摩诃婆罗多 · 章 12.225
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.225.1
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात् ।
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥ १२.२२५.१ ॥
做什么才能获得快乐,做什么才会遭受痛苦?做什么才能使圆满者在世间无畏地行走,婆罗多之子啊?
12.225.2
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः ।
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ॥ १२.२२५.२ ॥
沉浸于圣典学习的长者,唯独赞美克己(dama),此为一切种姓所宜,尤其是婆罗门。
12.225.3
नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते ।
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम् ॥ १२.२२५.३ ॥
未能克制自己的人,其祭仪便不能如法成就。祭仪、苦行与诸神,一切皆立足于克己。
12.225.4
दमस्तेजो वर्धयति पवित्रं दम उच्यते ।
विपाष्मा निर्भयो दान्तः पुरुषो विन्दते महत् ॥ १२.२२५.४ ॥
克己增益光辉,克己被称为清净。无罪、无畏、克制的人得到殊胜。
12.225.5
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं लोके विपर्येति मनश्चास्य प्रसीदति ॥ १२.२२५.५ ॥
克制的人安然入睡,安然醒来;在世间安然行走,其心澄澈。
12.225.6
तेजो दमन ध्रियते तत्र तीक्ष्णोऽधिगच्छति ।
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ॥ १२.२२५.६ ॥
借克己保持力量,锐利者得之于此。他总是在自身之中,分别看见许多敌人。
12.225.7
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा ॥ १२.२२५.७ ॥
众生常惧食肉之兽,亦常惧不自制者。为制止他们,自生者创造了国王。
12.225.8
आश्रमेषु च सर्वेषु दम एव विशिष्यते ।
धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः।
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते ॥ १२.२२५.८ ॥
在一切林居之中,自制(dama)最为殊胜。法由他们守护,因为他们是法的桥梁。而其中的法果,又在自制者身上被宣说。
12.225.9
तेषां लिङ्गानि वक्ष्यानि येषां समुदयो दमः ।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥ १२.२२५.९ ॥
将说明那些生起自制者的特征:不吝啬、不激动、知足与信心。
12.225.10
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता ।
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम् ॥ १२.२२५.१० ॥
不怒、常直、不过分言语、不傲慢、尊敬师长、不嫉妒、怜悯众生、不说人坏话。
12.225.11
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च ॥ १२.२२५.११ ॥
远离闲言、妄语,并不以赞誉与毁谤为念;应当向往行善之人,而不贪求将来的利益,即便在可信之事上亦然。
12.225.12
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः ।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मवाञ्शुचिः ॥ १२.२२५.१२ ॥
不与人结怨,行为端正,对毁誉一视同仁,品行良好,具足戒德,心境清澄,能自制而清净。
12.225.13
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ।
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी ॥ १२.२२५.१३ ॥
在世间获得尊敬,死后升入天界;使众生得到难以到达之处,他欢喜而快乐。
12.225.14
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम् ।
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति ॥ १२.२२५.१४ ॥
专心于一切众生之利、不憎恨任何人的人,如大湖般不可动摇;智者满足而安宁。
12.225.15
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान् ॥ १२.२२५.१५ ॥
不畏惧任何众生、也使一切众生不畏惧他的人,成为一切众生所敬礼的对象;他自制而有智慧。
12.225.16
न हृष्यति महत्यर्थे व्यसने च न शोचति ।
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते ॥ १२.२२५.१६ ॥
在大利面前不喜悦,在灾祸中不悲伤;常怀无量智慧者,被称为自制的再生者(婆罗门)。
12.225.17
कर्मभिः श्रुतसंपन्नः सद्भिराचारेतः शुचिः ।
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम् ॥ १२.२२५.१७ ॥
以行为和学识圆满,以善人的行为清净,应当常怀克制;常能克制者享受其大果报。
12.225.18
अनसूयाऽक्षमा शान्तिः संतोषः प्रियवादिता ।
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ॥ १२.२२५.१८ ॥
无嫉妒、忍耐、寂静、知足、和悦之言、真实、布施、无勉强——这不是恶人之道。
12.225.19
कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना ।
अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम् ॥ १२.२२५.१९ ॥
欲望与愤怒、贪婪、嫉妒他人、自我夸耀、不知足、虚妄与迷惑——这便是邪恶之人的道路。
12.225.20
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः ।
विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः।
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥ १२.२२५.२० ॥
婆罗门若制服欲望与愤怒,成为梵行者,克制诸根,勇敢踏入可怕的黑暗,持守严格的誓约,等待时机,便应当无畏而自持地游行诸世界。