Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.228

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.228.1

यदिदं तप इत्याहुः किं तपः संप्रकीर्तितम् ।
उपवासमथान्यत्तु वेदाचारमथो नु किम्।
शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह ॥ १२.२२८.१ ॥

人们所说的苦行是什么,被宣称为苦行的又是什么?是禁食,还是别的,还是吠陀的行为?或是经典?啊,大智者祖父,请告诉我。

12.228.2

पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः ।
वेदव्रतादीनि तप अपरे वेदपारगाः।
वेदपारायणं चान्ये चाहुस्तत्वमथापरे ॥ १२.२२८.२ ॥

以苦行为财富的修行者认为,半月、整月的禁食等即是苦行。另一些人称吠陀誓愿等为苦行;精通吠陀者称完整诵读吠陀为苦行,还有人称真理为苦行。

12.228.3

यथाविहितमाचारस्तपः सर्वं व्रतं गताः ।
आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम् ॥ १२.२२८.३ ॥

依规定所行的行为即是全部誓愿,也是已得誓愿者的苦行。那关于自我知识的规则被宣称为苦行。

12.228.4

त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः ।
ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः ॥ १२.२२८.४ ॥

舍弃即是苦行,平静也是苦行;制伏诸根即是苦行。梵行被宣称为苦行,再生族人也如此说。

12.228.5

सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत् ॥ १२.२२८.५ ॥

常常禁食、常常守梵行的智者。

12.228.6

यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः ।
ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः ॥ १२.२२८.६ ॥

常常有智慧、以残食为食(vighasāśin)且无嫉妒的牟尼;人们也称他为无限,即那常常喜爱宾客的人。

12.228.7

नान्तराशीस्ततो नित्यमुपवासी महाव्रतः ।
ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः ॥ १२.२२८.७ ॥

不在两餐之间进食、常行斋戒、持大誓、只在时节中与妻子同寝的人,被称为如此;智者也将他视为食余者(vighasāśī)。

12.228.8

भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथाऽमृतम् ।
एवं नानार्थसंयोगं तपः शश्वदुदाहृतम् ॥ १२.२२८.८ ॥

食用仆人的剩余之食,以及作为甘露的祭祀余品者;如此,多种目的相结合的苦行,一直被这样宣说。

12.228.9

केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः ।
येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः।
रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः ॥ १२.२२८.९ ॥

其世界无穷者,皆安住于真实之誓;那些说苦行由业所成者,也被视为再生的婆罗门;他们在天界享乐,受到众阿普萨拉斯的供养。

12.228.10

ज्ञानात्मकं तपश्शब्दं ये वदन्ति विनिश्चिताः ।
ते ह्यन्तराऽऽत्मसद्भावं प्रपन्ना नृपसत्तम ॥ १२.२२८.१० ॥

那些坚定地说“苦行”一词即是智慧之性的人,确已证得内在自我的真实本性,啊,诸王中最杰出者。

12.228.11

एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्ट्वानसि ।
यथा वस्तुनि संज्ञानि विविधानि भवन्त्युत ॥ १२.२२८.११ ॥

啊,诸王中的猛虎,你所问的,已将此告诉你了;正如事物会有种种不同的名称。

12.228.12

पितामह महाप्राज्ञ राजाधीना नृपाः पुनः ।
अन्यानि च सहस्राणि नामानि विविधानि च ॥ १२.२२८.१२ ॥

祖父啊,大智者,那些受他王支配的国王,又有,以及其他数千种不同的名称。

12.228.13

प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च ।
दृढं सर्वं प्राकृतकभिदं सर्वत्र पश्य वै ॥ १२.२२८.१३ ॥

他们相反的状态也隐没而消逝。这整个自然之序是坚固的;处处都应看见这一点。

12.228.14

तस्माद्यथागतं राजन्यथारुचि नृणां भवेत् ।
अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर ॥ १२.२२८.१४ ॥

因此,大王,任其如来,随人心所愿。关于此事,请听古老的传说,大王坚战。

12.228.15

ब्राह्मणानां समूहे तु यदुवाच सुवर्चला ।
देवलस्य सुता विद्वन्सर्वलक्षणशोभिता ॥ १२.२२८.१५ ॥

苏伐尔恰在婆罗门的集会上所说的话——提婆罗之女,博学者啊,以一切吉相庄严。

12.228.16

कन्या सुवर्चला नाम योगभावितचेतना ।
हेतुना केन जाता सा निर्द्वन्द्वा नष्टसंशया ॥ १२.२२८.१६ ॥

名为苏伐尔恰的少女,其心念已由瑜伽修养——她因何缘故而生?她超越了二元,疑惑已灭。

12.228.17

साऽब्रवीत्पितरं विप्रं वरान्वेषणतत्परा ॥ १२.२२८.१७ ॥

她专心寻求一个恩赐,对她的父亲——那位婆罗门——说道。

12.228.18

अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् ।
एवं स्म च पितः शश्वन्मयेदं…मुने ॥ १२.२२८.१८ ॥

"大智者啊,请把我许给一个盲人,见到那美目者……父亲啊,圣者啊,如此我常……"

12.228.19

न शक्यं प्रार्थितुं वत्से त्वयाऽद्य प्रतिभाति मे ।
अन्धताऽनन्धता चेति विचारो मम जायते।
उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने ॥ १२.२२८.१९ ॥

女儿啊,我觉得此事我无法开口相求。今日你的话我不明白。盲与非盲,这让我心中生出疑惑。大眼睛的女儿,你说话像是疯了一样。

12.228.20

नाहमुन्मत्तभूताऽऽद्य बुद्धिपूर्वं ब्रवीमि ते ।
विद्धि वैतादृशं लोके स मां भजति वेदवित् ॥ १२.२२८.२० ॥

我今日并未发狂,我是有意向你说的。要知道世间是如此。那精通吠陀的人选择了我。

12.228.21

यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह ।
आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम् ॥ १२.२२८.२१ ॥

婆罗门中最优秀者啊,你所想给我的东西,都拿到这里来。大福之人啊,其他的也拿来。我将在其中看到他。

12.228.22

तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान् ।
ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् ॥ १२.२२८.२२ ॥

婆罗门说了“就这样吧”,便派遣弟子前去。众人见到仙人的威力与少女的光彩,大王啊,那些最优秀的再生者和许多仙人便来到了提婆罗的修行处。

12.228.23

तानागतानथाभ्यर्च्यं कन्यामाह पिता महान् ।
यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् ॥ १२.२२८.२३ ॥

尊敬了前来的人们之后,伟大的父亲对少女说:“善良的孩子啊,如果你想要丈夫,就由你自己选择那位婆罗门吧。”

12.228.24

तथेचि चोक्त्वा कल्याणी तप्तहेमनिभानना ।
करसंमितमध्याङ्गी वाक्यमाह तपोधनाः ॥ १२.२२८.२४ ॥

少女说了“就这样吧”,她面如熔金,腰细如一掌,她说出了这些话,诸位苦行富有者啊。

12.228.25

यद्यस्ति संमतो विप्रो ह्यन्धोऽनन्धः स मे वरः ।
नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते ॥ १२.२२८.२५ ॥

若有婆罗门合我心意,无论盲与不盲,便是我的夫婿。然而婆罗门们没有回答这位大福者,便离去了。

12.228.26

कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत ॥ १२.२२८.२६ ॥

婆罗多啊,让这位少女就留在这里,在父亲的家中吧。

12.228.27

श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् ।
श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते ॥ १२.२२८.२७ ॥

迦诃罗的内弟、通晓最高法的白增(Śvetaketu),闻此言后来到那里,对少女说道:大王啊。

12.228.28

सोहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः ।
विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम् ॥ १२.२२८.२८ ॥

善女啊,我正是你先前所说的那位再生者。请知道我是大眼的,尽管我是盲人。选择我吧。

12.228.29

कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः ।
ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम ॥ १२.२२८.२९ ॥

你怎么会是大眼的,或者你怎么会是无眼的?请告诉我,博学者。之后我将考验你,最优秀的再生者。

12.228.30

शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् ।
न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे।
अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः ॥ १२.२२८.३० ॥

我的心不会依其缘由转向声、触、色、味、香;我对它们也没有直接的感知。因此我是无眼的,因为我没有路径。

12.228.31

येन पश्यति सुश्रोणि भाषते स्पृशते पुनः ।
भुज्यते घ्रायते नित्यं शृणोति मनुते तथा ॥ १२.२२८.३१ ॥

美臀女子啊,凭此人能看见、说话、再次触摸、时常饮食、嗅闻、听闻并思考,亦复如此。

12.228.32

तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम् ।
सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते।
सर्वमस्मिन्न मे विद्या विद्वान्हि परमार्थतः ॥ १२.२२८.३२ ॥

我拥有那只能清楚看见的眼睛。善良的女子啊,我是明目之人。你问吧,或者我该告诉你什么?这件事并非我全部知晓,但就最高意义而言,我是有学问的。

12.228.33

सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् ।
प्रणम्य पूजयामास तां भार्यां स च लब्धवान् ॥ १२.२२८.३३ ॥

于是她变得清净,向大仙人室外摩拜礼,供养他;他便得到她作妻子。

12.228.34

वैराग्यसंयुता कन्या तादृशं परिमुत्तमम् ।
प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक् ॥ १२.२२८.३४ ॥

具足离欲的少女得到了如此至高殊胜之境。因此,大王,大智者啊,请逐一领会其义。

12.228.35

एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥ १२.२२८.३५ ॥

大王,这已经讲给你听了。你还想听什么?