इव सागरम् ॥ १२.२१६.२२ ॥

如是,这些脉络是输送精液的河流,适时滋养身体之海,如百川注入大海。

12.216.23

मध्ये च हृदयस्यैका सिरा तत्र मनोवहा ।
शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥ १२.२१६.२३ ॥

心脏中央有一条脉络,承载心意;由此,依意念而生的精液散布于人的一切肢体。

12.216.24

सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः ।
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥ १२.२१६.२४ ॥

遍布诸肢体、随之而行的脉络抵达双目,承载火之性质。

12.216.25

पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः ।
शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः ॥ १२.२१६.२५ ॥

如同隐藏在牛奶中的酥油,通过孔道被搅出,精液也通过由身体意念所生的孔道被搅出。

12.216.26

स्वप्नेऽप्येवं यथाऽभ्येति मनः संकल्पजं रजः ।
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहाः ॥ १२.२१६.२६ ॥

即使在梦中,如同由心念所生的罗阇(rajas)升起,他的意导脉也将无接触而生的精液从身体中排出。

12.216.27

महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसंभवम् ।
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥ १२.२१६.२७ ॥

伟大的仙人、尊贵的阿特利知晓这由精液所生的根源。人的种子以因陀罗为神,因此被称为“根”(indriya)。

12.216.28

ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम् ।
विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम् ॥ १२.२१६.२८ ॥

那些知晓精液之行、即众生混杂之因的人,若已离欲、罪过焚尽,便不会再获得身体的生育。

12.216.29

गुणानां साम्यमागम्य मनसैव मनोवहम् ।
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥ १२.२१६.२९ ॥

达到诸德的平衡,仅以心念驱离意导脉、身体的作为与诸气,他在临终时获得解脱。

12.216.30

भविता मनसो ज्ञानं मन एव प्रजायते ।
ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम् ॥ १२.२१६.३० ॥

将有对心的觉知;心本身便会生起。大德之人的心光明、无罗阇,且常以真言成就。

12.216.31

तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम् ।
देहबीजं समुत्पन्नमस्मित्कर्मणि विद्यते ॥ १२.२१६.३१ ॥

因此,为了消除它,应当行无垢之业;在此业中,已生的身体之种子仍然存在。

12.216.32

न स्मरेन्न प्रयुञ्जीत ज्ञानी तत्कर्म बुद्धिमान् ।
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥ १२.२१६.३२ ॥

智者不应记起、也不应实行那种行为;在此舍弃激情与暗昧,他便不会堕入畜生之道。

12.216.33

तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् ।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ॥ १२.२१६.३३ ॥

青年时所得的知识会在衰老中变得虚弱;智慧随时间成熟的人,便重新获得心的力量。

12.216.34

एव पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु ।
आदत्ते हृदये कामं व्याध्यादिभिरभिप्लुतः ॥ १२.२१६.३४ ॥

如此,他在心中执着于儿子、妻子、亲属、姻亲和朋友的欲望,被疾病等所困扰。

12.216.35

यतस्ततः परिपतन्नविन्दन्सुखमण्वपि ।
बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः।
ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते ॥ १२.२१६.३५ ॥

他东奔西走,连一丝快乐也找不到,被诸多苦难所困,之后才生出厌离;依止智慧之树,之后才得安宁。

12.216.36

सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् ।
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते ॥ १२.२१६.३६ ॥

超越那如同极难行之路的三德之缚;如同看见过失,便超越它们而得不死。