摩诃婆罗多 · 章 12.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.22.1
अस्मिन्नेवान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् ।
निर्विण्णमनसं ज्येष्ठमिदं भ्रातरमच्युतम् ॥ १२.२२.१ ॥
与此同时,阿周那again对心情沮丧的长兄阿君多(不动者)说了这番话。
12.22.2
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यं सुदुर्लभम् ।
जित्वा चारीन्नरश्रेष्ठ तप्यते किं भृशं भवान् ॥ १२.२२.२ ॥
精通法的人,人中之杰!你以刹帝利之法获得了如此难得的王国,又战胜了敌人,为何还如此深深地痛苦?
12.22.3
क्षत्रियाणां महाराज संग्रामे निधनं मतम् ।
विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ॥ १२.२२.३ ॥
伟大的国王啊,对于刹帝利而言,战场上的死亡被认为胜过许多祭祀。请记住刹帝利之法。
12.22.4
ब्राह्मणानां तपस्त्यागः प्रेत्य धर्मविधिः स्मृतः ।
क्षत्रियाणां च निधनं संग्रामे विहितं प्रभो ॥ १२.२२.४ ॥
对婆罗门而言,苦行与舍弃被教导为死后的法则;而对刹帝利而言,主啊,战死被规定为其归宿。
12.22.5
क्षात्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः ।
वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥ १२.२२.५ ॥
刹帝利之法被说为极其可怖,且常与兵器相连;而且,婆罗多族中最优秀的人啊,适时在战场上以兵器杀敌也是其中的一部分。
12.22.6
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण वर्ततः ।
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंभवम् ॥ १२.२२.६ ॥
国王啊,即使婆罗门依刹帝利之法而行,他在世间的生活也值得称赞,因为刹帝利阶层也生于梵。
12.22.7
न त्यागो न पुनर्यज्ञो न तपो मनुजेश्वर ।
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥ १२.२२.७ ॥
人主啊,刹帝利不被规定舍弃、再行祭祀或苦行,也不被规定依靠他人财产而生活。
12.22.8
स भवान्सर्वधर्मज्ञो धर्मात्मा भरतर्षभ ।
राजा मनीषी निपुणो लोके दृष्टपरावरः ॥ १२.२२.८ ॥
你精通一切法,心怀正义,婆罗多中的雄牛;你是君王,有智慧,精通,曾见世间高低之事。
12.22.9
त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि ।
क्षत्रियस्य विशेषेण हृदयं वज्रसन्निभम् ॥ १२.२२.९ ॥
舍弃由烦恼所生的忧伤,为行动做好准备;刹帝利的心尤其如金刚雷一般。
12.22.10
जित्वाऽरीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् ।
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ॥ १२.२२.१० ॥
以刹帝利之法战胜敌人,得到无荆棘之国,人主啊,自制其心,专心于祭祀与布施吧。
12.22.11
इन्द्रो वै ब्रह्मणः पुत्रः क्षत्रियः कर्मणाऽभवत् ।
ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ॥ १२.२२.११ ॥
因陀罗是梵天之子,因行为而成为刹帝利,并杀死了九十九个行为邪恶的族人。
12.22.12
तच्चास्य कर्म पूज्यं च प्रशस्यं च विशांपते ।
तेनेन्द्रत्वं समापेदे देवानामिति नः श्रुतम् ॥ १२.२२.१२ ॥
他的那一行为值得尊崇和赞美,民之主啊;我们听说,他因此在诸神中获得了因陀罗之位。
12.22.13
स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः ।
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ॥ १२.२२.१३ ॥
因此,大王啊,你应以丰厚的布施举行祭祀,如同人主因陀罗一般,长久地远离忧患。
12.22.14
मा त्वमेवं गते किंचिच्छोचेथाः क्षत्रियर्षभ ।
गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ॥ १२.२२.१४ ॥
刹帝利中的雄牛啊,他们既已如此离去,你不必为任何事悲伤;他们以刹帝利之法、以兵器得以清净,已达到至高的归宿。
12.22.15
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ ।
दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ॥ १२.२२.१५ ॥
婆罗多族的雄牛啊,所发生的事本应如此;王中之虎啊,天命是无法超越的。