マハーバーラタ · 章 12.234
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.234.1
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि ।
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः ॥ १२.२३४.१ ॥
大地の守護者よ、災いと苦難に沈んだ人にとって何が最善か。親族を失うことか、それとも王国を失うことか。
12.234.2
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ ।
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि ॥ १२.२३४.२ ॥
バラタの雄牛よ、あなたこそこの世で我らの最高の教師です。これをあなたに尋ねます。どうか私に語ってください。
12.234.3
पुत्रदारैः सुखैश्चैव वियक्तस्य धनेन च ।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप।
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ॥ १२.२३४.३ ॥
王よ、息子や妻、喜びや富から離れ、災いと苦難に沈んだ人にとって、堅忍こそが善をもたらす。堅忍を備えた善人の身体は崩れない。
12.234.4
विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् ।
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥ १२.२३४.४ ॥
悲しみのないことは幸福をもたらし、また最上の健康ももたらす。身体の健康によって、彼は再び繁栄を得る。
12.234.5
यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः ।
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥ १२.२३४.५ ॥
愛しい息子よ、善性の振る舞いを取る賢者には、権勢と堅忍と、行いにおける確固たる努力が備わる。
12.234.6
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
बलिवासवसंवादं पुनरेव युधिष्ठिर ॥ १२.२३४.६ ॥
ここでこの古い伝承、バリとヴァーサヴァ(インドラ)の対話を語り継ぐ。ユディシュティラよ、再びそれである。
12.234.7
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ।
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥ १२.२३४.७ ॥
神々とアスラの戦いが終わり、ダイティヤとダーナヴァが滅ぼされ、ヴィシュヌの歩みによって諸世界が覆われ、百祭を行う神々の王インドラが支配していたとき、
12.234.8
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते ।
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि ॥ १२.२३४.८ ॥
神々が供犠によって崇拝され、四種姓の秩序が確立され、三界が繁栄し、自生神(ブラフマー)が喜んでいたとき、
12.234.9
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ।
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥ १२.२३४.९ ॥
主(インドラ)は、ルドラ、ヴァス、アーディティヤ、二人のアシュヴィン、仙人、ガンダルヴァ、蛇王、シッダ、その他の者たちに囲まれ、
12.234.10
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् ।
आरुह्यैरावणं शक्रस्त्रैलोक्यमनुसंययौ ॥ १२.२३४.१० ॥
四本の牙を持つ、よく調教された、輝きに飾られた象の王アイラーヴァタに乗り、シャクラ(インドラ)は三界を巡った。
12.234.11
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे ।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥ १२.२३४.११ ॥
ある時、海辺のある山の洞窟にヴァイローチャナの子バリを見つけ、雷霆を持つ者(インドラ)は彼に近づいた。
12.234.12
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् ।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥ १२.२३४.१२ ॥
アイラーヴァタの頭上に立ち、神々の群れに囲まれた神々の王インドラを見ても、ダイティヤの王(バリ)は悲しまず、動揺もしなかった。
12.234.13
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् ।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥ १२.२३४.१३ ॥
動じることなく恐れもせず立つ彼を見て、最良の象に乗ったシャタクラトゥ(インドラ)はバリにこう語った。
12.234.14
दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया ।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥ १२.२३४.१४ ॥
ダイティヤよ!勇気によるのか、年長者への奉仕によるのか、あるいは苦行によって熟したからか、お前は苦しまない——それはどう考えても極めて困難なことだ。
12.234.15
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् ।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥ १२.२३४.१५ ॥
敵に支配され、最高の地位から落ちた者よ、ヴァイローチャナよ!何を頼みとして、悲しむべきことを悲しまないのか?
12.234.16
श्रैष्ट्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् ।
हृतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥ १२.२३४.१६ ॥
同族の中で至高の地位を得て最上の享楽を味わった者が、今は宝と王国を奪われた。言え、なぜ嘆かないのか。
12.234.17
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे ।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥ १२.२३४.१७ ॥
かつてお前は父祖の地位にあって主であった。今その地位を敵に奪われるのを見て、なぜ嘆かないのか。
12.234.18
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः ।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥ १२.२३४.१८ ॥
ヴァルナの縄に縛られ、金剛杵に打たれ、妻と財宝を奪われた者よ、言え、なぜ嘆かないのか。
12.234.19
नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् ।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥ १२.२३४.१९ ॥
栄光は失われ、富貴は去ったのに、そのような苦境を嘆かないのか。三界の王権が失われたなら、ほかに誰が生き長らえようと思うだろうか。
12.234.20
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् ।
श्रुत्वा दुःखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥ १२.२३४.२० ॥
彼がこれや他の荒々しい言葉で侮辱するのを聞いても、苦痛に動じず、ヴィローチャナの子バリは語った。
12.234.21
निगृहीते मयि भृशं शक्र किं कत्थितेन ते ।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ॥ १२.२३४.२१ ॥
シャクラよ、私がこれほど固く捕らえられている時、お前の自慢に何の意味があるのか。プランダラよ、雷撃を振り上げて立つお前が見えている。
12.234.22
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः ।
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति ॥ १२.२३४.२२ ॥
以前お前は無力だったが、どうにかして力を得た。お前以外に、このように非常に残酷な言葉を言う資格のある者がいようか。
12.234.23
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् ।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥ १२.२३४.२३ ॥
敵が支配下にあり、自分に力があっても慈悲を示し、手中に落ちた勇士にさえ慈悲をかける者を、人々は真の男子と知る。
12.234.24
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः ।
एकः प्राप्नोति विजयमेकश्चैव पराजयम् ॥ १२.२३४.२४ ॥
戦いにおいては、争う二者に確かなことはない。一方は勝利を得、他方は敗北する。
12.234.25
मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे ।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥ १२.२३४.२५ ॥
ダーナヴァの中の雄牛よ、私に対してそのような心を持ってはならない。すべての存在の主を武勇と力で征服したと思ってはならない。
12.234.26
नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया ।
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम् ॥ १२.२३४.२६ ॥
シャクラよ、これは我々がしたことではない。シャクラよ、これは君がしたことでもない。雷杖を持つ者よ、君がこうなったのも、我々がこうなったのも。
12.234.27
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम् ।
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥ १२.२३४.२७ ॥
かつて私であったように、今日は君がそうなるのだ。君が今あるように、我々もそうなるだろう。私が行った悪い行いを軽んじてはならない。
12.234.28
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति ।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥ १२.२३४.२८ ॥
人は苦楽を交互に得る。シャクラよ、君はシャクラの地位を交互に得たのであって、行為によってではない。
12.234.29
कालः काले नयति मां त्वां च कालो नयत्ययम् ।
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥ १२.२३४.२९ ॥
時は時に応じて私を連れ去り、この時はまた君をも連れ去る。ゆえに私は今日もはや以前の私ではなく、君も以前の君ではなく、我々も以前の我々ではない。
12.234.30
न मातृपितृशुश्रूषा न च दैवतपूजनम् ।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥ १२.२३४.३० ॥
父母に仕えること、神々を祀ること、その他の善徳ある振る舞いも、人に幸福をもたらすとは限らない。
12.234.31
न विद्या न तपो दानं न मित्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ १२.२३४.३१ ॥
学問も苦行も布施も友も親族も、時に苦しめられた人を救うことはできない。
12.234.32
नागामिनमनर्थं हि प्रतिघातशतैरपि ।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥ १२.२३४.३२ ॥
迫りくる災厄は、百の対策を講じても、知恵の力によらなければ防げない。
12.234.33
पर्यायैर्हन्यमानानां परित्राता न विद्यते ।
इदं तु दुःखं यच्छक्र कर्ताऽहमिति मन्यसे ॥ १२.२३४.३३ ॥
次々と打ち倒される者たちに守り手はいない。インドラよ、「私が行為者だ」とお前が思うこと、それこそが苦しみなのだ。
12.234.34
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन ।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताऽप्यनीश्वरः ॥ १२.२३४.३४ ॥
もし行為者が真に行為者であったなら、彼は決して行為させられることはないだろう。しかし行為者もまた行為させられるのだから、行為者もまた自在ではない。
12.234.35
कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया ।
गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥ १२.२३४.३५ ॥
時によって私はお前に勝ち、時によってお前は私に敗れた。時は動くものの行き着く先であり、時は衆生を数え上げる。
12.234.36
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे ।
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥ १२.२३४.३६ ॥
インドラよ、凡庸な知恵でたわ言を言うお前には理解できない。お前は自らの行いによって至高の地位を得たので、多くの者がお前を敬っている。
12.234.37
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः ।
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथविभ्रमेत् ॥ १२.२३४.३७ ॥
世の成り行きを知る我々のような者が、時に打たれたとき、どうして嘆き、迷い、惑うことがあろうか。
12.234.38
कथं कालपरीतस्य मम वा मद्विधस्य वा ।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥ १२.२३४.३८ ॥
時に捕らえられた私のような者の知恵は、災いに遭うと、壊れた舟のようにどうして沈んでしまうのか。
12.234.39
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः ।
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥ १२.२३४.३९ ॥
私も、君も、これから神々の主となる者たちも、皆、帝釈天よ、幾百のインドラが歩んだ道を行くのだ。
12.234.40
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया ।
काले परिणते कालः कलयिष्यति मामिव ॥ १२.२३४.४० ॥
最高の光輝に燃え、打ち破りがたいお前さえも、時が熟すれば、私にしたように時は汝を捕らえるだろう。
12.234.41
बहूनीन्द्रसहस्राणि दैवतानां युगे युगे ।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥ १२.२३४.४१ ॥
神々の幾つもの時代ごとに、幾千ものインドラが時によって過ぎ去った。時は越えがたいのだから。
12.234.42
इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे ।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥ १२.२३४.४२ ॥
だがこの地位を得て、お前は自らを、万物の源である永遠の神ブラフマーのように大いに思い上がっている。
12.234.43
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित् ।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥ १२.२३४.४३ ॥
この地位は不変でも、誰にとっても無限でもない。それなのに幼稚な知恵で、お前は「これは私のものだ」と思っている。
12.234.44
अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम् ।
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर ॥ १२.२३४.४४ ॥
信用できないものを信じ、不安定なものを確かだと思う。神々の主よ、時に囚われた自己は常にこのようになる。
12.234.45
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ।
नेयं तव न चास्माकं न चान्येषां स्थिरा मता ॥ १२.२३४.४५ ॥
迷いから、お前は王の栄華を望み、「これは私のものだ」と思っている。それはお前のものでも、我々のものでも、他の誰のものでも、確かなものとは見なされない。
12.234.46
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता ।
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ॥ १२.२३४.४६ ॥
多くの他者を通り過ぎて、これまでお前のもとに来た。ヴァーサヴァよ、しばらくお前のもとに留まったこの移ろいやすいもの(また去るだろう)。
12.234.47
गौर्निवासमिवोत्सृज्य पुनरन्यं गमिष्यति ।
सुरेशा ये ह्यतिक्रान्तास्तान्न संख्यातुमुत्सहे ॥ १२.२३४.४७ ॥
雌牛が住処を離れて別の所へ行くように、これもまた別の者のもとへ去るだろう。過ぎ去った神々の主たちは、数えることさえできない。
12.234.48
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ।
सवृक्षौषधिगुल्मेयं ससरित्पर्वताकरा ॥ १२.२३४.४८ ॥
プランダラよ、お前よりずっと多くの他の者たちが現れるだろう。樹木・薬草・灌木とともに、河・山・鉱山とともに、この大地は(存続するだろう)。
12.234.49
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही ।
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा ॥ १२.२३४.४९ ॥
かつてこの大地を享受した者たち、今の私には見えない——ヴァイ、イラーの子プリトゥ、マヤ、ビーマ、ナラカ、そしてシャンバラも。
12.234.50
अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः ।
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ॥ १२.२३४.५० ॥
アシュヴァグリーヴァ、プローマン、無量の光輝のスヴァルバーヌ;プラフラーダ、ナムチ、ダクシャ、ヴィプラチッティ、ヴィローチャナ。
12.234.51
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ।
सत्येषुर्ऋषभो बाहुः कपिलाश्वो निरूपकः ॥ १२.२३४.५१ ॥
フリーニシェーヴァ、スホートラ、ブーリハー、プシュパヴァーン、ヴリシャ、サティェーシュ、リシャバ、バーフ、カピラーシュヴァ、ニルーパカ。
12.234.52
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः ।
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः ॥ १२.२३४.५२ ॥
バーナ、カールタスヴァラ、ヴァフニ、ヴィシュヴァダンシュトラ、ナイルリティ、サンコーカ、ヴァリータークシャ、ヴァラーハーシュヴァ、ルチプラバ。
12.234.53
विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः ।
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ॥ १२.२३४.५३ ॥
ヴィシュヴァジット、プラティルーパ、ヴリシャーンダ、ヴィシュカラ、マドゥ、ヒラニヤカシプ、そしてダーナヴァのカイータバ。
12.234.54
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह ।
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये ॥ १२.२३४.५४ ॥
ダイティヤとダーナヴァ、彼らは皆ナイルリタたちと共にあり、これら及び他の多くの、先の者そしてさらに先の者たち。
12.234.55
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम् ।
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ॥ १२.२३४.५५ ॥
ダイティヤの王たちとダーナヴァの王たち、そして我々が伝え聞いた他の者たち――古の多くのダイティヤの王たちは大地を捨てて去った。
12.234.56
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ।
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ॥ १२.२३४.५६ ॥
彼らはみな時によって打ち倒された。時こそ実に最も強力だからである。百の祭祀で供養されても、お前ひとりがシャタクラトゥ(百祭者)なのではない。
12.234.57
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ।
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ॥ १२.२३४.५७ ॥
彼らはみなダルマに専心し、みな絶えずサットラ祭を行い、みな空を行き、みな正面から戦う戦士であった。
12.234.58
सर्वे संहननोपेताः सर्वे परिघबाहवः ।
सर्वे मायाशतधराः सर्वे ते कामरूपिणः।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥ १२.२३४.५८ ॥
彼らはみな堅固な体を持ち、腕は鉄棒のようであった。みな百の幻術を身につけ、望む姿をとることができた。戦いに臨んでも、敗れたという話は聞かれない。
12.234.59
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ।
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः ॥ १२.२३४.५९ ॥
彼らはみな真実の誓いに専心し、思いのままに遊行した。みなヴェーダの誓いに専心し、そしてみな実に博学であった。
12.234.60
सर्वे संमतमैश्वर्यमीश्वराः प्रतिपेदिरे ।
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ॥ १२.२३४.६० ॥
彼らはみな主として公認された王権を得た。そしてその大いなる魂の者たちには、権力の酔いがかつて存在しなかった。
12.234.61
सर्वे यथार्हदातारः सर्वे विगतमत्सराः ।
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे ॥ १२.२३४.६१ ॥
皆ふさわしく施しをし、皆ねたみを離れていた。皆すべての生きものに対して正しく振る舞った。
12.234.62
सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः ।
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ॥ १२.२३४.६२ ॥
ダクシャの娘たちの息子たちは皆、プラジャーパティの子孫で、大力があり、輝き燃えていたが、時によって引き取られた。
12.234.63
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः ।
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥ १२.२३४.६३ ॥
お前もまた、この大地を享受した後に再びそれを捨てるとき、シャクラよ、自分の悲しみを抑えることはできまい。
12.234.64
मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम् ।
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि ॥ १२.२३४.६४ ॥
欲望の快楽への渇望を捨てよ。繁栄から生じるこの慢心を捨てよ。こうして自らの王国を失ったとき、お前は悲しみに耐えられるであろう。
12.234.65
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ।
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय ॥ १२.२३४.६५ ॥
悲しみのときに悲しむな、喜びのときに喜ぶな。過去と未来を捨てて、現在において生きよ。
12.234.66
मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः ।
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति ॥ १२.२३४.६६ ॥
もし時が私に近づいたなら、常に注意深く、倦むことなくあれ。耐え忍べ。インドラよ、それは遠からずお前にも訪れるであろう。
12.234.67
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह ।
संयते मयि ननं त्वमात्मानं बहु मन्यसे ॥ १२.२३४.६७ ॥
神々の主よ、あたかも私を脅すかのように、ここで言葉によって私を切りつけている。自制している私の前で、きっとお前は自分を大いなる者と思っているのだ。
12.234.68
कालः प्रथममायान्मां पञ्चात्त्वामनुधावति ।
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥ १२.२३४.६८ ॥
時は先に私のところへ来た。その後、お前を追いかけている。だから神々の主よ、時によって先に打たれた私に、お前は吠えているのだ。
12.234.69
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे ।
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥ १२.२३४.६९ ॥
戦いで怒った私の前に、世界で誰が立ちこたえられようか。しかし時は強大であり、すでに到来した。だからヴァーサヴァよ、お前は立っているのだ。
12.234.70
यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति ।
यथा मे सर्वगात्राणि न सुस्थानि महौजसः ॥ १२.२३४.७० ॥
千年の終わりに速やかに来るべきものが来たのだ。偉大な力を持つ私の全身はもはや無事ではないのだから。
12.234.71
अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि ।
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः ॥ १२.२३४.७१ ॥
私はインドラの座から落ちた。お前は天界でインドラとして立てられた。美しき者よ、この生ける者の世界では、時の移り変わりこそが崇拝されるべきものなのだ。
12.234.72
किं हि कृत्वा स्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः ।
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥ १२.२३४.७२ ॥
今日インドラは何をして自らの座を得たのか、あるいは我々は何をして落ちたのか。時こそが作る者であり壊す者であり、他のすべては原因なきものである。
12.234.73
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ ।
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥ १२.२३४.७३ ॥
滅、完全な破滅、権勢、苦と楽、生と非生——このようにそれらを得た賢者は、過度に喜ばず、また悲しんではならない。
12.234.74
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ।
किं कत्थसे मां किंच त्वं कालेन निरपत्रयः ॥ १२.२३४.७४ ॥
インドラよ、お前こそ我らを知っている。ヴァーサヴァよ、私もお前を知っている。なぜ私の前で誇るのか。時によって、お前もまた辱められたではないか。
12.234.75
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ।
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥ १२.२३४.७५ ॥
お前自身は以前、あの時の私の男らしい力と、戦場で示した勇武を知っている。その証拠で十分である。
12.234.76
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह ।
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते ॥ १२.२३४.७६ ॥
アーディティヤ神群とルドラ神群、サーディヤ神群とヴァス神群は、かつて私によって打ち負かされた。シャチーの主よ、マルトの神々もまた。
12.234.77
त्वमेव शक्र जानासि देवासुरसमागमे ।
समेता विबुधा भग्नास्तरसा समरे मया ॥ १२.२३४.७७ ॥
シャクラよ、神々とアスラの合戦で集まった神々が、戦場において私によって速やかに打ち破られたことを、お前こそ知っている。
12.234.78
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ।
सशृङ्गशिखरा भग्नाः समरे मूर्ध्निं ते मया ॥ १२.२३४.७८ ॥
山々もまた幾度も投げ飛ばされた。森とそこに住む者たちとともに、峰と頂とともに。戦いにおいて、それらは私によってお前の頭上で砕かれた。
12.234.79
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः ।
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥ १२.२३४.७९ ॥
私に何ができようか。時間は乗り越えがたい。金剛杵を持っていても、拳でおまえを打つ気は起きない。
12.234.80
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया ॥ १२.२३४.८० ॥
今は武勇の時ではなく、忍耐の時が来た。ゆえに、シャクラよ、私はおまえを耐え忍ぶ。おまえによって耐えることはさらに難しいが。
12.234.81
तं मां परिणते काले परीतं कालवह्निना ।
नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥ १२.२३४.८१ ॥
時が熟したとき、私は時の炎に囲まれ、時の綱に確かに縛られている。それでもおまえは誇る、シャクラよ。
12.234.82
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ।
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥ १२.२३४.८२ ॥
これこそあの黒き者、世界にとって超えがたい者。猛々しき彼は私を縛り上げ、綱で獣を縛るように立っている。
12.234.83
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ।
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते ॥ १२.२३४.८३ ॥
利益と損失、快楽と苦痛、欲望と怒り、有と無、死と束縛からの解放 — すべては時によって得られる。
12.234.84
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।
सोयं पचति कालो मां वृक्षे फलमिवागतम् ॥ १२.२३४.८४ ॥
私が行為者ではなく、おまえも行為者ではない。常に主である者こそが行為者である。この時が、木に実った果実のように私を熟させている。
12.234.85
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते ।
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ॥ १२.२३४.८५ ॥
人が行う行為によって、時至れば人は楽しみと結ばれ、またその同じ行為を行えば、時至れば苦しみと結ばれる。
12.234.86
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ।
तेन शक्र न शोचामि नास्ति शोके सहायता ॥ १२.२३४.८६ ॥
時を知る者は、時に触れられても嘆くに値しない。ゆえに、シャクラよ、私は嘆かない。嘆きには助けがない。
12.234.87
यदा हि शोचतः शोको व्यसनं नाषकर्षति ।
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि ॥ १२.२३४.८७ ॥
嘆く者の嘆きが災いを遠ざけず、嘆く者に力もないとき、ゆえに私は今日嘆かない。
12.234.88
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः ।
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ॥ १२.२३४.८८ ॥
このように言われ、千眼の尊きパーカシャーサナ、百祀のインドラは怒りを抑えて、このように語った。
12.234.89
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ।
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥ १२.२३४.८९ ॥
金剛杵を掲げた腕とヴァルナの縄を見ても、死神さえも殺そうとしているこの場で、誰の心が乱れないだろうか。
12.234.90
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
व्रुवन्न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम ॥ १२.२३४.९० ॥
真理を見通す、あなたの不動の智慧は乱れていない。真の勇者よ、今日語っている間も、あなたは堅忍によって動揺していない。
12.234.91
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् ।
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् ॥ १२.२३४.९१ ॥
世界が去ろうとしているのを見て、肉体を持つどの者が富やこの身体に信頼を置く勇気があるだろうか。
12.234.92
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ।
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥ १२.२३४.९२ ॥
私もまた、この世界が無常であることを知っている。それは恐ろしく、秘められ、常に動き、不滅の時のアグニに置かれているのだ。
12.234.93
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ।
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥ १२.२३४.९३ ॥
時に触れられた者には、ここで逃れる道はない。成熟しつつある微細なものにも偉大なものにも、それはない。
12.234.94
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ।
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ १२.२३४.९४ ॥
無力で慎重であっても、衆生を常に熟させる、止むことのない時の滅びに達した者は解放されない。
12.234.95
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ।
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित् ॥ १२.२३४.९५ ॥
時は油断なく、怠る有身の者どもの間で目覚めている。努力しても、そこから逃れた者は誰も見たことがない。
12.234.96
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ।
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥ १२.२३४.९६ ॥
これは古き永遠の法である。時はすべての生きものに等しく、避けることはできず、そこから逸脱することもない。
12.234.97
अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः ।
संपीडयति यः कालो वृद्धिं वार्धुपिको यथा ॥ १२.२३४.९७ ॥
昼と夜、月、刹那、カーシュṭhā、ラヴァ、カラーを押しつぶす時間は、利息を増やしていく高利貸しのようである。
12.234.98
इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम् ।
कालो हरति संप्राप्तो नदीवेग इव द्रुमम् ॥ १२.२३४.९८ ॥
時が到来すると、『今日はこれをしよう、明日はあれをしよう』と言う者を、川の激流が木を押し流すように奪い去る。
12.234.99
इदानीं तावदेवासौ मया दृष्टः कथं मृतः ।
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥ १२.२३४.९९ ॥
「ついさっき私は彼を見たのに、どうして死んだのか」——そのような嘆きが人々の間で聞こえる。時が彼を連れ去るがよい。
12.234.100
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ।
जीवितं जीवलोकस्य कालेनागम्य नीयते ॥ १२.२३४.१०० ॥
富は滅び、享楽も、地位も、権勢も同様である。そして生ある世界の命も、時が来れば連れ去られる。
12.234.101
उच्छ्राया विनिपातान्ता भावोऽभावः स एव च ।
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ॥ १२.२३४.१०१ ॥
昇りの果ては落ちることであり、有と無もまた同じである。すべては無常で不安定であり、決意を成し遂げることは実に難しい。
12.234.102
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
अहमासं पुरा चेति मनसाऽपि न बुद्ध्यते ॥ १२.२३४.१०२ ॥
真理を見通し、揺るがぬあなたの知性は動揺しない。「私は以前にいた」という思いさえ、心に浮かばない。
12.234.103
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा ।
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते ॥ १२.२३४.१०३ ॥
この世界で時に捕らえられ、より強大なものに煮られ、年長も年少も区別なく投げ捨てられているのに、(生き物は)気づかない。
12.234.104
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ।
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥ १२.२३४.१०४ ॥
嫉妬、慢心、貪欲、欲望、怒り、恐れ、そして渇望、迷妄、慢心に執着した世界は迷い惑う。
12.234.105
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः ।
कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥ १२.२३४.१०५ ॥
あなたこそ、存在の真理を知り、知識と苦行を備えた賢者です。掌の上のアーマラカの実のように、時をはっきりと見ておられます。
12.234.106
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ।
वैरोचते कृतार्थोऽसि स्पृहणीयो विजानताम् ॥ १२.२३४.१०६ ॥
時の運行の真理に通じ、すべての聖典に秀でたあなたは輝いている。目的を成し遂げ、知る人々に羨まれる。
12.234.107
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ।
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि ॥ १२.२३४.१०७ ॥
この全世界を、あなたは知性によって余すところなく把握したと私は思う。あらゆる面で解脱して歩み、どこにあっても悲しまない。
12.234.108
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम् ।
निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे ॥ १२.२३४.१०८ ॥
激情と闇はあなたに触れない。感覚を制した者だからである。あなたは執着なく苦悩の消えた自己を崇めている。
12.234.109
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ।
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः ॥ १२.२३४.१०९ ॥
すべての生き物の友であり、敵意なく、心穏やかなあなたを見て、私の心にはあなたへの憐れみが生じた。
12.234.110
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धनैः ।
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि ॥ १२.२३४.११० ॥
このような覚者を、私は縛めによって殺したくはない。非残虐こそ最高の法であり、私はあなたに憐れみを抱いている。
12.234.111
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ।
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर ॥ १२.२३४.१११ ॥
あなたを縛るヴァルナの縄は、時の移ろいとともに解かれるだろう。民に仕えることで幸いがあらんことを、おお偉大なアスラよ。
12.234.112
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ।
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥ १२.२३४.११२ ॥
嫁が年老いた姑に仕えさせ、息子が迷いから父を仕事へ遣わすとき。
12.234.113
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥ १२.२३४.११३ ॥
卑しい者どもはバラモンに足を洗わせ、恐れを知らぬシュードラはバラモンの女を妻として近づくだろう。
12.234.114
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा यदा ।
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः ॥ १२.२३४.११४ ॥
人々が不適切な胎に種を蒔き、種姓を混ぜ、青銅の器や不相応な器で供犠を捧げるとき。
12.234.115
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति ।
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते ॥ १२.२३४.११५ ॥
四つの種姓がすべて節度を失うとき、お前の束縛は一つずつ順に解かれるであろう。
12.234.116
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय ।
सुखी भव निराबाधः स्वस्थचेता निरामयः ॥ १२.२३४.११६ ॥
我々からお前が恐れることはない。時を待て。幸せで、障りなく、心安らかで、病なく過ごせ。
12.234.117
तमेवमुक्त्वा भगवाञ्छतक्रतुः ।
प्रतिप्रयातो गजराजवाहनः।
विजित्य सर्वानसुरान्सुराधिपो ।
ननन्द हर्षेण बभूव चैकराट् ॥ १२.२३४.११७ ॥
彼にこう告げて、尊き百祭(インドラ)は象王に乗って去った。すべてのアスラを征服した神々の主は喜びに満ち、唯一の王となった。
12.234.118
महर्षयस्तुष्टुवुरञ्जसा च तं ।
वृषाकर्पि सर्वचराचरेश्वरम्।
हिमापहो हव्यमुवाह चाध्वरे ।
तथाऽमृतं चार्पितमीश्वरोऽपि हि ॥ १२.२३४.११८ ॥
偉大な聖仙たちは、動くものと動かぬもの一切の主なるヴリシャーカピを、定めのごとくに讃えた。冷気を払う者は供犠で供物を運び、同じく主もまた甘露を捧げた。
12.234.119
द्विजोत्तमैः सर्वगतैरभिष्टुतो ।
विदीप्ततेजाः शतमन्युरीश्वरः।
प्रशान्तचेता मुदितः स्वमालयं ।
त्रिविष्टपं प्राप्य मुमोद वासवः ॥ १२.२३४.११९ ॥
再生族の最勝者たちに讃えられ、遍く行き渡り、燃えるような輝きの主シャタマニュは、心安らかに喜び、自らの住処である三天界に至って歓喜した。ヴァーサヴァはそのように喜んだ。