摩诃婆罗多 · 章 12.230
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.230.1
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥ १२.२३०.१ ॥
国王失去光荣,被时间之杖碾压,因何种智慧而流浪于大地?祖父,请告诉我。
12.230.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं बलेर्वैरोचनस्य च ॥ १२.२३०.२ ॥
这里人们也讲述这个古老的故事,即伐娑婆(因陀罗)与毗卢遮那之子钵利之间的对话。
12.230.3
पितामहमुपागम्य प्रणिपत्य कृताञ्जलिः ।
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥ १२.२३०.३ ॥
伐娑婆走近祖父,行礼,合掌,在战胜所有阿修罗之后,向钵利发问。
12.230.4
यस्य स्म ददतो वित्तं न कदाचन हीयते ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ १२.२३०.४ ॥
施舍时财富也从不减少的那位钵利,我找不到。婆罗门啊,请告诉我钵利的事。
12.230.5
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः ।
सोऽग्निस्तपति भूतानि जलं च स भवत्युत ॥ १२.२३०.५ ॥
他是风与婆噜那;他是太阳,他也是月亮。他是使众生发热的火,他也化为水。
12.230.6
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ।
स एव ह्यस्तमयते स स्म विद्योतते दिशः ॥ १२.२३०.६ ॥
那位钵利我找不到。婆罗门啊,请告诉我钵利的事。他自己落下,也自己照亮四方。
12.230.7
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ १२.२३०.७ ॥
他按时在雨季降雨,从不倦怠。梵天啊,我找不到那位钵利;请告诉我钵利的事。
12.230.8
नैतत्ते साधु मघवन्यदेनमनुपृच्छसि ।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥ १२.२३०.८ ॥
摩伽梵啊,你问起他,这对你并不妥当。被问到的人不应说谎;因此我将把钵利的事告诉你。
12.230.9
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः ।
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥ १२.२३०.९ ॥
在骆驼、牛、驴或马之中,无论哪个生灵将成为最优者,舍遮之主啊,它将在一间空屋中。
12.230.10
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् ।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥ १२.२३०.१० ॥
若我在空屋中遇到钵利,我该杀他还是不杀他?因此,梵天啊,请教导我。
12.230.11
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।
न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥ १२.२३०.११ ॥
舍卡啊,不要伤害钵利;钵利不配受死。伐婆啊,舍卡,你应当怀着求知之心询问公正之道。
12.230.12
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥ १२.२३०.१२ ॥
世尊如此开示之后,摩亨德罗便骑上爱罗婆多的肩膀,在大地上巡行,被光辉所环绕。
12.230.13
ततो ददर्श स बलिं खरवेषेण संवृतम् ।
यथाख्यातं भगवता शून्यागारकृतालयम् ॥ १२.२३०.१३ ॥
于是他看见巴利以驴的形貌隐身,住在一座空屋中,正如世尊所说。
12.230.14
खरयोनिमनुप्राप्तस्तुपभक्षोऽसि दानव ।
इदं ते योनिरसमा शोचस्याहो न शोचसि ॥ १२.२३०.१४ ॥
达那婆啊,你已入驴胎,以糠皮为食。这是你不相称的生处;你在悲伤吗?啊,你竟不悲伤。
12.230.15
अदृष्टं वत पश्यामि द्विषतां वशमागतम् ।
श्रिया विहीनं मित्रैश्च भ्रष्टैश्वर्यपराक्रमम् ॥ १२.२३०.१५ ॥
唉,我看见了前所未见之事:你落入敌人之手,失去福运与朋友,权势与勇武尽皆丧失。
12.230.16
यत्तद्यानसहस्रैस्त्वं ज्ञातिभिः परिवारितः ।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ १२.२३०.१६ ॥
你曾被千乘车驾与亲族簇拥,炙烤诸世界,不把我们放在心上而行进。
12.230.17
त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्तव शासने ।
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ॥ १२.२३०.१७ ॥
提提之子啊,以你为首的人都听从你的号令;在你的统治下,大地无需耕作便自然结实。
12.230.18
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ।
यदाऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिखन् ॥ १२.२३०.१८ ॥
今日你为这场灾祸悲伤吗?啊,你竟不悲伤——当你站在大海东岸、刨抓着地面的时候。
12.230.19
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ।
यत्ते सहस्रसमिता ननुतुर्देवसोषितः ॥ १२.२३०.१९ ॥
当你将财富分给亲族时,你的心如何?当众神所养的千万人翩翩起舞之时?
12.230.20
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ।
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ॥ १२.२३०.२० ॥
你在游乐中、因荣耀而光彩照人的许多岁月过去了;她们都戴着莲花花环,个个光彩如金。
12.230.21
कथमद्य तदा चैव मनस्ते दानवेश्वर ।
छत्रं तवासीत्सुमहत्सौवर्णं रत्नभूषितम् ॥ १२.२३०.२१ ॥
达那婆之王啊,今日与当时,你的心如何?你的伞盖极为宏大,金制,以宝石装饰。
12.230.22
ननृतुस्तत्र गन्धर्वाः षट्सहस्राणि सप्तचा ।
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ॥ १२.२३०.२२ ॥
那里六千乾闼婆七次起舞;你祭祀之时,你的祭柱极为宏大,全为金制。
12.230.23
यत्राददः सहस्राणि अयुतानां गवां दश ।
अनन्तरं सहस्रेण तदाऽऽसीद्दैत्या का मतिः ॥ १२.२३०.२३ ॥
在你布施十阿由多(数万)头牛、之后又加一千头的地方,那时,啊提迭之子,你的心意是什么?
12.230.24
यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः ।
शम्याक्षेपेण विधिना तदाऽऽसीत्किंतु ते हृदि ॥ १२.२३०.२४ ॥
当你作为祭主,依照投掷沙弥的仪式绕行整个大地时,那时你心中是什么?
12.230.25
न ते पश्यामि भृङ्गारं न च्छत्रं व्यजनं न च ।
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥ १२.२३०.२५ ॥
阿修罗之主啊,我看不见你的水瓶,也看不见你的伞盖、扇子,以及梵天所赐的花环。
12.230.26
ततः प्रहस्य स बलिर्वासवेन समीरितम् ।
निशम्य मानगम्भीरं सुरराजमथाब्रवीत् ॥ १२.२३०.२६ ॥
于是钵利大笑,听罢婆娑所说那充满傲慢而沉重的话语,便对诸神之王说道:
12.230.27
अहो हि तव बालिश्यमिह देवगणाधिप ।
अयुक्तं देवराजस्य तव कष्टमिदं वचः ॥ १२.२३०.२७ ॥
啊,诸神之主,你此刻竟如此幼稚!这对诸神之王并不相宜;你这番话令人痛苦。
12.230.28
न त्वं पश्यसि भृङ्गारं न च्छन्नं व्यजनं न च ।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥ १२.२३०.२८ ॥
婆娑啊,你看不见水瓶,也看不见隐藏的扇子;梵天赐予我的花环,你也将看不见。
12.230.29
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि ।
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥ १२.२३०.२९ ॥
你问起藏在洞穴中的我的宝物;待我的时机到来,你便会看见它们。
12.230.30
न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम् ।
कालेन भविता सर्वो नात्र गच्छति वासव ॥ १२.२३०.३० ॥
你不知道那以吉祥肢体之形而现的成就。婆娑啊,万物皆随时而成,此处没有一件事会白费。
12.230.31
न त्वेतदनुरूपं ते यशसो वा कुलस्य च ।
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥ १२.२३०.३१ ॥
这既不配你的声名,也不配你的家族:你目的已达成,却想在我这目的未达成的人面前夸耀。
12.230.32
न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्द्धिषु ।
कृतप्रज्ञाः ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥ १२.२३०.३२ ॥
在苦难中不悲伤,在兴盛中不喜悦;他们是智慧成熟、以知识为满足、能忍耐的善良智者。
12.230.33
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे ।
यदाऽहमिव भावी स्यास्तदा नैवं वदिष्यसि ॥ १२.२३०.३३ ॥
补罗陀罗啊,你以寻常的智慧夸耀;当你变得像我一样时,就不会这样说了。
12.230.34
ऐश्वर्यमदमत्तो मां स त्वं किंचिन्न बुद्ध्यसे ।
राज्याद्विनिपतानेन सोहं न त्वपराजितः ॥ १२.२३०.३४ ॥
你被权势的傲慢冲昏了头,对我毫无所知:虽然从这王国跌落,我并未被征服。