Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.233

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.233.1

व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे ।
भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे ॥ १२.२३३.१ ॥

陷入灾难之人,何者为善?大臂者啊,请再告诉我;为了使我安定,请告诉我那件事。

12.233.2

अत्रैवोदाहन्तीममितिहासं पुरातनम् ।
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥ १२.२३३.२ ॥

在此,人们讲述这段古老的故事:释迦俱(因陀罗)与那穆质的对话,俱卢子啊,俱(即)尸陀罗。

12.233.3

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् ।
भवाभवज्ञं भूतानामित्युवाच पुरंदरः ॥ १२.२३३.३ ॥

对那坐在失去吉祥之处、如大海般不动、通晓众生有与无之理的人,补兰陀罗(因陀罗)如此说道。

12.233.4

बद्धः पाशैश्च्युतः स्थानाद्द्विपतां वशमागतः ।
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥ १२.२३३.४ ॥

被绳索捆缚,从其位上坠落,落入敌人之手,失去吉祥的那穆质啊,你在悲叹。啊,你却不悲叹!

12.233.5

अनवाप्यं च शोकेन शरीरं चोपशुष्यति ।
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ १२.२३३.५ ॥

悲伤无法获得不可得之物,身体也会枯萎;敌人在悲伤中欢喜,悲伤中无人相助。因此,帝释啊,我不悲伤,因为这一切都是有尽的。

12.233.6

संतापाद्धश्यते रूपं संतापाद्धश्यते श्रियः ।
संतापाद्धश्यते चायुर्धर्मश्चैव सुरेश्वर ॥ १२.२३३.६ ॥

因忧苦,容貌枯萎;因忧苦,吉祥消减。因忧苦,寿命减损;而且,天主啊,法也随之减损。

12.233.7

विनीय खलु तद्दुःखमागतं वै मनस्सुखम् ।
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥ १२.२३३.७ ॥

既除去已经降临的那份忧愁,应当以心思念那令心安乐、令心喜悦的善事,由深知它的人来思念。

12.233.8

यथायथा हि पुरुषः कल्याणे कुरुते मनः ।
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः ॥ १२.२३३.८ ॥

人把心思越来越多地用在善事上,他的一切目的也就越来越多地成就,这一点毫无疑问。

12.233.9

एकः शास्ता न द्वितीयोऽस्ति शास्ता ।
गर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुयुक्तः प्रवणादिवोदकं ।
यथा नियुक्तोऽस्मि तथा भवामि ॥ १२.२३३.९ ॥

主宰只有一位,没有第二位主宰。主宰支配着躺在胎中的人。受他驱使,如水顺坡流下,我便成为所被派定的样子。

12.233.10

भावाभावावजिनानन्गरीयो ।
जानामि श्रेयो न तु तत्करोमि।
आशासु हर्म्यासु हृदासु कुर्वन् ।
यथा नियुक्तोऽस्मि तथा वहामि ॥ १२.२३३.१० ॥

有与无,对未受训练的人来说比肢体还重。我知道什么是更好的,却不去做。在四方、在殿堂、在湖泊中行事,我便依照所被派定的而行走。

12.233.11

यथायथाऽस्म प्राप्तव्यं प्राप्नोत्येव तथातथा ।
भवितव्यं यथा यच्च भवत्येव तथातथा ॥ १२.२३३.११ ॥

应当得到的,便以应当得到的方式得到;应当发生的,便以应当发生的方式发生。

12.233.12

यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः ।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति ॥ १२.२३३.१२ ॥

造物主在胎中一次又一次将他结合于何处,他便居于何处,而不是他自己愿意居于的地方。

12.233.13

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम ।
इति यस्य सदा भावो न स शोचेत्कदाचन ॥ १२.२३३.१३ ॥

我所遭遇的这种境况,是我注定要承受的。凡是始终抱有这种心态的人,永远不会悲伤。

12.233.14

पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते ।
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते ॥ १२.२३३.१४ ॥

那些轮番遭受打击的人并无执着。然而痛苦在于:人以为有人恨我,而我自己是行动者。

12.233.15

ऋषींश्च देवांश्च महासुरांश्च ।
त्रैविद्यवृद्धांश्च वने मुनींश्च।
का नापदो नोपनमन्ति लोके ।
परावरज्ञास्तु न संभ्रमन्ति ॥ १२.२३३.१५ ॥

世间哪有灾祸不降临到仙人、天神、大阿修罗、精通三吠陀的长者以及林中的苦行者身上呢?然而通晓上下之理的人并不惊慌。

12.233.16

न पण्डितः क्रुद्ध्यति नाभिषज्यते ।
न चापि संसीदति न प्रहृष्यति।
न चार्थकृच्छ्रव्यसनेषु शोचते ।
स्थितः प्रकृत्या हिमवानिवाचलः ॥ १२.२३३.१६ ॥

智者不愤怒,不执着;不沮丧,也不欢喜;在因财物匮乏而生的灾难中也不悲伤。他天性坚定,如喜马拉雅般岿然不动。

12.233.17

यमर्थसिद्धिः परमा न हर्षये ।
त्तथैव काले व्यसनं न मोहयेत्।
सुखं च दुःखं च तथैव मध्यमं ।
निषेवते यः स धुरधरो नरः ॥ १२.२३३.१७ ॥

不因至高的成功而欢喜,不因适时降临的灾难而迷惑,对幸福、痛苦和中间状态一视同仁地安住其中——这样的人才是担当重任的人。

12.233.18

यांयामवस्थां पुरुषोऽधिगच्छे ।
त्तस्यां रमेतापरितप्यमानः।
एवं प्रवृद्धं प्रणुदन्मनोजं ।
संतापनीलं सकलं शरीरात् ॥ १२.२३३.१८ ॥

无论人处于何种境况,都应在其中欢喜而不为之烦恼。如此,应将心中所生、日益增长、因忧苦而变黑的全部欲望从身体中驱除。

12.233.19

न तत्सदः सत्परिषत्सभा च ।
सा प्राप्य यां न कुरुते सदा भयम्।
धर्मतत्त्वमवगाह्य बुद्धिमा ।
न्योऽभ्युपैति स धुरंधरः पुमान् ॥ १२.२३३.१९ ॥

那个座位不是善会,也不是议会;得到它的人从不会生出恐惧。智者深入领悟法的真谛而趋向它,这才是能担当重任的人。

12.233.20

प्राज्ञस्य कर्माणि दुरन्वयानि ।
न वै प्राज्ञो मुह्यति मोहकाले।
स्थानाच्च्युतश्चेन्न मुमोह गौतम ।
स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥ १२.२३३.२० ॥

智者的行为难以理解。即使在迷惑之时,智者也不会迷惑。瞿昙啊,即便他从其位置上跌落,若仍不迷惑,那么,遭受沉重灾难的反而是老者。

12.233.21

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
न शीलेन न वृत्तेन तथा नैवार्थसंपदा।
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ १२.२३३.२१ ॥

无论凭咒语、力量、勇气、智慧、男子气概、品德、行为,还是凭财富的丰足,凡人都得不到不可得之物。那么在此何必悲叹呢?

12.233.22

यदेवमभिजातस्य धातारो विदधुः पुरा ।
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥ १२.२३३.२२ ॥

既然造物者自古以来为如此出生的人所定下的,我便要去承受。死亡又能对我怎样呢?

12.233.23

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ १२.२३३.२३ ॥

所应得者,他才得到;所应往者,他才前往;所应至者,他才抵达——苦与乐皆然。

12.233.24

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः ।
कुशली सर्वदुःखेषु स वै सर्वधनी नरः ॥ १२.२३३.२४ ॥

若人全然知此而不迷惑,便能在一切苦难中保持安然;这样的人,实为一切财富的主人。