摩诃婆罗多 · 章 12.229
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.229.1
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम् ।
पुरुषं योजयत्येव फलयोगेन भारत ॥ १२.२२९.१ ॥
婆罗多啊,此世间的任何行为,无论善恶,都会通过与其果报的联系束缚人。
12.229.2
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः ।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥ १२.२२९.२ ॥
人是其作者吗,还是不是?这是我的疑惑。祖父啊,我希望从您这里如实听闻此事。
12.229.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥ १२.२२९.३ ॥
关于此事,人们也讲述这古老的传说——那是补罗诃陀与因陀罗的对话,俱卢子啊。
12.229.4
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् ।
अस्तब्धमनहंकारं सत्वस्थं संयतेन्द्रियम् ॥ १२.२२९.४ ॥
无执著、洗净罪过、生于良好家族且博学、无傲慢无我慢、住于善性、根除感官的人。
12.229.5
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम् ।
चराचराणां भूतानां विदितप्रभवाप्ययम् ॥ १२.२२९.५ ॥
视毁誉为一、自我调伏、形如空屋、知晓动与不动众生之生起与灭尽的人。
12.229.6
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च ।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम् ॥ १२.२२९.६ ॥
不因不悦之事而愤怒,不因悦意之事而欢喜,视黄金与土块为一的人。
12.229.7
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम् ।
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम् ॥ १२.२२९.७ ॥
他安住于自我、至善与智慧之中,决心坚定,知晓众生之高下,是全知与全见者。
12.229.8
अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि ।
हृदयेन समाविष्टं सर्वभावप्रियंकरम् ॥ १२.२२९.८ ॥
其自我隐而不显,以心沉浸于大德的戈温达、婆苏提婆之中,于一切境遇中行所喜悦之事。
12.229.9
भक्तं भागवतं नित्यं नारायणपरायणम् ।
ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् ॥ १२.२२९.९ ॥
虔诚的薄伽梵信徒,常一心归依那罗延,冥想至上自我——他是希兰耶迦湿鸠之子。
12.229.10
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम् ।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥ १२.२२९.१० ॥
帝释天走近独坐、摄伏诸根的钵罗诃罗陀,欲知其智慧,便说道。
12.229.11
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु ।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥ १२.२२९.११ ॥
世间人凭借任何德性受到众人尊敬,我们都能辨识出那些不可分离的德性。
12.229.12
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह ।
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥ १२.२२९.१२ ॥
如今你的智慧在此显得如同愚童。自以为有智,你在此究竟以何为至善?
12.229.13
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि ॥ १२.२२९.१३ ॥
被绳索捆绑,从本位跌落,落入敌人之手,失去吉祥,啊,钵罗诃罗陀,你对本应悲叹之事却不悲叹。
12.229.14
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा ।
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥ १२.२२९.१४ ॥
或因获得智慧,或因坚定,啊,提迭之子,啊,钵罗诃罗陀,你观看自己的灾难时仍保持着平静的本性。
12.229.15
इति संचोदितस्तेन धीरो निश्चितनिश्चयः ।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥ १२.२२९.१५ ॥
被他如此激励后,这位坚定、决心已定的人以温柔的声音阐述自己的智慧。
12.229.16
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते ।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः ॥ १२.२२९.१६ ॥
对于不了解众生之活动与止息的人,因童稚而生昏迷;对于能看清的人,则无昏迷。
12.229.17
गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् ।
अनिग्रहमनौपम्यं सर्वाकारं परात्परम् ॥ १२.२२९.१७ ॥
对一切众生深不可测,值得冥想,永恒常在,不可遏止,无可比拟,具一切形相,超越至上。
12.229.18
सर्वावरणसंभूतं तस्मादेतत्प्रवर्तते ।
तन्मया अपि संपश्य नानालक्षणलक्षिताः ॥ १२.२२९.१८ ॥
由一切覆盖而生,故此一切得以运行;也请看那些充满此物、标有种种特征者。
12.229.19
स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः ।
पुनर्दर्शति संप्राप्ते…सुरेश्चरः ॥ १२.२२९.१९ ॥
他是创造世界并护持世界的主,被称为毗湿奴。时机来临时,他再度显现……诸天之主。
12.229.20
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च ।
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते ॥ १२.२२९.२० ॥
一切存在依自性而生起,也依自性而止息;一切状态亦复如是。人的努力并不存在。
12.229.21
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः ।
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह ॥ १२.२२९.२१ ॥
若无人的努力,便无人能自作其因。自以为是自己在行动的人,在此或许会生出我慢。
12.229.22
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा ।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः ॥ १२.२२९.२२ ॥
无论善与恶,若以自身为作者者,其智慧有过失;依我之见,他不知真理。
12.229.23
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् ।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत् ॥ १२.२२९.२३ ॥
若人为作者,帝释啊,则为自身利益的事业必定成功,绝不会失败。
12.229.24
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च ।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥ १२.२२९.२४ ॥
在努力者身上,可见厌恶之物不能止息,喜爱之物不能常存;那么人的努力从何而来呢?
12.229.25
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च ।
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः ॥ १२.२२९.२५ ॥
我们看到,在某些人身上,不愿的出现和所愿的遮蔽,不需努力,仅由其本性而发生。
12.229.26
प्रतिरूपतराः केचिद्दृस्यन्ते बुद्धिमत्तराः ।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमं ॥ १२.२२९.२६ ॥
有些人显得更有资格、更有智慧,而不配者与愚钝者却渴求获得财富。
12.229.27
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा ।
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥ १२.२२९.२७ ॥
当由本性驱使的一切善恶之德进入某人身上时,他的荣誉又有何因由呢?
12.229.28
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः ।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा ॥ १२.२२९.२८ ॥
一切皆仅出于本性,这是我坚定的看法;我没有立足于自我的智慧,因此不持异议。
12.229.29
कर्मजं त्विह मन्यन्ते पलयोगं शुभाशुभम् ।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥ १२.२२९.२९ ॥
世人认为善恶果报的结合生于业行。我将为你讲说业行的全部范围,你且听着。
12.229.30
यथा वेदयते कश्चिदोदनं पायसं ह्यदन् ।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥ १२.२२९.३० ॥
好比有人吃熟饭或乳粥时品尝其味,所有的行为也正是本性的标志。
12.229.31
विकारानेव यो वेद न वेद प्रकृतिं पराम् ।
तस्य स्तंभोऽभवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः ॥ १२.२२९.३१ ॥
知晓变化而不知至上本性者,因幼稚而生傲慢;见者则无傲慢。
12.229.32
स्वभावभाविनो भावान्सर्वानेवेह निश्चये ।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥ १२.२२९.३२ ॥
于此定知,一切状态皆由自性而生;对于明了此理者,傲慢或自尊又能如何?
12.229.33
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् ।
तस्माच्छक्र न शोचारि सर्वं ह्येवेदमन्तवत् ॥ १२.२२९.३३ ॥
我知晓法的全部规则与众生的无常;因此,帝释啊,不要悲伤,因为这一切必有终结。
12.229.34
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः ।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥ १२.२२९.३४ ॥
无我所,无我慢,无欲求,解脱诸缚,安住自性而超然,我见众生的生起与灭尽。
12.229.35
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः ।
नायासो विद्यते शक्र पश्यतो योगवित्तया ॥ १२.२२९.३५ ॥
帝释啊,智慧圆满、自制、离渴爱、无所希求者,以瑜伽之智观照,便无疲劳。
12.229.36
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे ।
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति ॥ १२.२२९.३६ ॥
于本性与变化,我既无喜爱,也无憎恶;即便今日与我为敌者,我亦不见其为仇敌。
12.229.37
नोर्ध्वं नावाङ्वतिर्यक्च न क्वचिच्छक्र कामये ।
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम् ॥ १२.२२९.३७ ॥
啊,因陀罗,我上下左右、何处都不求取任何事物。实际上,在可知者、真知与无知之间并无差别。
12.229.38
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते ।
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते ॥ १२.२२९.३८ ॥
请你向我这个提问者正确地说出,哦,钵罗诃罗陀,通过何种方法能获得这智慧,通过何种方法能达到寂静。
12.229.39
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया ।
गुरुशुश्रूषया शक्र पुरुषो लभते महत् ॥ १२.२२९.३९ ॥
以正直、不放逸、清净、自制、事奉上师,啊因陀罗,人便能获得大的成就。
12.229.40
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।
स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यति ॥ १२.२२९.४० ॥
人从其本性获得智慧,依其本性达到寂静。仅凭本性,他所见到的一切,皆由此而见。
12.229.41
नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः ।
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः ॥ १२.२२९.४१ ॥
苦行者从上师口中听闻言教后,以心思惟言句及其义理的领会,然后才知道其中的分别。
12.229.42
विवेकप्रत्ययापन्नमात्मानमनुपश्यति ।
विरज्यति ततो भीत्या परमेश्वरमृच्छति ॥ १२.२२९.४२ ॥
具备分辨的智慧,他便见到自我;然后因畏惧而离欲,便抵达至上的主宰。
12.229.43
त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः ।
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै ॥ १२.२२९.४३ ॥
他为寻求那能救度一切苦难的安乐,便亲近善人;善人确实是为了安乐而存在。
12.229.44
सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया ।
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति ॥ १२.२२९.४४ ॥
从善人处learned the path及其特征,摆脱一切执着,他便证得至上的自我。
12.229.45
विषयेच्छाकृतो धर्मं सरजस्को भयावहः ।
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः ॥ १२.२२९.४५ ॥
由对境欲望所生、染有激情、带来恐惧的法——因此人会逐渐再次遭受法的丧失。
12.229.46
भक्तिहीनो भवत्येव परमात्मनि चाच्युत ।
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः ॥ १२.२२९.४६ ॥
他确实会对至上的自我和不坏者失去虔信;即使在教师那里也没有他的位置。解脱之人确实不伤害。
12.229.47
सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत् ।
तस्य नित्यमविज्ञानादात्माचैव न सिद्ध्यति ॥ १२.२२९.४७ ॥
他的喜乐常在于金翅鸟之境,也在于世间存在;因持续的无知,他的自我永不成就。
12.229.48
उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते ।
आशौचं वर्धते नित्यं न शाम्यति कथंचन ॥ १२.२२९.४८ ॥
他逐渐变得心志狂乱,如此行事;不净常常增长,无论如何也不能平息。
12.229.49
विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते ।
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान् ॥ १२.२२९.४९ ॥
执着于感官对象的人,不会生起求解脱的愿望;沉溺于虚假的论据,他赞颂的是属于感官对象的种种品质。
12.229.50
न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः ।
स्वतःसिद्धं न भोगस्तं स्वतः सिद्धं न वेत्ति च।
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम् ॥ १२.२२९.५० ॥
充满骄慢与傲气的人,甚至不听经典。他不知道什么是自成的,什么是非自成的享受;也不知道持守觉性之相,以及他者所造的不坏之物。
12.229.51
नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः ।
तीर्णपारं न जानाति महामोहसमन्वितः।
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः ॥ १२.२२९.५१ ॥
他在众多胎藏中轮转,随自己的业而流浪,充满大愚痴,不知彼岸。依止阿阇梨,得到谦逊,应当获得智慧。
12.229.52
अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः ।
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन् ॥ १२.२२९.५२ ॥
在顺应的法中,他一次又一次地聚集他,因此被称为阿阇梨,哦,击杀弗栗多之力者。
12.229.53
नियतेनैव सद्भावस्तेन जन्मान्तरादिषु ।
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना ॥ १२.२२९.५३ ॥
唯有通过确定的道路才生起真实之有;借此,在轮回等之中,积累的业之堆如同棉絮一般,被智慧之风吹散。
12.229.54
एवं युक्तसमाचारः संसारविनिवर्तकः ।
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा ॥ १२.२२९.५४ ॥
如此行为端正、从轮回中回转的人,持续地斩断顺应的生活之流,正如婆利古那样。
12.229.55
येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति ।
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् ॥ १२.२२९.५५ ॥
此人若不得离欲无求之境,帝释啊,此称为内在之缚;应当远离其相似之处。
12.229.56
प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति ।
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति ॥ १२.२२९.५६ ॥
首先,以其所作之业,他去探究它;其次,以业,他也进入梦之瑜伽。
12.229.57
एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः ।
सुपुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः ॥ १२.२२९.५७ ॥
具足这些根,他显现而安住;名为深眠者即第四位,他并无遮蔽相随。
12.229.58
लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत् ।
आत्मन्यायासयोगेन निष्क्रियं स परात्परम् ॥ १२.२२९.५८ ॥
依世间之行,祭祀那位主宰,献上供物,人应成为自制者;在自我中,以勤苦之瑜伽,他无作为,高于最高。
12.229.59
आयामे तां विजानाति मायैषा परमात्मनः ।
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका ॥ १२.२२९.५९ ॥
在广延中他认识她;此为至上我之幻化。由于幻相的共性,智性中属于自我的觉知,也是幻化。
12.229.60
स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत् ।
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः ॥ १२.२२९.६० ॥
如火星因与火同性而成为火之状态,那么对无知的孩童而言,自我之状态被认为是另一种。
12.229.61
साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः ।
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर ॥ १२.२२९.६१ ॥
诸神之主啊,所谓应当成就之事,本也并非实物;那么朋友、敌人等从何而有?没有它,忧愁等也不会生起。
12.229.62
एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात् ।
उपायमेतदाख्यातं मा वक्रं गच्छ देवप ॥ १२.२२९.६२ ॥
世尊啊,应如此理解并获得平等之心。此方便已经说明;诸神的守护者啊,不要走弯曲的道路。
12.229.63
ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् ।
यावदारब्धमस्येह तावन्नैवोपशाम्यति ॥ १२.२२९.६३ ॥
以智慧观照行为;对于智者,它并非驱动者。只要此处已经开始,它就确实不会平息。
12.229.64
तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः ।
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा ॥ १२.२२९.६४ ॥
至其终结,它必定离去;智者则不然,这是我的看法。我将说出称谓它的那个词;我一忆起,它便会成就。
12.229.65
तेनतेन च भावेन अपायं तत्र पश्यति ।
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा ॥ १२.२२९.६५ ॥
随着每一种心境,在那里便见到毁灭;在不同的位置,这言语便安住于上颚,如是而已。
12.229.66
तद्वदुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा ॥ १२.२२९.६६ ॥
同样,进入智性的对象;而智性始终安住于自我之中。
12.229.67
समस्तसंकल्पविशेषमुक्तं ।
परं पराणां परमं महात्मा।
त्रय्यन्तविद्भिः परिगीयतेऽसौ ।
विष्णुर्विभुर्वास्ति गुणो न नित्यम् ॥ १२.२२९.६७ ॥
超脱一切特定意愿,至高者中的至高,大德者。通晓三吠陀终极者赞颂他。毗湿奴遍在,具有属性,却非永恒。
12.229.68
न चक्षुषा पश्यति कश्चिदेनम् ॥ १२.२२९.६८ ॥
无人以肉眼见到他。
12.229.69
भक्त्या च धृत्या च समाहितात्मा ।
ज्ञानस्वरूपं परिपश्यतीह ॥ १२.२२९.६९ ॥
以虔信与坚定使自我专注者,便能在此完全见到那以智慧为本性者。
12.229.70
वदन्ति तन्मे भगवान्ददौ स ।
स एव शेषं मघवान्महात्मा।
एवं ममोपायमवैहि शक्र ।
तस्माल्लोको नास्ति मह्यं सदैव ॥ १२.२२९.७० ॥
人们说,世尊赐予了我这一切;那大德的因陀罗也给了其余的。啊,帝释,如此知道我的方法吧;因此对我而言,永远没有所谓的世界。
12.229.71
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् ।
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥ १२.२२९.७१ ॥
被阿修罗之主如此说后,帝释大为惊异;然后,王啊,他心生欢喜,便尊重了那番言辞。
12.229.72
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः ।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥ १२.२२९.७२ ॥
于是,三界之主、至尊者礼敬阿修罗之主后,向阿修罗之王辞别,便返回了自己的居所。