Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.23.1

एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत ।
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥ १२.२३.१ ॥

婆罗多啊,古陀刹那如此说完,贡蒂之子一言不发;于是毗耶娑开口了。

12.23.2

बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर ।
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ॥ १२.२३.२ ॥

温和的坚战啊,毗跋蹉(阿周那)此言是真实的:经典中所见的最高法,被称为居家之位。

12.23.3

स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि ।
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥ १२.२३.३ ॥

精通法的人啊,依照经典与规定,行你自己的法。舍弃居家之位,并不为你规定去森林生活。

12.23.4

गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा ।
भृत्याश्चैवोपजीवन्ति तान्भरस्व महीपते ॥ १२.२३.४ ॥

大地之主啊,诸神、祖先和客人始终依赖居家者,仆人也依他而活;你应当扶养他们。

12.23.5

वयांसि पशवश्चैव भूतानि च जनाधिप ।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी ॥ १२.२३.५ ॥

人主啊,鸟类、兽类以及一切众生,都只由居家者来供养;因此居家者最为殊胜。

12.23.6

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः ।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥ १२.२३.६ ॥

在这四个生活阶段中,此(居家之位)难以奉行。普利塔之子啊,现在就奉行那条对感官薄弱者而言艰难的规定吧。

12.23.7

वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत् ।
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि ॥ १२.२३.७ ॥

你精通全部吠陀知识,也修习了伟大的苦行。你应当像轭下的牛一样承担父祖传下的王国。

12.23.8

तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः ।
ध्यानं विद्या समुत्थानं संतोषश्च श्रियं प्रति।
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ॥ १२.२३.८ ॥

苦行、祭祀、学问、乞食、克制诸根、禅定、学问的兴盛、对财富的知足;同样,喜好独处、满足,并依自己的能力布施。

12.23.9

ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका ।
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः ॥ १२.२३.९ ॥

大王啊,婆罗门的行为能成就圆满。至于刹帝利,我将谈论,而这些你也早已知晓。

12.23.10

यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति ।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥ १२.२३.१० ॥

祭祀、学问的兴盛、对财富的不知足(无贪欲之心)、执掌刑杖、严厉,以及保护臣民。

12.23.11

वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा ।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम् ॥ १२.२३.११ ॥

全部吠陀知识,同样善行的苦行,获取大量财富,并将其布施给合适的受施者。

12.23.12

एतानि राज्ञां कर्माणि सुकृतानि विशांपते ।
इमं लोकममुं चैव साधयन्तीति नः श्रुतम् ॥ १२.२३.१२ ॥

万民之主啊,这些是诸王的善行。我们听说,它们能成就今世与来世。

12.23.13

एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते ।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥ १२.२३.१३ ॥

俱盧之子啊,在这些之中,执掌刑杖被称为最高。刹帝利之中常有力量,力量之中确立着刑杖。

12.23.14

एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः ।
अपि गाथामिमां चापि बृहस्पतिरगायत ॥ १२.२३.१४ ॥

大王啊,这些是刹帝利能成就圆满的行为。这首偈颂也是毗诃波提所唱。

12.23.15

भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ १२.२३.१५ ॥

大地吞噬这两者,如同蛇居洞穴:不抵抗的国王,以及不出外游历的婆罗门。

12.23.16

सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् ।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ १२.२३.१६ ॥

据闻王仙苏德瓦姆那也因执掌刑杖而达到了至上的圆满,正如普拉切塔斯之子达刹。

12.23.17

भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः ।
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥ १२.२३.१७ ॥

尊者啊,大地之主苏德瓦姆那以何业而达到至上的圆满?我愿听闻那位国王的事迹。

12.23.18

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥ १२.२३.१८ ॥

此处人们也讲述这个古老的传说:尚卡与利基塔两兄弟,恪守严格的誓愿。

12.23.19

तयोरावसथावास्तां रमणीयौ पृथक्पृथक् ।
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥ १२.२३.१९ ॥

他们二人的修行处各自清幽可爱,坐落在巴呼陀河畔,满是常开花、常结果的树木。

12.23.20

ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः ।
यदृच्छयाऽथ शङ्खोपि निष्क्रान्तोऽभवदाश्रमात् ॥ १२.२३.२० ॥

后来有一次,利科迦来到商迦的修行处,恰巧商迦也已离开了修行处。

12.23.21

सोऽभिगम्याश्रमं भ्रातुश्चंक्रमँल्लिखितस्तदा ।
फलानि शातयामास सम्यक्परिणतान्युत ॥ १२.२३.२१ ॥

利科迦到了哥哥的修行处,一边散步,一边让人摘下了熟透的果实。

12.23.22

तान्युपादाय विस्रब्धो भक्षयामास स द्विजः ।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥ १२.२३.२२ ॥

这位婆罗门拿起果实,毫不犹豫地吃了起来;正吃着的时候,商迦也回到了修行处。

12.23.23

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् ।
कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥ १२.२३.२३ ॥

商迦看见他在吃,便对哥哥说:"这些果实是从哪里得来的?你凭什么理由吃它们?"

12.23.24

सोऽब्रवीद्धातरं ज्येष्ठमुपसृत्याभिवाद्य च ।
इत एव गृहीतानि मयेति प्रहसन्निव ॥ १२.२३.२४ ॥

他走到哥哥面前,恭敬地行礼,仿佛笑着说:"我就是从这里取的。"

12.23.25

तमब्रतीत्तथा शङ्खस्तीव्ररोषसमन्वितः ।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥ १२.२३.२५ ॥

尸首(Śaṅkha)怒火中烧地对他说:"这次偷窃是你自己拿取果实所犯下的。"

12.23.26

गच्छ राजानमासाद्य स्वकर्म कथयस्व वै ।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम ॥ १२.२३.२६ ॥

去吧,走到国王面前,说出你自己的行为。哦,最好的国王,拿取未被给予之物就是这样做的。

12.23.27

स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ।
शीघ्रं धारय चोरस्य मम दण्डं नराधिप ॥ १२.२३.२७ ॥

既然知道我是小偷,你就守护你的法度吧。人主啊,请迅速对我这个小偷施加刑罚。

12.23.28

इत्युक्तस्तस्य वचनात्सुद्युम्न स नराधिपम् ।
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥ १२.२३.२८ ॥

听了他这样的话,大臂者啊,坚守誓愿的利基塔前去见国王。

12.23.29

सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् ।
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः ॥ १२.२३.२९ ॥

然而,苏德尤姆纳从边境守卫那里听说利基塔到来,便与大臣们一起徒步前去迎接这位人民之主。

12.23.30

तमब्रवीत्समागम्य स राजा धर्मवित्तमम् ।
किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥ १२.२३.३० ॥

相见之后,那位最精通法的国王对他说:"尊者,请告诉我您来此的目的;那件事已经做成了。"

12.23.31

एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् ।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥ १२.२३.३१ ॥

被如此询问后,那位婆罗门中的仙人对苏德yumna说:“你既已许诺,听着:我将去做;你应当去做。”

12.23.32

अनिसृष्टानि गुरुणा फलानि मनुजर्षभ ।
भक्षितानि महाराज तत्र मां शाधि माचिरम् ॥ १२.२३.३२ ॥

人中之牛啊,大王,这些果实未经老师允许便被吃了;请在那里惩罚我,不要迟延。

12.23.33

प्रमाणं चेन्मतो राजा भवतो दण्डधारणे ।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥ १२.२३.३३ ॥

若依你之见,国王在执掌刑杖上是权威,那么在许可之事上,原因也应相同,婆罗门中最优秀者啊。

12.23.34

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः ।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥ १२.२३.३४ ॥

你行为清净、持大誓,既已获准,请说吧——除此之外也说出其他愿望;我必定遵从你的言辞。

12.23.35

संछन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना ।
नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥ १२.२३.३५ ॥

虽然这位大德之王劝他选择一个恩赐,那位婆罗门仙人除了那刑罚之外,没有选择其他恩赐。

12.23.36

ततः स पृथिवीपालो लिखितस्य महात्मनः ।
करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥ १२.२३.३६ ॥

于是那地上的守护者执起刑杖,令大德的利克希塔的双手被斩断,然后离去。

12.23.37

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् ।
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हति ॥ १२.२३.३७ ॥

他走到兄弟商佉那里,面带悲容地说道:“这位受罚的愚人,你应当宽恕他。”

12.23.38

न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम ।
सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्।
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥ १२.२३.३८ ॥

商佉说:“精通法者啊,我并不生你的气,你也没有玷污我的家族。婆罗门啊,我们的家族在此世间极为清净、声名远扬。你违背了法,因此你的赎罪已经完成。”

12.23.39

त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि ।
देवानृषीन्पितृंश्चैव मा चाधर्मे मनः कृथाः ॥ १२.२३.३९ ॥

“你快去巴忽陀河,依法向诸神、诸仙和祖先献祭;不要让心思落在不义上。”

12.23.40

ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् ।
महान्ति पातकान्याहुः संयोगं चैव तैः सह ॥ १२.२३.४० ॥

“杀害婆罗门、饮酒、偷盗、与师母交合,这些被称为大罪;与他们交往也是如此。”

12.23.41

न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि ।
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत् ॥ १२.२३.४१ ॥

“婆罗门啊,世间没有与偷盗相似的大罪。大福之人啊,它实际上等同于杀害婆罗门。”

12.23.42

सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते ।
तस्करस्य विशेषेण नान्यो दण्डो विधीयते ॥ १२.२३.४२ ॥

“婆罗门啊,对一切罪人都说应施以肉体刑罚;尤其是对盗贼,不另规定其他刑罚。”

12.23.43

ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽथवा द्विज ।
सर्वे कामकृते पापे हन्तव्या न विचारणा ॥ १२.२३.४३ ॥

无论是婆罗门、刹帝利、吠舍还是首陀罗,婆罗门啊:凡因欲望而作恶者,皆应被杀,此事无须考虑。

12.23.44

राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ १२.२३.४४ ॥

人们犯下罪过,经国王施以刑罚之后,便得清净,升往天界,正如善人与有功德者那样。

12.23.45

उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि ॥ १२.२३.४५ ॥

婆罗门啊,因为您执掌命令与刑罚,我们的家族得以被提升。

12.23.46

तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥ १२.२३.४६ ॥

听了他的话之后,于是,尸舍的兄弟利吉多在圣河中沐浴,便开始去取水。

12.23.47

प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ ।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥ १२.२३.४७ ॥

然后他的双手显现出来,如同莲花。他惊讶地把这双手展示给他的哥哥看。

12.23.48

ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया ।
मा च तेऽव विशङ्का भूद्दैवमत्र विधीयते ॥ १२.२३.४८ ॥

于是尸舍对他说:“这是由我的苦行所成。你不要有疑虑;在这里是命运在安排。”

12.23.49

किंतु नाहं त्वया पूतः पूर्वमेव महाद्युते ।
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥ १२.२३.४९ ॥

然而,大光明者啊,你此前并未使我清净,你的苦行之力如此强大,二生者中的最上者啊。

12.23.50

एवमेतन्मया कार्यं नाहं दण्डधरस्तव ।
स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥ १२.२३.५० ॥

此事我应当如此去做;我并非你的执杖者。那位国王也得以清净,你也与你的祖先一同得以清净。

12.23.51

स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा ।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ १२.२३.५१ ॥

般度子孙中最优秀者啊,那位国王因那一行为确实变得更加殊胜,并获得了至上的成就,正如普拉切塔斯之子达刹所得。

12.23.52

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् ।
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः ॥ १२.२३.५२ ॥

这是刹帝利的职责:保护臣民,使他们远离歧途。大王啊,不要让心陷入悲伤。

12.23.53

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम ।
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥ १२.२३.५३ ॥

最善知法者啊,请听你兄长的有益之言。众王之主啊,惩罚才是刹帝利的职责,而非剃度剃发。