Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.224

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.224.1

अस्ति कश्चिद्यदि विभो सदारो नियतो गृहे ।
अतीतसर्वसंसारः सर्वद्वन्द्वविवर्जितः।
तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् ॥ १२.२२४.१ ॥

啊,威力者!若有人与妻子同居家中,自我克制,已超越世间一切轮回,摆脱了一切对立,请告诉我他是谁,啊大智者;这样的伟人实属罕见。

12.224.2

शृणु राजन्यथावृत्तं यन्मां त्वं पृष्टवानसि ।
इतिहासमिमं शुद्धं संसारभयभेषजम् ॥ १२.२२४.२ ॥

啊国王,请听我将你所问之事照实讲来。这段纯净的古史是消除世间恐惧的良药。

12.224.3

देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः ।
क्रियावान्धार्मिको नित्यं देवब्राह्मणपूजकः ॥ १२.२२४.३ ॥

有一位名叫提婆罗的婆罗门仙人,精通一切经典的义理,勤于祭祀,奉行正法,并且始终敬奉诸神与婆罗门。

12.224.4

सुता सुवर्चला नाम तस्य कल्याणलक्षणा ।
नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी।
प्रदानसमयं प्राप्ता पिता तस्य ह्यचिन्तयत् ॥ १२.२२४.४ ॥

他有一个女儿名叫苏瓦尔恰拉,具有吉祥的相貌,不太矮,不太瘦,也不太高,极有名望。到了嫁女的时候,她的父亲开始思虑。

12.224.5

अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः ।
विद्वान्विप्रो ह्यकुटुम्बः प्रियवादी महातपाः ॥ १२.२२४.५ ॥

“她的丈夫从哪里来呢?”他这样思量:一位精通吠陀、超群的婆罗门,有智慧,无家室,言语温和,修持大苦行。

12.224.6

इत्येवं चिन्तयानं तं रहस्याह सुवर्चला ॥ १२.२२४.६ ॥

他正这样思量时,苏瓦尔恰拉私下对他说话。

12.224.7

अन्धाय मां महाप्राज्ञ देह्यनन्धाय वै पितः ।
एवं स्मर सदा विद्वन्ममेदं प्रार्थितं मुने ॥ १२.२२४.७ ॥

伟大智慧的父亲啊,把我许配给盲人,或者许配给不盲的人。博学的仙人啊,请永远记住我的这个请求。

12.224.8

न शक्यं प्रार्थितं वत्से त्वयाऽद्य प्रतिभाति मे ।
अन्धतानन्धता चेति विकारो मम जायते ॥ १२.२२४.८ ॥

女儿啊,你所请求的事现在对我来说是不可能的。盲与不盲这些话在我心中引起了纷扰。

12.224.9

उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने ॥ १२.२२४.९ ॥

美目的女子啊,你说着不吉利的话,就像疯了一样。

12.224.10

नाहमुन्मत्तभूताऽद्य बुद्धिपूर्वं ब्रवीमि ते ।
विद्यते चेत्पतिस्तादृक्स मां भरति वेदवित् ॥ १२.२२४.१० ॥

我现在并没有疯,我是清醒地对你说话。如果有这样一位精通吠陀、能够供养我的丈夫……

12.224.11

येभ्यस्त्वं मन्यसे दातुं मामिहानय तान्द्विजान् ।
तादृशं तं पतिं तेषु वरयिष्ये यथातथम् ॥ १२.२२४.११ ॥

请把你想把我许配的婆罗门们带到这里来;我将从他们中间,如理地选择这样的丈夫。

12.224.12

तथेति चोक्त्वा तां कन्यामृषिः शिष्यानुवाच ह ।
ब्राह्मणान्वेदसंपन्नान्योनिगोत्रविशोधितान् ॥ १२.२२४.१२ ॥

对那少女说了“就这样吧”,仙人对他的弟子们说:“请带来精通吠陀、在血统和种姓上都纯净的婆罗门。”

12.224.13

मातृतः पितृतः शुद्धाञ्शुद्धानाचारतः शुभान् ।
अरोगान्बुद्धिसंपन्नाञ्शीलसत्वगुणान्वितान् ॥ १२.२२४.१३ ॥

母系与父系皆清净,行为清净,吉祥,无病,具足智慧,并具有良好的品行、勇气与德性。

12.224.14

असंकीर्णांश्च गोत्रेषु वेदव्रतसमन्वितान् ।
ब्राह्मणान्स्नातकाञ्शीघ्रं मातापितृसमन्वितान्।
निवेष्टुकामान्कन्यां मे दृष्ट्वाऽऽनयत शिष्यकाः ॥ १२.२२४.१४ ॥

血统不杂、具足吠陀与誓戒、已完成学业、与父母同住且欲求婚配的婆罗门,我为女儿物色后,你们要迅速带来,弟子们。

12.224.15

तच्छ्रुत्वा त्वरिताः शिष्या ह्याश्रमेषु ततस्ततः ।
ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् ॥ १२.२२४.१५ ॥

弟子们闻之,急忙在静修处、又到村庄间四处奔走,前往婆罗门那里告知他们。

12.224.16

ऋषेः प्रभावं मत्वा ते कन्यायाश्च द्विजोत्तमाः ।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् ॥ १२.२२४.१६ ॥

大王啊,他们因敬重仙人的威望与少女的品德,那些上等再生者与众多仙人来到了提婆罗的静修处。

12.224.17

अनुमान्य यथान्यायं मुनीन्मुनिकुमारकान् ।
अभ्यर्च्य विधिवत्तत्र कन्यामाह पिता महान् ॥ १२.२२४.१७ ॥

依礼征得诸仙人及仙童的同意,在那里依仪轨礼拜他们之后,那位伟大的父亲对少女说道。

12.224.18

एतेऽपि मुनयो वत्से स्वपुत्रैकमता इह ।
वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः ॥ १२.२२४.१८ ॥

女儿啊,这里的诸位仙人也与他们自己的儿子意见一致:具足吠陀及其辅助之学,出身高贵,因品行而受敬重。

12.224.19

येऽमी तेषु वरं भद्रे त्वमिच्छसि महाव्रतम् ।
तं कुमारं वृणीष्वाद्य तस्मै दास्याम्यहं शुभे ॥ १२.२२४.१९ ॥

吉祥的女子啊,这些持大誓者中,你想要哪位作为夫婿,就现在选定那位青年吧;美丽的女子,我会把你许配给他。

12.224.20

तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा ।
सर्वलक्षणसंपन्ना वाक्यमाह यशस्विनी ॥ १२.२२४.२० ॥

她说“就这样吧”,那吉祥的少女,如熔金般闪耀,具备一切吉相,那位名声显赫的女子便说出了这番话。

12.224.21

विप्राणां समितीर्दृष्ट्वा प्रणिपत्य तपोधनान् ।
यद्यस्ति समितौ विप्रो ह्यन्धोऽनन्धः स मे वरः ॥ १२.२२४.२१ ॥

她看见婆罗门的集会,向苦行富足的仙人顶礼后说:若此集会中有婆罗门,不论盲或非盲,他便是我的夫婿。

12.224.22

तच्छ्रुत्वा मुनयस्तत्र वीक्षमाणाः परस्परम् ।
नोचुर्विप्रा महाभागाः कन्यां मत्वा ह्यवेदिकां ॥ १२.२२४.२२ ॥

众仙人听后彼此相视,而那些大福德的婆罗门却一言不发,因为他们把这位少女视为不通礼仪(不合资格)者。

12.224.23

कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः ।
यथागतं ययुः क्रुद्धा नानादेशनिवासिनः ॥ १२.२२४.२३ ॥

众仙人心中谴责那位仙人,愤怒地离去,他们这些来自各地的仙人中的最优者,来时如何,去时亦如何。

12.224.24

कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी ॥ १२.२२४.२४ ॥

那位美丽的少女便留在父亲的家中。

12.224.25

ततः कदाचिद्ब्रह्मण्यो विद्वान्न्यायविशारदः ।
ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः ॥ १२.२२४.२५ ॥

那时曾有一位贤者,敬重婆罗门,博学,精通论理,懂得推论与驳斥之法,持守梵行。

12.224.26

वेदविद्वेदतत्वज्ञः क्रियाकल्पविशारदः ।
आत्मतत्वविभागज्ञः पितृमान्गुणसागरः ॥ १२.२२४.२६ ॥

精通吠陀,通晓吠陀之真谛,精于祭仪规则,知晓自性真理之分别,有父亲,是德行之海。

12.224.27

श्वेतकेतुरिति ख्यातः श्रुत्वा वृत्तान्तमादरात् ।
कन्यार्थं देवलं चापि शीघ्रं तत्रागतोऽभवत् ॥ १२.२२४.२७ ॥

以此名闻名的室伟多卡图,恭敬地听闻此事,为了少女,提婆罗也很快来到了那里。

12.224.28

उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् ।
यथान्यायं च संपूज्य देवलः प्रत्यभाषत ॥ १२.२२४.२८ ॥

提婆罗见到乌达拉迦之子、持大誓的室伟多卡图,依礼恭敬地供养之后,回答道。

12.224.29

कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः ।
वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् ॥ १२.२२४.२९ ॥

少女啊,大福之人啊,这位仙童已经到来。请选择这位大智慧者、精通吠陀及其支分的人吧。

12.224.30

तच्छ्रुत्वा कुपिता कन्या ऋषिपुत्रमुदैक्षत ।
तां कन्यामाह विप्रर्षिः सोऽहं भद्रे समागतः ॥ १२.२२४.३० ॥

少女听后愤怒,望向这位仙人之子。那位婆罗门仙人对少女说:善女啊,我来到了这里。

12.224.31

अन्धोऽहमत्र तत्वं हि तथा मन्ये च सर्वदा ।
विशालनयनं विद्धि तथा मां हीनसंशयम्।
वृणीष्व मां वरारोहे भजे च त्वामनिन्दिते ॥ १२.२२४.३१ ॥

我在此虽盲,却始终如此认知真理。请知道我是大眼且无疑惑之人。美臀的女子啊,请选择我;无可指摘者啊,我将侍奉你。

12.224.32

येनेदं वीक्षते नित्यं वृणोति स्पृशतेऽथवा ।
घ्रायते वक्ति सततं येनेदं सार्यते पुनः ॥ १२.२२४.३२ ॥

凭借之,此物常被看见、被取用或触及、被嗅闻、持续被言说,并凭借之此物再被推动:

12.224.33

येनेदं मन्यते तत्वं येन बुध्यति वा पुनः ।
न चक्षुर्विद्यते ह्येतत्स वै भूतान्ध उच्यते ॥ १२.२२४.३३ ॥

凭借之,此物以为真理,凭借之又复理解——然而它没有眼睛:这便被称为众生中的盲者。

12.224.34

यस्मिन्प्रवर्तते चेदं पश्यञ्छृण्वन्स्पृशन्नपि ।
जिघ्रंश्च रसयंस्तद्वद्वर्तते येन चक्षुषा ॥ १२.२२४.३४ ॥

此物在其中运作,并且在看、听、触、嗅、尝时也以同样方式起作用——以哪只眼睛起作用。

12.224.35

तन्मे नास्ति ततो ह्यन्धो वृणु भद्रेऽद्य मामतः ।
लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् ॥ १२.२२४.३५ ॥

那个我没有;所以我是盲人。善良的女子啊,今天请选择我。在世人眼中,我在此进行日常与临时的祭仪等事务。

12.224.36

आत्मदृष्ट्या च तत्सर्वं विलिप्यासि च नित्यशः ।
स्थितोऽहं निर्भरः शान्तः कार्यकारणभावनः ॥ १२.२२४.३६ ॥

以自我之观,你始终对这一切不沾染;我坚定、无负担、寂静,思惟因果而住。

12.224.37

अविद्यया तरन्मृत्युं विद्यया तं तथाऽमृतम् ।
यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः।
क्रीते व्यवसितं भद्रे भर्ताऽहं ते वृणीष्व माम् ॥ १२.२२४.३७ ॥

借无明渡过死亡,借明智得到那不死,如所得而见之,我在此无嫉妒地居住。吉祥的女子啊,我的决定已定;我是你的丈夫,请选择我。

12.224.38

ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् ।
मनसाऽसि वृतो विद्वञ्शेषकर्ता पिता मम।
वृणीष्व पितरं मह्यमेष वेदविधिक्रमः ॥ १२.२२४.३८ ॥

于是须跋遮罗见到他,对那位最优秀的婆罗门说:博学者啊,我心中已选择了你;为我完成余下仪式的父亲就在这里。请为我选择我的父亲;这是吠陀规定的次第。

12.224.39

तद्विज्ञाय पिता तस्या देवलो मुनिसत्तमः ।
श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम् ॥ १२.२२४.३९ ॥

她的父亲提婆罗,即最优秀的圣人,得知此事后尊敬室伽多,同样,忧达罗迦也尊敬了他。

12.224.40

मुनीनामग्रतः कन्यां प्रददौ जलपूर्वकम् ।
उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् ॥ १२.२२४.४० ॥

在众仙人面前,他先以水灌注而将少女施予。那里,人们看着室伽多说…

12.224.41

हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः ।
श्वेतकेतुस्वरूपेण स्थितोऽसौ मधुसूदनः ॥ १२.२२४.४१ ॥

住于心莲之中、为一切众生之自我的诃梨,以室伽多之形而住立;他便是摩图苏陀那。

12.224.42

प्रीयतां माधवो देवः पत्नी चेयं सुता मम ।
प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम्।
इत्युक्त्वा प्रददौ तस्मै देवलो मुनिपुङ्गवः ॥ १२.२२४.४२ ॥

愿神摩陀婆欢喜。这是我的妻子,这是我的女儿。我将这位吉祥的少女,法的伴侣,交付于你。说罢,诸仙中最尊贵的提婆罗便将她交给了他。

12.224.43

प्रतिगृह्य च तां कन्यां श्वेतकेतुर्महायशाः ।
उपयम्य यथान्यायमत्र कृत्वा यथाविधि ॥ १२.२२४.४३ ॥

白发王接受了那位少女,这位大名鼎鼎的白光依法、依规与她成婚,并在此依照仪轨完成了各项礼仪。

12.224.44

समाप्य तन्त्रं मुनिभिर्वैवाहिकमनुत्तमम् ।
स गार्हस्थ्ये वसन्धीमान्भार्यां तामिदमब्रवीत् ॥ १२.२२४.४४ ॥

诸仙完成了至上的婚礼仪式后,这位智者安住于居家生活,对他的妻子说了这些话。

12.224.45

यानि चोक्तानि वेदेषु तत्सर्वं कुरु शोभने ।
मया सह यथान्यायं सहधर्मचरी मम् ॥ १२.२२४.४५ ॥

光耀的女子啊,凡《吠陀》所规定的,都请依规与我一同完成,因为你是我法的伴侣。

12.224.46

अहमित्येव भावेन स्थितोऽहं त्वं तथैव च ।
तस्मात्कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् ॥ १२.२२४.४६ ॥

我安住于“我即是我”的觉知之中,你也是如此。因此你当行诸业,此后我也将为你而行。

12.224.47

न ममेति च भावेन ज्ञानाग्निनिलयेन च ।
अनन्तरं तथा कुर्यास्तानि कर्माणि भस्मसात् ॥ १२.२२४.४७ ॥

以“此非我所有”的觉知,安住于智慧之火中,此后应当如此行那些诸业,使之化为灰烬。

12.224.48

एवं त्वया च कर्तव्यं सर्वदा दुर्भगा मया ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
तस्माल्लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये ॥ १२.२२४.४८ ॥

因此你我应当始终如此行事。上士所为,他人亦效之。故为世间之成就与自我之圆满,应当如此而行。

12.224.49

उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः ।
पुत्रानुत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः ॥ १२.२२४.४९ ॥

如是说已,那位大智者,一切知识的唯一容器,与她生育诸子,并以祭祀使诸天神满足。

12.224.50

आत्मयोगपरो नित्यं निर्द्वन्द्वो निष्परिग्रहः ।
भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोरिव ॥ १२.२२४.५० ॥

常修自我瑜伽,超越二元,无所执取,得此相称之妻,以如田与知田者之智而住。

12.224.51

लोकमन्यमनुप्राप्तौ भार्या भर्ता तथैव च ।
साक्षिभूतौ जगत्यस्मिंश्चरमाणौ मुदाऽन्वितौ ॥ १२.२२४.५१ ॥

既至另一世界,妻与夫亦复如是,作为此世之见证,满怀喜悦而游行。

12.224.52

ततः कदाचिद्भर्तारं श्वेतकेतुं सुवर्चला ।
पप्रच्छ को भवानत्र ब्रूहि मे तद्द्विजोत्तम ॥ १२.२२४.५२ ॥

其后一日,苏伐尔察问其夫白光(Śvetaketu)曰:“君在此为谁?请告我,二生者中之最上者。”

12.224.53

तामाह भगवान्वाग्मी तया ज्ञातो न संशयः ।
द्विजोत्तमेति मामुक्त्वा पुनः कमनुपृच्छसि ॥ १२.२२४.५३ ॥

彼善辩的尊者对她说:“你已识得我,毫无疑问。既称我为二生者中之最上,又再问的是何人?”

12.224.54

सा तमाह महात्मानं पृच्छामि हृदि शायिनम् ।
तच्छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि ॥ १२.२२४.५४ ॥

她对那位大德说:“我问那住在心中的人。”他听后回答她:“美人啊,他不会说。”

12.224.55

नामगोत्रसमायुक्तमात्मानं मन्यसे यदि ।
तन्मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् ॥ १२.२२४.५५ ॥

若你认为自己具有名字与种姓,那么在虚假种姓存在的情况下,身体的束缚便依然存在。

12.224.56

अहमित्येष भावोऽत्र त्वयि चापि समाहितः ।
त्वमप्यहमहं सर्वमहमित्येव वर्तते।
नात्र तत्परमार्थं वै किमर्थमनुपृच्छसि ॥ १२.२२४.५६ ॥

“我”这一观念也牢固地存在于你之中。你也是我,我即一切,如此而已。这里并没有那种至上真理——你为何还要问?

12.224.57

ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी ।
उवाच वचनं काले स्मयमाना तदा नृप ॥ १२.२२४.५७ ॥

那时,她笑着欢喜起来,遵行正法的那位女子在适当的时候对丈夫说了这些话。国王啊,那时她微笑着说道。

12.224.58

किमनेकप्रकारेण विरोधेन प्रयोजनम् ।
क्रियाकलापैर्ब्रह्मर्षे ज्ञाननष्टोऽसि सर्वदा।
तन्मे ब्रूहि महाप्राज्ञ यथाऽहं त्वामनुव्रता ॥ १२.२२४.५८ ॥

种种矛盾又有何用?婆罗门仙人啊,你因众多祭礼而常常失去了知识。所以,大智者啊,请告诉我,好让我追随你。

12.224.59

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
वर्तते तेन लोकोऽयं संकीर्णश्च भविष्यति ॥ १२.२२४.५९ ॥

最优秀的人做什么,其他人也就做什么。因此,这个世界将变得混乱。

12.224.60

संकीर्णे च तथा धर्मे वर्णः संकरमेति च ।
संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते ॥ १२.२२४.६० ॥

法若混乱,种姓亦陷于混杂;混杂一旦兴起,鱼之法则便盛行。

12.224.61

तदनिष्टं हरेर्भद्रे धातुरस्य महात्मनः ।
परमेश्वरसंक्रीडा लोकसृष्टिरियं शुभे ॥ १२.२२४.६१ ॥

吉祥的女子啊,那对伟大的创造者哈利而言是不悦之事;这世界的创造乃是至上主的游戏。

12.224.62

यावत्पासव उद्दिष्टास्तावत्योऽस्य विभूतयः ।
तावत्यश्चैव मायास्तु तावत्योऽस्याश्च शक्तयः ॥ १२.२२४.६२ ॥

凡所说的绳索有多少,他的显现就有多少;幻化有多少,他的力量也有多少。

12.224.63

एवं सुगह्वरे युक्तो यत्र मे तद्भवाभवम् ।
छित्त्वा ज्ञानासिना गच्छेत्स विद्वान्स च मे प्रियः।
सोऽहमेव न सन्देहः प्रतिज्ञा इति तस्य वै ॥ १२.२२४.६३ ॥

如此安住于至深的渊奥之中,以智慧之剑斩断生与灭而前行者,那智者便是我所爱。他就是我自己,毫无疑问;这是他的誓言。

12.224.64

ये मूढास्ते दुरात्मानो धर्मसंकरकारकाः ।
मर्यादाभेदका नीचा नरके यान्ति जन्तवः ॥ १२.२२४.६४ ॥

那些愚迷之人,心性邪恶,造成法的混乱,破坏界限,卑劣——这样的众生堕入地狱。

12.224.65

आसुरीं योनिमापन्ना इति देवानुशासनम् ॥ १२.२२४.६५ ॥

堕入阿修罗之胎——这是诸神的教诫。

12.224.66

भगवत्या तथा लोके रक्षितव्यं न संशयः ।
मर्यादालोकरक्षार्थमेवमस्ति तथा स्थितः ॥ १२.२२४.६६ ॥

毫无疑问,这必须由尊贵的女神在世间守护。为了守护世界的秩序,事情便是如此,并且如此确立。

12.224.67

शब्दः कोत्र इति ख्यातस्तथाऽर्थं च महामुने ।
आकृत्या पतयो ब्रूहि लक्षणेन पृथक्पृथक् ॥ १२.२२४.६७ ॥

大仙啊,所谓'声'(śabda)是什么,其义又是什么?请以形相与特征,分别说明各自的区别。

12.224.68

व्यत्ययेन च वर्णानां परिवादकृतो हि यः ।
स शब्द इति विज्ञेयस्तन्निपातोऽर्थ उच्यते ॥ १२.२२४.६८ ॥

由音(字母)的错乱所生起者,应当理解为'词'(śabda);其安立便称为其'义'(artha)。

12.224.69

शब्दार्थयोर्हि संबन्धस्त्वनयोरस्ति वा न वा ।
तन्मे ब्रूहि यथातत्वं शब्दस्यानेऽर्थ एव चेत् ॥ १२.२२४.६९ ॥

词与义之间究竟有没有关联?请如实告诉我;若词之义另有所指,也请一并说明。

12.224.70

शब्दार्थयोर्न चैवास्ति संबन्धोऽत्यन्त एव हि ।
पुष्करे च यथा तोयं तथाऽस्मीति च वेत्थ तत् ॥ १२.२२४.७० ॥

词与义之间实无绝对的联系,正如水在莲池之中。你知道这一点:'我便是如此。'

12.224.71

अर्थे स्थितिर्हि शब्दस्य नान्यथा च स्थितिर्भवेत् ।
विद्यते चेन्महाप्राज्ञ विनाऽर्थं ब्रूहि सत्तम ॥ १२.२२४.७१ ॥

词的存立只在于其义;否则它便无法存立。大智者啊,若有无义之词,请告诉我,善人中的最上者。

12.224.72

ससंसर्गोऽतिमात्रस्तु वाचकत्वेन वर्तते ।
अस्ति चेद्वर्तते नित्यं विकारोच्चारणेन वै ॥ १२.२२४.७२ ॥

那种关联极为过度,并以表达意义的方式运作。若它存在,它总是通过说出变化而起作用。

12.224.73

शब्दस्थानोत्र इत्युक्तस्तथाऽर्थ इति मे कृतः ।
अर्थः स्थितो न तिष्ठेच्च विरूढमिह भाषितम् ॥ १२.२२४.७३ ॥

此处已说声音之所在,我也如此取义。意义是确定的,但它或许不能成立;此处所说已经相互矛盾。

12.224.74

न विकूलोऽत्र कथितो नाकाशं हि विना जगत् ।
संबन्धस्तत्र नास्त्येव तद्वदित्येष मन्यताम् ॥ १२.२२४.७४ ॥

此处并未说什么杂乱之事;没有虚空便没有世界。那里确实没有关联。应当同样理解。

12.224.75

सदाऽहंकारशब्दोऽयं व्यक्तमात्मनि संश्रितः ।
न वाचस्तत्र वर्तन्ते इति मिथ्या भविष्यति ॥ १२.२२४.७५ ॥

这个'我慢'之词总是明显地依止于自我。说言语在那里不运作,将被证明是虚妄的。

12.224.76

अहंशब्दो ह्यहंभावो नात्मभावे शुभव्रते ।
न वर्तन्ते परेऽचिन्त्ये वाचः सगुणलक्षणाः ॥ १२.२२४.७६ ॥

'我'这个词本身即是'我执'之义;善持誓者啊,在自性状态中它并不存在。在至上而不可思议之处,带有性质标志的言语不起作用。

12.224.77

अहं गात्रैकतः श्यामा भावनपि तथैव च ।
तन्मे ब्रूहि यथान्यायमेवं चेन्मुनिसत्तम ॥ १२.२२४.७७ ॥

'我'从身体的某一部分来看是黑色的,观念也是如此。若是这样,请依理告诉我,最好的圣人啊。

12.224.78

मृण्मये हि घटे भावस्तादृग्भाव इहेष्यते ।
अयं भावः परेऽचिन्त्ये ह्यात्मभावो यथाच तत् ॥ १२.२२४.७८ ॥

泥瓶中的存在状态,在此被视为那样的存在。这一本性也在不可思议的至上者之中,正如自我的本性一样。

12.224.79

अहं त्वमेतदित्येव परे संकल्पना मया ।
तस्माद्वाचो न वर्तन्त इति नैव विरुध्यते ॥ १२.२२४.७९ ॥

我对至上者形成了这些概念:“我”“你”“这”。因此言语不能适用于它,这并不矛盾。

12.224.80

तस्माद्वामेन वर्तन्ते मनसा भीरु सर्वशः ।
यथाऽऽकाशगतं विश्वं संसक्तमिव लक्ष्यते ॥ १२.२२४.८० ॥

因此,胆怯的人啊,人们以心意在各方面走上弯曲的道路,正如位于虚空中的世界看似依附着。

12.224.81

संसर्गे सति संबन्धात्तद्विकारं भविष्यति ।
अनाकाशगतं सर्वं विकारे च सदा गतम् ॥ १२.२२४.८१ ॥

有接触时,因连结,其中将产生变化。凡不在虚空中的一切,始终处于变化之中。

12.224.82

तद्ब्रह्म परमं शुद्धमनौषम्यं न शक्यते ।
न दृश्यते तथा तच्च दृश्यते च मतिर्मम ॥ १२.२२४.८२ ॥

那梵是至上、清净、无可比拟的,无法描述。它不可见,然而它又被见到——这是我的看法。

12.224.83

निर्विकारं ह्यमूर्ति च निरयं सर्वगं तथा ।
दृश्यते च वियन्नित्यं दृगात्मा तेन दृश्यते ॥ १२.२२४.८३ ॥

他无变化、无形、无所依、遍在;虚空也恒常可见。能见的自我借由他而被见。

12.224.84

त्वचा स्पृशति वै वायुमाकाशस्थं पुनः पुनः ।
तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा ॥ १२.२२४.८४ ॥

以皮肤反复触及虚空中的风;同样地嗅知其中的香气;以眼睛看见光明。

12.224.85

तमोरश्मिगणश्चैव मेघजालं तथैव च ।
वर्षं तारागणं चैव नाकाशं दृश्यते पुनः ॥ १२.२२४.८५ ॥

黑暗、光线之群、云雾之网、雨与星群也;然而虚空又不可见。

12.224.86

आकाशस्याप्यथाकाशं सद्रूपमिति निश्चितम् ।
तदर्थे कल्पिता ह्येते तत्सत्यो विष्णुरेव च।
यानि नामानि गौणानि ह्युपचारात्परात्मनि ॥ १२.२२४.८६ ॥

虚空之虚空——确定其为实有之相。为此而设立这些;那真实者即是毗湿奴。至上我上的次要名号,乃是借用之称。

12.224.87

न चक्षुषा न मनसा न चान्येन परो विभुः ।
चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते ॥ १२.२२४.८७ ॥

不以眼,不以意,亦不以他物;至上遍在者以精微之智而被思念,言语不能道出。

12.224.88

एतत्प्रपञ्चमखिलं तस्मिन्सर्वं प्रतिष्ठितम् ।
महाघटोऽल्पकश्चैव यथा मह्यां प्रतिष्ठितौ ॥ १२.२२४.८८ ॥

此一切多相世界皆安立于彼;如大瓶与小瓶安立于大地之上。

12.224.89

न च स्त्री न पुमांश्चैव यथैव न नपुंसकः ।
केवलज्ञानमात्रं तत्तस्मिन्सर्वं प्रतिष्ठितम् ॥ १२.२२४.८९ ॥

彼非女亦非男,亦非中性;彼唯是纯粹之知,一切皆安立于彼。

12.224.90

भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः ।
रसभेदा यथा तोये प्रकृत्यामात्मनस्तथा ॥ १२.२२४.९० ॥

由于大地形态的结合与事物形态的结合,正如水中有味道的差别,自性在自然中也是如此。

12.224.91

तद्वाक्यस्मरणान्नित्यं तृप्तिं वारि पिबन्निव ।
प्राप्नोति ज्ञानमखिलं तेन तत्सुखमेधते ॥ १२.२२४.९१ ॥

常常忆念那句话,如同饮水而得满足,他便获得全部知识;因此那快乐便增长。

12.224.92

अनेन साध्यं किं स्याद्वै शब्देनेति मतिर्मम ।
वेदगम्यः परोऽचिन्त्य इति पौराणिका विदुः ॥ १२.२२४.९२ ॥

这个词能成就什么?这是我的看法。至上者可由吠陀认知且不可思议,古传说家如此知晓。

12.224.93

निरर्थको यथा लोके तद्वत्स्यादिति मे मतिः ।
निरीक्ष्यैवं यथान्यायं वक्तुमर्हसि मेऽनघ ॥ १२.२२४.९३ ॥

如世间之无义,此亦如是,这是我的看法。无罪者啊,你应如此审察,依理回答我。

12.224.94

वेदगम्यं परं शुद्धमिति सत्या परा श्रुतिः ।
व्याहत्या नैतदित्याह व्युपलिङ्गे च वर्तते ॥ १२.२२४.९४ ॥

「至上、清净、可由吠陀认知」——此至上天启是真实的。「非此」是以矛盾而说,它也存在于所指之义中。

12.224.95

निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे ।
अनन्वयास्तथा शब्दा निरर्था इति लौकिकैः ॥ १२.२२४.९५ ॥

在至上之义中,没有一个词是无意义的。世俗之人以为不相连而称为无义的词,也同样不是无义的。

12.224.96

गृह्यन्ते तद्वदित्येव न वर्तन्ते परात्मनि ।
अगोचरत्वं वचसां युक्तमेवं तथा शुभे ॥ १२.२२४.९६ ॥

它们如此被把握,但并不存在于至上自我之中。言语无法达及此境,如此才是恰当的,吉祥者啊。

12.224.97

साधनस्योपदेशाच्च ह्युपायस्य च सूचनात् ।
उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात्।
वेदगम्यः परः शुद्ध इति मे धीयते मतिः ॥ १२.२२४.९७ ॥

由于对方法的教导,由于对途径的暗示,由于标志的结合,以及通过排除的显示,我的见解确定:至上而纯净者可由吠陀所知。

12.224.98

अध्यात्मध्यानसंभूतमभूतं… वत्स्फुटम् ।
ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् ॥ १२.२२४.९८ ॥

吉行者啊,你应知那由内在自我冥想而生的清晰智慧,它在通常意义上是非存在的……如;借此,他们抵达至上归宿。

12.224.99

यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे ।
तथ्यमित्येव वा शुद्धे ज्ञानं ज्ञानविलोचने ॥ १२.२२४.९९ ॥

若我所说的秘密你未曾听闻,吉祥者或纯净者啊,应将其视为真理;知识之眼的人啊,那便是知识。

12.224.100

नानारूपवदस्यैवमैश्वर्यं दृश्यते शुभे ।
न वायुस्तं न सूर्यस्तं नाग्निस्तत्तत्परं पदम् ॥ १२.२२४.१०० ॥

它的威能如此显现为多种形态,吉祥者啊。它不是风,不是太阳,不是火;那就是至上之境。

12.224.101

अनेन पूर्णमेतद्धि हृदि भूतमिहेष्यते ।
एतावदात्मविज्ञानमेतावद्यदहं स्मृतम्।
आवयोर्न च सत्वे वै तस्मादज्ञानबन्धनम् ॥ १२.२२४.१०१ ॥

由此,整体便被期望在此心中存在。自我之知就是这些,即我所忆起的。我们二人之中并无善性;因此这便是无明的束缚。

12.224.102

एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् ।
परिचर्यमाणा ह्यनिशं तत्वबुद्धिसमन्विता ॥ १२.२२४.१०२ ॥

如此,苏跋尔遮拉欢喜地得到丈夫依真理的教导,怀着对真理的理解,不断地侍奉他。

12.224.103

भर्ता च तामनुप्रेक्ष्य नित्यनैमित्तिकान्वितः ।
परमात्मनि गोविन्दे वासुदेवे महात्मनि ॥ १२.२२४.१०३ ॥

丈夫也注视着她,履行常规与临时的仪礼,将心专注于至上我、戈文达、婆苏提婆这位大魂。

12.224.104

समाधाय च कर्माणि तन्मयत्वेन भावितः ।
कालेन महता राजन्प्राप्नोति परमां गतिम् ॥ १२.२२४.१०४ ॥

将业行归于一处,沉浸其中,被其浸润,大王啊,经过长久的时间,他便达到至高的归宿。

12.224.105

एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि ।
गार्हस्थ्यं च समास्थाय गतौ जायापती परम् ॥ १२.२२४.१०५ ॥

大王啊,因为你问,所以这些告诉了你。接受家居生活后,夫妇便达到至高的归宿。