Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.235

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.235.1

पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः ।
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह ॥ १२.२३५.१ ॥

大王,祖父啊,请告诉我那将要兴盛或将要失败之人的先兆。

12.235.2

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ १२.२३५.२ ॥

人的心意本身就显示未来的先兆。愿你吉祥;它同样也显示不会到来之事。

12.235.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥ १२.२३५.३ ॥

此处人们也讲述这个古老的故事——因陀罗与吉祥天女的对话。尊者,请听,坚战。

12.235.4

महतस्तपसो व्यष्ट्या पश्यँल्लोकौ परावरौ ।
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥ १२.२३५.४ ॥

凭借伟大的苦行之力,他观看高下诸界,与居住在梵界的仙人平等同行。

12.235.5

ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः ।
विचचार यथाकालं त्रिषु लोकेषु नारदः ॥ १२.२३५.५ ॥

那罗陀如梵天一般,光辉与力量无量,罪业已息,是大苦行者,按时在三界中游行。

12.235.6

कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि ।
ध्रुवद्वारभवां गङ्गां जगामावततार च ॥ १२.२३५.६ ॥

有一天清晨起身,想在洁净的水中沐浴,他前往从北极星之门生出的恒河,并走入其中。

12.235.7

मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् ।
स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान् ॥ १२.२३५.७ ॥

他望着从须弥山脚涌出、从那罗延之足坠落的恒河,心怀喜悦地走向那个地方。

12.235.8

यं…देवजवाकीर्णं सूक्ष्मकाञ्जनवालुकम् ।
गङ्गाद्वीपं समासाद्य नानावृक्षैरलङ्कृतम् ॥ १२.२३५.८ ॥

抵达恒河岛屿——那里铺满……天界的……,细软金沙,装饰着各种树木。

12.235.9

सालतालाश्वकर्णानां चन्दनानां च राजिभिः ।
मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम् ॥ १२.२३५.९ ॥

装饰着娑罗树、多罗树、马耳树和檀香树的成行树木,点缀着各色花朵,栖息着天鹅与卡兰达婆鸭。

12.235.10

नदीपुलिनमासाद्य स्नात्वा संतर्प्य देवताः ।
जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता ॥ १२.२३५.१० ॥

到达河岸,沐浴,向诸神献上祭水,正直的人沉浸于那光辉的神圣咒语中,诵念了当诵的真言。

12.235.11

सहस्रनयनश्चापि वज्री शम्बरपाकहा ।
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥ १२.२३५.११ ॥

千眼者、执金刚者、诛杀商婆罗与波迦的因陀罗,也来到了那条为天界仙人所眷顾的河岸。

12.235.12

तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः ।
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥ १२.२३५.१२ ॥

二人克制己心,沐浴后简要持诵,来到了那细软金沙的河岸。

12.235.13

पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः ।
चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा।
पूर्ववृत्तव्यतीतानि कथयन्तौ समाहितौ ॥ १२.२३५.१३ ॥

那些由行善之人讲述、由天仙圣人叙说、由大仙人传述的故事,他二人端坐专注,讲述已逝去的往事。

12.235.14

अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् ।
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥ १२.२३५.१४ ॥

二人望见升起的太阳,光网在前,圆盘完整,便起身向它致敬。

12.235.15

विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ ।
ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति ॥ १२.२३५.१५ ॥

二人在幽静的圣地欢然相聚,望向天空中太阳升起的方向。

12.235.16

ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् ।
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ॥ १२.२३५.१६ ॥

光焰充满、群星装饰、四面升起的那太阳,仿佛又一个太阳。

12.235.17

आकाशो ददृशे ज्योतिरुद्यतार्चिः समप्रभम् ।
अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम्।
तयोः समीपं तं प्राप्तं प्रत्यदृश्यत भारत ॥ १२.२३५.१७ ॥

天空中出现一道光,火焰升腾,光辉与太阳相等。它来到二人近旁,显现出来,婆罗多啊。

12.235.18

तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम् ।
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥ १२.२३५.१८ ॥

那由金翅鸟与太阳所造、毗湿奴的居所,安住其中,以光芒无比照耀,照亮三界。

12.235.19

दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपास्थितौ ।
क्रमात्संप्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम् ॥ १२.२३५.१९ ॥

他们见那两位勇士合掌恭立在旁,便依次凝望那辆神圣而奇妙的天车。

12.235.20

तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम् ।
धात्रीं लोकस्य रमणीं लोकमातरमच्युताम् ॥ १२.२३५.२० ॥

那时在那辆天车中的,是贞洁、可爱、为众界所爱、至高吉祥、养育世界、令人喜悦、众界之母、不朽的女神。

12.235.21

दिव्याभिरुपशोभाभिरप्सरोभिः पुरस्कृताम् ।
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥ १२.२३५.२१ ॥

被身披华美装饰的天上仙女簇拥着,光辉广大如光线,宛如大日之焰。

12.235.22

नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम् ।
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम् ॥ १२.२३५.२२ ॥

她以星辰般的饰物庄严,颈上花环如星列,两人亲眼看见坐在莲花瓣上的莲花女神吉祥天。

12.235.23

साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा ।
अभ्यागच्छन्त्रिलोकेशं शक्रं चर्षि च नारदम् ॥ १२.२३५.२३ ॥

她是众女中无与伦比的,从天车前端下来,走向三界之主帝释天,以及仙人那罗陀。

12.235.24

नारदानुगतः साक्षान्मघवांस्तामुपागमत् ।
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥ १२.२३५.२४ ॥

因陀罗与那罗陀同行,亲自来到她面前;合掌向女神献上自身,恭敬陈述心意。

12.235.25

चक्रे चानुपमां पूजां तस्याश्चापि स सर्वंवित् ।
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥ १२.२३५.२५ ॥

知一切的天王向她致以无与伦比的敬礼,大王啊,他对吉祥天女说了这些话。

12.235.26

का त्वं केन च कार्येण संप्राप्ता चारुहासिनि ।
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥ १२.२३५.२६ ॥

你是谁,笑容迷人的女子?你为何事而来?美眉的女子,你从何处来,吉祥的女子,你要往何处去?

12.235.27

पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः ।
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥ १२.२३५.२७ ॥

在三界的圣地,一切动静众生都渴望获得我的自性状态,与至上自我一同努力。

12.235.28

साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते ।
भूत्यर्तं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ १२.२३५.२८ ॥

我就是那在太阳光线唤醒的莲花中诞生的女神;为了一切众生的昌盛,我是莲花女、吉祥天女、戴莲花花环者。

12.235.29

अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन ।
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥ १२.२३५.२९ ॥

我是吉祥天女(Lakṣmī),我是繁荣(Bhūti),哦斩杀波罗者,我也是吉祥(Śrī)。我是信心与智慧,谦逊、胜利与安定。

12.235.30

अहं धृतिरहं सिद्धिरहं संभूतिरेव च ।
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥ १२.२३५.३० ॥

我是坚定,我是成就,我是显现。我是斯瓦哈与斯瓦达,我是赞颂、命运与行为。

12.235.31

राज्ञां विजयमानानां सेनाग्नेषु ध्वजेषु च ।
निवसे धर्मशीलानां विषयेषु पुरेषु च ॥ १२.२३५.३१ ॥

我居于得胜诸王军队的前列与旌旗之上,也居于守法者的国土与城邑之中。

12.235.32

जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि ।
निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥ १२.२३५.३२ ॥

我居于因胜利而光辉、在战斗中不退缩的英雄之中;我常居于人主之中,哦,灭力者。

12.235.33

धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ १२.२३५.३३ ॥

在恒守法义、大智、敬重婆罗门、言语诚实、谦逊而好施之人中,我常常居住。

12.235.34

असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात् ।
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥ १२.२३५.३४ ॥

从前我因真理与法的约束而居于阿修罗之中;但知其已背离,我便愿居于你之中。

12.235.35

कथं वृत्तेषु दैत्येषु त्वमवात्सीर्वरानाने ।
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥ १२.२३५.३५ ॥

美丽面容的女神啊,你怎能居于已经堕落的达提耶之中?既然离弃了提提之子与檀那婆,你为何来到此处?

12.235.36

स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च ।
स्वर्गमार्गाभिरामेषु सत्वेषु निरता ह्यहम् ॥ १२.२३५.३६ ॥

在遵行自身法义、因坚定而不动摇、并欣喜于天界之道的众生之中,我确实专注其中。

12.235.37

दानाध्ययनयज्ञेज्यापितृदैवतपूजनम् ।
गुरूणामतिथीनां च तेषां नित्यमवर्तत ॥ १२.२३५.३७ ॥

布施、学习、祭祀与供奉,敬拜祖先与神明,照料师长与宾客——她始终如一地奉行这些。

12.235.38

सुसंमृष्टगुहाश्चासञ्जितस्त्रीका हुताग्नयः ।
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः ॥ १२.२३५.३८ ॥

他们的家中打扫得干干净净,妇女得到妥善照料;他们燃起圣火,侍奉长辈,克制自律,敬重婆罗门,言语诚实。

12.235.39

श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः ।
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥ १२.२३५.३९ ॥

信仰虔诚,战胜愤怒,乐于布施,不妒忌;供养儿子、大臣与妻子,也不心生嫉恨。

12.235.40

अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन ।
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः ॥ १२.२३५.४० ॥

坚定的人从不因愤恨而彼此觊觎,也从不因他人的兴旺而苦恼。

12.235.41

दातारः संग्रहीतार आर्याः करुणवेदिनः ।
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥ १२.२३५.४१ ॥

他们乐于施与,也乐于接受,高贵,懂得慈悲,极其仁厚,正直,信仰坚定,并能control自己的感官。

12.235.42

संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः ।
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः ॥ १२.२३५.४२ ॥

对仆人和大臣知足,懂得感恩,言语和悦,依照各人的应得给予尊敬与财物,知羞耻,持守誓愿坚定不移。

12.235.43

नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः ।
उपवासतपः शीलाः प्रतीता ब्रह्मवादिनः ॥ १२.२३५.४३ ॥

在节日里,他们总是沐浴洁净、涂抹香膏、盛装打扮;禁食与苦行是他们的习惯,他们是著名的梵语宣说者。

12.235.44

नैनानभ्युदियात्सूर्यो नैवास्वप्स्यन्प्रगेशयाः ।
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥ १२.२३५.४४ ॥

太阳不会在他们醒来之前升起,他们也不会在黎明时躺着睡觉;夜里,他们总是避免凝乳与大麦粉。

12.235.45

काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः ।
पङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन् ॥ १२.२३५.४५ ॥

早晨的澄清黄油,他们也要仔细查看后才收下;克己的梵语宣说者也照顾跛足之人,并尊敬婆罗门。

12.235.46

सदा हि ददतां धर्म्यं सदाचाप्रतिगृह्णताम् ।
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥ १२.२३५.४६ ॥

他们总是依法布施,也总是节制地不接受布施;夜里睡半夜,白天不睡。

12.235.47

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।
दयां च संविभागं च नित्यमेवान्वमोदताम्।
कालो यातः सुखेनैव धर्ममार्गे निवर्तताम् ॥ १२.२३५.४७ ॥

对于贫苦者、无依者、老人以及体弱或病弱的妇女,他们总是赞许慈悲与分享;他们的时光在法道上安乐度过,愿那些从此道转身离去者也如此。

12.235.48

त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधिपीडितम् ।
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥ १२.२३५.४८ ॥

对于惊惶的、沮丧的、烦乱的、被恐惧折磨的、被疾病困扰的、财物被夺的、被灾祸所苦的人,他们总是加以安慰。

12.235.49

धर्ममेवानुवर्तन्ते न हिंसन्ति परस्परम् ।
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥ १२.२३५.४९ ॥

他们唯遵正法,彼此不相伤害,在职责上顺从和谐,侍奉师长与长者。

12.235.50

पितॄन्देवातिथींश्चैव गुरूंश्चैवाभ्यपूजयन् ।
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः ॥ १२.२३५.५० ॥

他们始终尊敬祖先、诸神、客人与师长;以真实与苦行自持,他们总是只食用剩余之物。

12.235.51

नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् ।
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति ॥ १२.२३५.५१ ॥

有些人即便食物丰足也不食用,也不亲近他人之妻;对待一切众生,都以对待自己的慈悲之心相待。

12.235.52

नैवाकाशे न पशुषु नायोनौ च न पर्वसु ।
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन ॥ १२.२३५.५२ ॥

他们从不赞同在天空、在畜类之中、在不当之胎中,或在节日里放纵感官。

12.235.53

नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा ।
उत्साहोऽथानहकारः परमं सौहृदं क्षमा ॥ १२.२३५.५३ ॥

常常布施、精通技艺、正直、热忱、不骄慢、至诚的友善与宽恕——这些便是他们的品德。

12.235.54

सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा ।
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥ १२.२३५.५४ ॥

真实、布施、苦行、清净、慈悲、温和的言语,以及不背叛朋友——这一切都在他们之中,主啊。

12.235.55

निद्रा तन्द्रीरसंप्रीतिरसूयाऽथानवेक्षिता ।
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान् ॥ १२.२३५.५५ ॥

睡眠、懈怠、不悦、嫉妒、忽视、厌倦、忧愁与贪欲,都不曾进入他们之中。

12.235.56

साऽहमेवंगुणेष्वेव दानवेष्ववसं पुरा ।
प्रजासर्गमुपादाय यावद्गुणविपर्ययम् ॥ १२.२३५.५६ ॥

我昔日居于具有此等德性的檀那婆之中,承担众生之创造,直至这些德性发生逆转。

12.235.57

ततः कालविपर्यासे तेषां गुणविपर्ययात् ।
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम् ॥ १२.२३५.५७ ॥

其后时运颠倒,他们的德性也随之逆转,我看到法从那些心为欲望与愤怒所支配的人身上离去。

12.235.58

सभासदां च वृद्धानां सतां कथयतां कथाः ।
प्राहसन्नभ्यसूयंश्च सर्वबुद्धान्गुरून्परान् ॥ १२.२३५.५८ ॥

当座中的人、长者与善人讲述故事时,他们便嘲笑,并诽谤一切智者、师长与尊贵之人。

12.235.59

युवानश्च समासीना वृद्धानपि गतान्सतः ।
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥ १२.२३५.५९ ॥

年轻人聚坐一处,不再像从前那样起身行礼,以尊敬长者和已逝的善人。

12.235.60

वर्तयत्येव पितरि पुत्रः प्रभवते तथा ।
अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः ॥ १२.२३५.६० ॥

儿子对父亲也这样行事,便自立为主;无耻之徒沦为敌人的仆从,却公然宣扬此事。

12.235.61

तथा धर्मादपेतेन कर्मणा गर्हितेन ये ।
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा ॥ १२.२३५.६१ ॥

同样,那些背离法、以可耻之行获得大财富的人,也使他们心生渴望。

12.235.62

उच्चैश्चाभ्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् ।
पुत्राः पितृनत्यचरन्नार्यश्चात्यचरन्पतीन् ॥ १२.२३५.६२ ॥

夜里他们高声喧哗,那里的火却低低地燃烧。儿子们冒犯父亲,妻子们冒犯丈夫。

12.235.63

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥ १२.२३५.६३ ॥

他们不敬重母亲、父亲、长者、师长、客人和尊长;也不保护年幼的孩子。

12.235.64

भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते ।
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून् ॥ १२.२३५.६४ ॥

不施舍,不奉献祭品,自己便吃食物——不祭祀,不分享,不供养祖先、天神、客人和尊长。

12.235.65

न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा ।
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम् ॥ १२.२३५.६५ ॥

他们的厨师和仆役也不守清净;饮食在心、行、语上都不受约束。

12.235.66

बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः ।
एको दासो भवेत्तेषां तेषां दासीद्वयं तथा ॥ १२.२३५.६६ ॥

孩子们看着,他们却迷惑地吃着食物;其中一人为奴仆,他们还有两名婢女。

12.235.67

त्रिगवा दानवाः केचिच्चतुरोजास्तथा परे ।
षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे ॥ १२.२३५.६७ ॥

有人值三头牛,有人拥有四匹马;其他人拥有六匹马、七头象或五头水牛。

12.235.68

रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिताः ।
अन्तर्दशाहे चाश्नन्ति गवां क्षिरं विचेतनाः ॥ १२.२३५.६८ ॥

夜间他们不加节制地常吃凝乳与炒麦粉;失去理智,十日之内还吃牛奶。

12.235.69

क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते ।
अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च ॥ १२.२३५.६९ ॥

他们不按次序挤奶,小牛吮食乳房的奶。对无依无靠、可怜的妻子,他们总是殴打并咒骂。

12.235.70

शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत ।
संकीर्णानि च धान्यानि नात्यवेक्षत्कुटुंबिनी ॥ १२.२३५.७० ॥

以首陀罗之食养育的婆罗门也会变得无耻;主妇也不仔细看管混杂的谷物。

12.235.71

मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः ।
गृहे कण्टकिनो वृक्षास्तथा निष्पाववल्लरी ॥ १२.२३५.७१ ॥

人们与猫、公鸡、狗嬉戏;家中长出带刺的树和豆藤。

12.235.72

यज्ञियाश्च तथा वृक्षास्तेषामासन्दुरात्मनाम् ।
कूपस्नानरता नित्यं पर्वमैथुनगामिनः ॥ १२.२३५.७२ ॥

也有适合祭祀的树;它们属于那些邪恶之人——他们常常沉迷于井边沐浴,并在节日行房事。

12.235.73

तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते ।
विभीतककरञ्जानां छायामूलनिवासिनः ॥ १२.२३५.७३ ॥

他们夜间食芝麻,涂油而卧,居于毗毗塔迦与卡兰遮树的荫下与根旁。

12.235.74

करवीरं च ते पुष्पं धारयन्ति च मोहिताः ।
पद्मबिजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः ॥ १२.२३५.७४ ॥

他们迷惑地佩戴夹竹桃花,食用莲子,并嗅闻花朵。

12.235.75

न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः ।
निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः ॥ १२.२३५.७५ ॥

被时间迷惑的檀那婆永不会如此进食;他们诋毁对毗湿奴的赞颂,那些永久敌视他的人也是如此。

12.235.76

होमधूमो न तत्रासीद्वेदघोषस्तथैव च ।
यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहेगृहे ॥ १२.२३५.७६ ॥

那里既无供奉的烟火,也无吠陀的诵声;也不像从前那样,家家户户举行祭祀。

12.235.77

शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता ।
विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः ॥ १२.२३५.७७ ॥

师徒次第不复存在;儿子成了自己父亲的父亲。他们舍弃了婆罗门的神、主宰者毗湿奴,皈依了异端邪说。

12.235.78

हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः ।
देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा।
स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः ॥ १२.२३५.७८ ॥

他们不行供奉神与祖先之祭,缺乏智识与诵习,贪求据为己有神的财物与婆罗门的财物;到处的神庙都没有赞颂与吉祥之礼。

12.235.79

विप्रकीर्णानि धान्यानि काकमूषिकभोजनम् ।
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम् ॥ १२.२३५.७९ ॥

谷物散落四处,被乌鸦和老鼠吃掉;牛奶敞开放置,人们用沾了残渣的手去碰酥油。

12.235.80

कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभोजनम् ।
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥ १२.२३५.८० ॥

锄头、镰刀、筐子和铜制餐具全都散乱丢弃;主妇对这些器物一概不加照管。

12.235.81

प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते ।
क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः ॥ १२.२३५.८१ ॥

墙壁和房屋坍塌了,他们也不修葺;心胸狭隘、缺乏教养的女子只顾填饱自己的肚子。

12.235.82

शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः ।
उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनान्विताः।
गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः ॥ १२.२३५.८२ ॥

失去洁净与德行,无耻又被享乐所弃,双手不停地抓挠头部;那些女子又被困在家宅的罗网之中,仍留在那里。

12.235.83

श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा ।
प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः ॥ १२.२३५.८३ ॥

就在公婆面前,那些无耻的女子看待丈夫竟如看雇工一般;她们身上带着玷污家族的种种征象。

12.235.84

नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ।
बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन्।
तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः ॥ १२.२३५.८४ ॥

对拴着的牲畜,他们不在意给予草料和水;当孩子们看着时,他们自己却吃掉了食物;这样,不曾让所有仆役得到满足,他们便成了魔怪。

12.235.85

पायसं कृसरं मांसमपूपानथ शष्कुलीः ।
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन् ॥ १२.२३५.८५ ॥

他们为自己烹煮牛奶饭、克萨拉、肉、饼和油炸点心,并徒然地食肉。

12.235.86

उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः ।
आवृत्तकलहाश्चात्र दिवारात्रं गृहेगृहे ॥ १२.२३५.८६ ॥

所有人日出之后才睡,黎明时也睡;此地家家户户日夜争吵不断。

12.235.87

अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह ।
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्त परस्परम् ॥ १२.२३५.८७ ॥

卑贱之人不侍奉坐在那里的高贵之人;住在修行处的人与行为不端的人彼此相憎。

12.235.88

संकराश्चाभ्यवर्तन्त न च शौचमवर्तत ।
ये च वेदविदो विप्रा विस्पष्टमनुचश्च ये।
निरन्तरविशेषास्ते बहुमानावमानयोः ॥ १२.२३५.८८ ॥

杂种之人兴起,清净不再盛行;即使精通吠陀的婆罗门和清楚诵经的人,也不再区分荣誉与羞辱。

12.235.89

भावमाभरणं वेषं गतं स्थितमवेक्षितम् ।
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥ १२.२३५.८९ ॥

婢女们效仿恶人所行的方式,模仿他们的神态、饰物、衣着、步态、站姿和眼神。

12.235.90

स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः ।
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥ १२.२३५.९० ॥

女子穿着男装、男子穿着女装,在游戏、欢爱和嬉戏之中获得至高的欢乐。

12.235.91

प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् ।
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तः संभवेष्वपि ॥ १२.२३५.९१ ॥

往昔,强者赠予有德者的应得之份,却被因无信而行事之人所轻视,即便时机来临也是如此。

12.235.92

मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित् ।
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥ १२.२३५.९२ ॥

求取者有时依赖朋友所请之财,却因不过毫末之私利,而毁掉那份财富。

12.235.93

परस्वादानरुचयो विपणव्यवहारिणः ।
अदृश्यन्तार्यवर्णषु शृद्राश्चापि तपोधनाः ॥ १२.२३५.९३ ॥

喜好夺取他人财物、在市场上做买卖的人,竟出现在雅利安种姓之中;首陀罗也显得富于苦行。

12.235.94

अधीयतेऽव्रताः केचिद्वृथा व्रतमथापरे ।
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिप्यसखो गुरुः ॥ १२.२३५.९४ ॥

有人不守誓戒而诵读,有人徒然持戒。弟子不侍奉老师,而有的老师竟成了弟子的朋友。

12.235.95

पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव ।
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥ १२.२३५.९५ ॥

父母疲惫不堪,仿佛他们的节日已经结束;年老无力,只得向儿子们乞求食物。

12.235.96

तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः ।
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥ १२.२३५.९६ ॥

那里,通晓吠陀、深沉如大海的智者却埋首于耕作等事,而愚人却享用了祭祖仪式的食物。

12.235.97

प्रातः सायं च सुप्रश्नं कल्पनं प्रेषणक्रियाः ।
शिष्यानप्रहितास्तेषामकुर्वन्गुरवश्च ह ॥ १२.२३५.९७ ॥

清晨与黄昏,善问、准备与差遣之事,师长不派遣弟子前往,也不让弟子去做。

12.235.98

श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत ।
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति ॥ १२.२३५.९८ ॥

在公婆面前,儿媳便对仆役发号施令;她还把丈夫唤来,责备他,并与他顶嘴争辩。

12.235.99

प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता ।
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत् ॥ १२.२३५.९९ ॥

父亲虽竭力守护儿子的心意,却因愤怒而使之分裂,如此便生活在痛苦之中。

12.235.100

अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् ।
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि ॥ १२.२३५.१०० ॥

见财物为火所焚,或被盗贼、国王夺去,即便受人敬重的朋友也因嫉恨而嘲笑。

12.235.101

कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः ।
श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः ॥ १२.२३५.१०१ ॥

忘恩负义、不信神明、作恶多端、染指师母、追随岳父之人——所有儿子都抛弃了父母。

12.235.102

स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा ।
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥ १२.२३५.१०२ ॥

这样说的人:“我因自己的业而生”,喜好食用不可食之物,不守礼法,失去光彩。

12.235.103

तेष्वेवमादीनाचारानाचरत्सु विपर्यये ।
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥ १२.२३५.१०३ ॥

当他们行此种种之事而陷入颠倒之时,天神之主啊,我的主意是:我不会住在达那婆之中。

12.235.104

तन्मां स्वयमनुप्राप्ताभिनन्द शचीपते ।
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः ॥ १२.२३५.१०४ ॥

故请接纳自愿而来的我,舍制之主啊。天神之主啊,受你尊敬的我,诸天神将把我置于前列。

12.235.105

यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः ।
सप्तदेव्यो जयाष्टभ्यो वासमेष्यन्ति तेऽष्टधा ॥ १२.२३५.१०५ ॥

我在哪里,哪里便有我所爱的、被我所尊的、奉我为归的七位女神与第八位胜利女神,以八种形态前来居住。

12.235.106

आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा ।
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥ १२.२३५.१०६ ॥

希望、信心、坚定、忍耐、胜利、谦卑、宽恕,以及第八的行为:其中行为居于前列,帕迦之制伏者啊。

12.235.107

ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः ।
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥ १२.२३५.१०७ ॥

她们与我离弃阿修罗,来到你的领域;我们将住在三十三天之中,住在坚守法义的内心之中。

12.235.108

इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः ।
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः ॥ १२.२३५.१०८ ॥

如是说话的天女,为使她欢喜,大家都欢喜;此处,天仙那罗陀与杀弗栗多的伐婆,也都欢喜了。

12.235.109

ततोऽनलसखो वायुः प्रववौ देववर्त्मसु ।
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ १२.२३५.१०९ ॥

于是火神之友风吹拂于诸天之道,香气宜人,触感温柔,给予一切感官以喜悦。

12.235.110

शुचौ चाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः ।
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः ॥ १२.२३५.११० ॥

诸天神大多站立于清净而所愿之地,渴望见到与吉祥天同坐的因陀罗。

12.235.111

ततो दिवं प्राप्य सहस्रलोचनः ।
स्त्रियोपपन्नः सुहृदा महर्षिणा।
रथेन हर्यश्वयुजा सुरर्षभः ।
सदः सुराणामभिसत्कृतो ययौ ॥ १२.२३५.१११ ॥

于是,千眼者抵达天界,伴随妻子与一位大仙友人,乘坐驾着栗色骏马的战车,在诸神集会中受到尊崇,诸神之中的雄牛离去了。

12.235.112

अथेङ्गितं वज्रधरस्य नारदः ।
श्रियश्च देव्या मनसा विचारयन्।
श्रियै शशंसामरदृष्टपौरुषः ।
शिवेन तत्रागमनं महर्षिभिः ॥ १२.२३५.११२ ॥

于是,那位为诸神所见其英武的那罗陀,思量了持金刚者的示意与天女吉祥天的心意,便告诉吉祥天,说诸大仙已吉祥地来到那里。

12.235.113

ततोऽमृतं द्यौः प्रववर्ष भास्वती ।
पितामहस्यायतने स्वयंभुवः।
अनाहता दुन्दुभयोऽथ नेदिरे ।
तथा प्रसन्नाश्च दिशश्चकाशिरे ॥ १२.२३५.११३ ॥

于是,光辉的天空在自生的祖父居所降下甘露;无人击打的鼓声响起,诸方欢悦而光明。

12.235.114

यथर्तु सस्येषु ववर्ष वासवो ।
न धर्ममार्गाद्विचचाल कश्चन।
अनेकरत्नाकरभूषणा च भूः ।
सुघोषघोषाश्च दिवौकसां जये ॥ १२.२३५.११४ ॥

如同因陀罗依时节降雨于庄稼,无人偏离法之道。以众多宝藏之矿为饰的大地,以及天界居民胜利时的美妙欢呼,都响起了。

12.235.115

क्रियाभिरामा मनुजा मनस्विनो ।
बभुः शुभे पुण्यकृतां पथि स्थिताः।
नरामराः किन्नरयक्षराक्षसाः ।
समृद्धिमन्तः सुमनस्विनोऽभवन् ॥ १२.२३५.११५ ॥

乐于善行的人与有智慧的人,立于行善者吉祥的道路上而光彩夺目。人类、天神、紧那罗、夜叉与罗刹都变得繁荣而心怀喜悦。

12.235.116

न जात्वकाले कुसुमं कुतः फलं ।
पपात वृक्षात्पवनेरितादपि।
रसप्रदाः कामदुघाश्च धेनवो ।
न दारुणा वाग्विचचार कस्यचित् ॥ १२.२३५.११६ ॥

花从不在不适时节落下,更不必说果实;即便被风吹动,也不从树上坠落。有能满足心愿、给予甘美乳汁的神牛,无人口中说出过粗暴的言语。

12.235.117

इमां सपर्यां सह सर्वकामदैः ।
श्रियाश्च शक्रप्रमुखैश्च दैवतैः।
पठन्ति ये विप्रसदः समागताः ।
समृद्धकामाः श्रियमाप्नुवन्ति ते ॥ १२.२३५.११७ ॥

凡聚集于婆罗门集会中,与赐予一切愿望者、吉祥天女以及以帝释为首的诸神一同诵读此赞颂者,愿望皆得满足,并获得福运。

12.235.118

त्वया कुरूणां वर यत्प्रचोदितं ।
भवाभवस्येह परं निदर्शनम्।
तदद्य सर्वं परिकीर्तितं मया ।
परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥ १२.२३५.११८ ॥

俱卢之最优者,你在此所问的有与无的至高范例,我今日已全部宣说。现在你应当考察真理并证得它。

12.235.119

संस्मृत्य बुद्धीन्द्रियगोचरातिगं ।
स्वगोचरे सर्वकृतालयं तम्।
हरिं महापाग्रहरं जनास्ते ।
संस्मृत्य संपूज्य विधूतपापाः ॥ १२.२३५.११९ ॥

人们忆念那超越智力与感官之境、在其自身领域中作为一切行为之所、能除大罪的哈里,并加以礼拜,便能洗清罪过。

12.235.120

यमैश्च नित्यं नियमैश्च संयता ।
स्तत्वं च विष्णोः परिपश्यमानाः।
देवानुसारेण विमुक्तियोगं ।
ते गाहमानाः परमाप्नुवन्ति ॥ १२.२३५.१२० ॥

常以禁戒与律仪自制,全然观照毗湿奴之真理,依神而入解脱瑜伽,他们便得到至高之境。

12.235.121

एवं राजेन्द्र सततं जपहोमपरायणः ।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणः ॥ १२.२३५.१२१ ॥

如是,王中之王啊,你应常常专注于念诵与火祭,恒常奉事婆苏提婆,常常专心于智慧与禅定。

12.235.122

दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय ।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणान्।
विशेषेणार्चयेथास्त्वं सततं पर्युपास्व च ॥ १२.२३५.१२२ ॥

常以布施之法为乐,护持你的臣民。恒常奉事婆苏提婆;尤其要尊敬那些专心于智慧与禅定的人,并常常侍奉他们。