Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.218

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.218.1

निष्कल्मषं ब्रह्मचर्यमिच्छताचरितुं सदा ।
निद्रा सर्वात्मना त्याज्या स्वप्नदोषमवेक्षता ॥ १२.२१८.१ ॥

欲常行无垢梵行者,应全然舍弃睡眠,警惕梦中遗精之过。

12.218.2

स्वप्ने हि रजसा देही तमसा चाभिभूयते ।
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥ १२.२१८.२ ॥

梦中,有身者为激情与暗性所压倒;仿佛得了另一身体,失去记忆而游荡。

12.218.3

ज्ञानाभ्यासाज्जागरिता जिज्ञासार्थमनन्तरम् ।
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा ॥ १२.२१८.३ ॥

由修习知识而生觉醒,之后为求探究;而专注于证知者,则恒常不断地醒觉。

12.218.4

अत्राह कोन्वयं भावः स्वप्ने विषयवानिव ।
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥ १२.२१८.४ ॥

此处问道:梦中此种状态是何,仿佛有所对境?诸根虽已收敛,有身者仍仿佛有身而存在。

12.218.5

अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः ।
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥ १२.२१८.५ ॥

此处说:如瑜伽之主哈里知此,诸大仙人亦如是叙述此合理之义。

12.218.6

इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं मनः ।
तन्मयानीन्द्रियाण्याहुस्तावद्गच्छन्ति तानि वै ॥ १२.२१८.६ ॥

人们说,梦由诸根之疲倦而生;意遍在一切,诸根被称为意所成,它们便如此行走。

12.218.7

अत्राहुस्त्रितयं नित्यमतथ्यमिति चेच्च न ।
प्रथमे वर्तमानोऽसौ त्रितयं चेति सर्वदा ॥ १२.२१८.७ ॥

此处说此三者恒常存在;若其不虚,则处于第一状态者始终知晓此三者。

12.218.8

नेतरावुपसंगम्य विजानाति कथंचन ।
स्वप्नावस्थागतो ह्येष स्वप्न इत्येव वेत्ति च ॥ १२.२१८.८ ॥

他接近另外两者,却绝不能以任何方式认知;此人进入梦境状态,只以‘梦’来认知它。

12.218.9

तदप्यसदृशं युक्त्या त्रितयं मोहलक्षणम् ।
यदात्मत्रितयान्मुक्तस्तदा जानात्यसत्कृतः ॥ १२.२१८.९ ॥

以理推之,此亦不合;三者乃迷惑之相。当脱离自我三者时,那被视为虚假者便能知晓。

12.218.10

मनसस्त्वप्रलीनत्वात्तत्तदाहुर्निदर्शनम् ।
कार्ये चासक्तमनसः संकल्पो जाग्रतो ह्यपि।
यद्वन्मनोरथैश्चर्यं स्वप्ने तद्वन्मनोगतम् ॥ १२.२१८.१० ॥

因心未完全止息,故以此为譬喻;心执着于行动的醒者之思念亦复如是;如梦中意愿之车的富贵,凡入于心者亦如此。

12.218.11

संसाराणामसंख्यानां कामात्मा तदवाप्नुयात् ।
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ॥ १२.२१८.११ ॥

在无数轮回之中,欲望之我得之;至上之人知晓心中所隐藏的一切。

12.218.12

गुणानामपि यद्येतत्कर्मणा चाप्युपस्थितम् ।
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥ १२.२१८.१२ ॥

若此亦因德性与业行而现起,则众生便如心所想象的那样,宣说每一事物。

12.218.13

ततस्तमुपसर्पन्ति गुणा राजसतामसाः ।
सात्विका वा यथायोगमानन्तर्यफलोदयम् ॥ १२.२१८.१३ ॥

于是激情与暗性之德趋近于他,或善性之德依其适宜而来,其果随即生起。

12.218.14

ततः पश्यन्त्यसंबन्धान्वातपित्तकफोत्तरान् ।
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरत्ययम् ॥ १२.२१८.१४ ॥

于是他们看见被风、胆、痰所主导的、无所关联的事物;由激情与暗性所生的状态,他们说这也是难以超越的。

12.218.15

प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम् ।
तत्तत्स्वप्नेप्युपरते मनो बुद्धिर्निरीक्षते ॥ १२.२१८.१५ ॥

心以清净之根所思念的,心与智在梦中、诸根寂静时,正是观见其所念。

12.218.16

व्यापकं सर्वभूतेषु वर्तते दीपवन्मनः ।
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥ १२.२१८.१६ ॥

遍布于一切众生之中,心如灯而住;应当以自我之力知之,因为一切诸神都在自我之中。

12.218.17

मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम् ।
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् ॥ १२.२१८.१७ ॥

心中隐藏着一扇门;依居人身,那既是有又是无的未显现者在此中入睡——这便是它的证明。

12.218.18

व्यक्तभेदमतीतोऽसौ चिन्मात्रं परिदृश्यते ।
सर्वभूतात्मभूतस्थं तमध्यात्मगुणं विदुः ॥ १२.२१८.१८ ॥

超越显现的差别,他只被视为纯粹的觉知;安住于一切众生之我,人们称之为内在自我的德性。

12.218.19

लिप्सेन मनसा यश्च संकल्पादैश्वरं गुणम् ।
आत्मप्रसादात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥ १२.२१८.१९ ॥

若人以贪欲与心中的决意获得主宰之德,应当通过自我的清净来认识他;因为一切神祇都在自我之中。

12.218.20

एवं हि तपसा युञ्ज्यादर्कवत्तमसः परम् ।
त्रैलोक्यप्रकृतिर्देही तमसोन्ते महेश्वरम् ॥ १२.२१८.२० ॥

如此以苦行,应如太阳般超越黑暗而行瑜伽;具三界之性的有身者,在黑暗的尽头,得见大自在天。

12.218.21

तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः ।
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥ १२.२१८.२१ ॥

苦行为诸天所依,毁灭苦行的黑暗属阿修罗;此为天神与阿修罗所护持,人们称之为智慧的标志。

12.218.22

सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः ।
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥ १२.२१८.२२ ॥

喜性、激性与暗性——人们知道这是诸天与阿修罗之德;应知喜性为诸天之德,其余二者为阿修罗之德。

12.218.23

सत्त्वं मनस्तथा बुद्धिर्देवा इत्यभिशंब्दिताः ।
तैरेव हि वृतस्तस्माज्ज्ञात्वैवं परमं… ॥ १२.२१८.२३ ॥

喜性、意与智被称为诸天;他确实为它们所包裹;因此如此了知至上……

12.218.24

निद्राविकल्पेन सतां… विशति लोकवत् ।
स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः ॥ १२.२१८.२४ ॥

以睡眠的交替,善人之……如世界般进入;隐藏之自我者变得安宁,远离污垢。

12.218.25

निशादिका ये कथिता लोकानां कलुषा मताः ।
तैर्हीनं यत्पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम्।
सदानन्दमयं नित्यं भूत्वा तत्परमन्वियात् ॥ १२.२१८.२५ ॥

成为永远充满喜乐而恒常者,应当追求那至上之境:那清净之城,存在于内外,远离被称为夜晚等世界的污垢。

12.218.26

एवमाख्यातमत्यर्थं ब्रह्मचर्यमकल्मषम् ।
सर्वसंयोगहीनं तद्विष्ण्वाख्यं परमं पदम्।
अचिन्त्यमद्भुतं लोके ज्ञानेन परिवर्तते ॥ १२.२१८.२६ ॥

如是已宣说极为无垢的梵行。那名为毗湿奴的至上之境,离一切结合,在世间不可思议而奇妙;它由智慧而得。

12.218.27

ब्रह्म तत्परमं ज्ञानममृतं ज्योतिरक्षरम् ।
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥ १२.२१८.२७ ॥

那至上的梵是智慧、不死、光明、不灭。心已修炼者知之,他们抵达至上的归宿。

12.218.28

हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा ।
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥ १२.२१८.२८ ॥

这些只能以因由、以智慧之眼来宣说。或者可以通过制感(收摄感官)来认知未显的梵。