摩诃婆罗多 · 章 12.238
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.238.1
आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव ।
ध्यानं कर्म च कालं च तथैवायुर्युगेयुगे ॥ १२.२३८.१ ॥
俱卢之子啊,我愿知晓一切众生的始终,以及禅定、业、时间,还有每一个时代的寿命。
12.238.2
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् ।
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥ १२.२३८.२ ॥
诸世界的本性、众生的来往全貌,以及创造与毁灭——这一切从何而起?
12.238.3
भेदकं भेदतत्वं च तथाऽन्येषां मतं तथा ।
अवस्थात्रितयं चैव यादृशं च पितामह ॥ १२.२३८.३ ॥
祖父啊,能分别者与分别之理、他人的见解,以及三种状态——它们是怎样的?
12.238.4
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर ।
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥ १२.२३८.४ ॥
善人中的至上者啊,若您愿意施恩于我们,我便向您请教此事;愿您为我讲说。
12.238.5
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् ।
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥ १२.२३८.५ ॥
此前曾讲说婆里古的殊胜教导;听闻之后,我的智慧因婆罗门仙人跋罗堕阇而变得殊胜。
12.238.6
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता ।
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥ १२.२३८.६ ॥
我的智慧生起时极为笃守正法,安住于神圣的秩序之中;因此我再次请问——您是能够说明此事的人。
12.238.7
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥ १२.२३८.७ ॥
在此我将向你讲述古老的历史,那是尊贵的毗耶娑在其子询问时所歌唱的。
12.238.8
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा ।
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥ १२.२३८.८ ॥
学完所有吠陀及其支分与奥义书,因见正法的精妙而寻求守戒修行之业。
12.238.9
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः ।
पप्रच्छ संशयमिमं छिन्नधर्मार्थसंशयम् ॥ १२.२३८.९ ॥
毗耶娑·黑天·二宫之子 Śuka 询问了关于正法与利益的这一疑问。
12.238.10
भूतग्रामस्य र्क्तारं कालज्ञाने च निश्चितम् ।
ज्ञानं ब्रह्म च योगं च गवात्मकमिदं जगत् ॥ १२.२३८.१० ॥
众生的创造者,于时之知识中确定;知识、梵与瑜伽,以及此世界,具有牛之性质。
12.238.11
त्रितये त्वेनमायाति तथा ह्येषोऽपि वा पुनः ।
केनैव च विभागः स्यात्तुरीयो लक्षणैर्विना ॥ १२.२३८.११ ॥
此属于三者之内,此亦如是,或又如是。无标志,以何分第四者?
12.238.12
ज्ञानज्ञेयान्तरे कोसौ कोयं भावस्तु भेदवत् ।
यज्ज्ञानं लक्षणं चैव तेषां कर्तारमेव च।
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥ १२.२३८.१२ ॥
知与所知之间是何者?此有差别之境界是何?何为知、其相与其作者,以及婆罗门之职责,您应当宣说。
12.238.13
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते ।
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥ १२.२३८.१३ ॥
儿子问询时,父亲这位通晓过去未来、全知、精通一切法的智者,把一切都告诉了他。
12.238.14
पृच्छतस्तव सत्पुत्र यथावत्कीर्तयाम्यहम् ।
शृणुष्वावहितो भूत्वा यथाऽऽवृतमिदं जगत् ॥ १२.२३८.१४ ॥
好儿子,既然你问,我就照实为你讲述。专心听,这世界是如何被遮蔽的。
12.238.15
कार्यादि कारणान्तं यत्कार्यान्तं कारणादिकम् ।
ज्ञानं तदुभयं वित्त्वा सत्यं च परमं शुभम् ॥ १२.२३८.१५ ॥
既知那始于结果、终于原因,又始于原因、终于结果的知识,便能知晓至高吉祥的真理。
12.238.16
ब्रह्मेति चाभिविख्यातं तद्वै पश्यन्ति सूरयः ।
ब्रह्मतेजोमयं भूतं भूतकारणमद्भुतम् ॥ १२.२३८.१६ ॥
它以梵之名著称,智者能见到它。充满梵之光明,为众生之因,其性奇妙。
12.238.17
आसीदादौ ततस्त्वाहुः प्राधान्यमिति तद्विदः ।
त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः ॥ १२.२३८.१७ ॥
起初它存在;随后,通晓者称之为原初本体。那由三德构成的大幻力,他们知其为毗湿奴之自性(Vaiṣṇavī Prakṛti)。
12.238.18
तदीदृशमनाद्यन्तमव्यक्तमजरं ध्रुवम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे वैकृतं च तत् ॥ १२.२३८.१८ ॥
它就是如此:无始无终,未显现,不老,恒常,超越推理,不可知。起初即是梵,而这梵后来发生了变化。
12.238.19
तद्वै प्रधानमुद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् ।
सम्यग्योगगुणं स्वस्थं तदिच्छाक्षोभितं महत् ॥ १२.२३८.१९ ॥
此即所说的原初本质(原质,pradhāna),三重而精微,由三德构成,诸德完美结合,安住于自身;被其意愿所搅动,大(觉,mahat)便生起。
12.238.20
शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका ।
अस्वतन्त्रा च सततं विदधिष्ठानसंयुता ॥ १२.२३८.२० ॥
其本性由三种力量构成,具有因的性质,恒常不自主,并与法则(vidhi)之根基相连。
12.238.21
स्वभावाख्यं समापन्ना मोहविग्रहधारिणी ।
विविधस्यास्य जीवस्य भोगार्थं समुपागता ॥ १२.२३८.२१ ॥
取名为自性(svabhāva),身披迷惑之形,她已为这多样众生的受用而来到近前。
12.238.22
यथा संनिधिमात्रेण गन्धक्षोभाय जायते ।
मनस्तद्वदशेषस्य परात्पर इति स्मृतः ॥ १२.२३८.२२ ॥
正如仅仅靠近便能引起香气的扰动,同样,整体之心被称为超越至上者。
12.238.23
सृष्ट्वा प्रविश्य तत्तस्मिन्क्षोभयामास विष्ठितः ।
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ १२.२३८.२३ ॥
创造之后,进入其中而安住,便搅动了它;大(觉)有三种:悉多性、罗阇性与答摩性。
12.238.24
प्रधानतत्वादुद्भूतो महत्वाच्च महान्स्मृतः ।
प्रधानतत्वमुद्भूतं महत्तत्वं समावृणोत् ॥ १२.२३८.२४ ॥
因从原初本质而生起,又因其广大,它被称为大;已生起的原质遮覆了大(觉)之原理。
12.238.25
कालात्मनाऽभिभूतं तत्कालोंऽशः परमात्मनः ।
पुरुषश्चाप्रमेयात्मा स एव इति गीयते ॥ १२.२३८.२५ ॥
被时间之自性所制伏者,乃至上我之一分。而自性不可量度的补卢沙,也被称颂为同一者。
12.238.26
त्रिगुणोसौ महाज्ञातः प्रधान इति वै श्रुतिः ॥ १२.२३८.२६ ॥
此具三德者,被知为大者;天启如此称之为原初本体。
12.238.27
सात्विको राजसश्चैव तामसश्च त्रिधात्मकः ।
त्रिविधोऽयमहङ्कारो महत्तत्वादजायत ॥ १२.२३८.२७ ॥
具善、激情与暗三性,本性三重,此三重我执生于大觉原理。
12.238.28
तामसोऽसावहङ्कारो भूतादिरिति संज्ञितः ।
भूतानामादिभूतत्वाद्रक्ताहिस्तामसः स्मृतः ॥ १२.२३८.२८ ॥
此暗性我执名为原始元素之始;因其为众有之首元素,故被记为暗性,如赤蛇一般。
12.238.29
भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः ।
ससर्ज शब्दं तन्मात्रमाकाशं शब्दलक्षणम् ॥ १२.२३८.२९ ॥
原始元素于此转变,随后生出其余的细微元素:声之细微与以声为相的虚空。
12.238.30
शब्दलक्षणमाकाशं शब्दतन्मात्रमावृणोत् ।
तेन संपीड्यमानस्तु स्पर्शमात्रं ससर्ज ह ॥ १२.२३८.३० ॥
以声为相的虚空覆盖了声之细微;受其所迫,它生出了触之细微。
12.238.31
शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् ।
ससर्ज वायुस्तेनासौ पीड्यमान इति श्रुतिः ॥ १२.२३८.३१ ॥
那虚空即是纯声,它包覆了纯触;受其逼迫,它生出了风,天启如此说。
12.238.32
स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् ।
तेन संपीड्यमानस्तु ससर्जाग्निमिति श्रुतिः ॥ १२.२३८.३२ ॥
于是纯触之风包覆了纯形;受其逼迫,它生出了火,天启如此说。
12.238.33
रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् ।
तेन संपीड्यमानस्तु रसमात्रं ससर्ज ह ॥ १२.२३८.३३ ॥
于是纯形放下火而包覆之;受其逼迫,它生出了纯味。
12.238.34
रुपमात्रगतं तेजो रसमात्रं समावृणोत् ।
तेन संपीड्यमानस्तु ससर्जाम्भ इति श्रुतिः ॥ १२.२३८.३४ ॥
已入纯形的火光包覆纯味;受其逼迫,它生出了水,天启如此说。
12.238.35
रसमात्रात्मकं भूयो रसं तन्मात्रमावृणोत् ।
तेन संपीड्यमानस्तु गन्धं तन्मात्रकं ततः ॥ १२.२३८.३५ ॥
由纯味构成的水再次包覆味之微元;受其逼迫,随后生出了香之微元。
12.238.36
ससर्ज गन्धं तन्मात्रमावृणोत्करकं ततः ।
तेन संपीड्यमानस्तु काठिन्यं च ससर्ज ह ॥ १२.२३८.३६ ॥
它生出了香之微元;随后冰雹包覆了它,受其逼迫,它生出了坚硬。
12.238.37
पृथिवी जायते तस्माद्गन्धतन्मात्रजात्तथा ॥ १२.२३८.३७ ॥
由那气味的微细元素生出大地,亦复如是。
12.238.38
अम्मयं सर्वमेवेदमापस्तस्तम्भिरे पुनः ।
भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः ॥ १२.२३८.३८ ॥
此一切皆由水所成;之后水又凝固。地等诸大,皆已生起,天启如是说。
12.238.39
भूतानां मूर्तिरेवैषामन्नं चैषां मता बुधैः ।
तस्मिंस्तस्मिंस्तु तन्मात्रा तन्मात्रा इति ते स्मृताः ॥ १२.२३८.३९ ॥
诸大之形体,智者以为其食。于其中各有微细者,称为唯量(tanmātra)。
12.238.40
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ १२.२३८.४० ॥
诸根称为光明(taijasa);诸天为十种变异之物。第十一为意;此处诸天被称为变异之物。
12.238.41
एषामुद्धर्तकः कालो नानाभेदवदास्थितः ।
परमात्मा च भूतात्मा गुणभेदेन संस्थितः।
एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः ॥ १२.२३८.४१ ॥
时间为收摄者,安住于种种差别中。至上我与众生我依诸德之差别而立。唯一者分而为三,作种种业。
12.238.42
ब्रह्मा सृजति भूतानि पाति नारायणोऽव्ययः ।
रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः ॥ १२.२३८.४२ ॥
梵天创造众生,不灭的那罗延护持之,以世界为形的湿婆毁灭之。此即时间,善知诸业。
12.238.43
कालोपि तन्मयोचिन्त्यस्त्रिगुणात्मा सनातनः ।
अव्यक्तोसावचिन्त्योसौ वर्तते भिन्नलक्षणः ॥ १२.२३८.४३ ॥
时间亦由其构成:不可思议、以三德为本性、永恒。这不显现而不可思议者,以不同的相而存在。
12.238.44
कालात्मना त्विदं भिन्नमभिन्नं श्रूयते हि यत् ।
अनाद्यन्तमजं दिव्यमव्यक्तमजरं ध्रुवम्।
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे संप्रवर्तते ॥ १२.२३८.४४ ॥
以时间之性,此被听闻为既分又不分。无始无终、不生、神圣、未显、不老、恒常、超越推理、不可知的梵,于创造之初显现。
12.238.45
काष्ठा निमेषा दश पञ्च चैव ।
त्रिंशत्तु काष्ठा गणयेत्कलां ताम्।
त्रिंशत्कलश्चापि भवेन्मुहूर्तो ।
भागः कलाया दशमश्च यः स्यात् ॥ १२.२३८.४५ ॥
十五瞬为一刹那,三十刹那应计为一迦罗。三十迦罗为一牟呼多,迦罗之十分之一亦然。
12.238.46
त्रिंशन्मुहूर्तं तु भवेदहश्च ।
रात्रिश्च सङ्ख्या मुनिभिः प्रणीता।
मासः स्मृतो रात्र्यहनी च त्रिंशु ।
त्संवत्सरो द्वादशमास उक्तः ॥ १२.२३८.४६ ॥
三十牟呼多为一昼夜,此为诸仙所宣。昼夜合计三十,称为一月;十二月称为一年。
12.238.47
संवत्सरं द्वे अयने वदन्ति ।
सङ्ख्याविदो दक्षिणमुत्तरं च ॥ १२.२३८.४७ ॥
精通历法者说,一年有两个行程:南行与北行。
12.238.48
पहोरात्रौ विभजते सूर्यो मानुषलौकिकौ ।
रात्रिः स्वप्नाय संयाति चेष्टायै कर्मणामहः ॥ १२.२३८.४८ ॥
太阳划分昼与夜,二者属于人间世界。夜降临以供眠息,昼则用于行事之勤勉。
12.238.49
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी ॥ १२.२३८.४९ ॥
对祖先而言,一夜一日为一月;二者又再分:明半月为行事与勤作之日,暗半月为安眠之夜。
12.238.50
दैवे रात्र्यहनी ह्यब्दः प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १२.२३८.५० ॥
对诸神而言,一夜一日为一年;二者又再分:其中白昼为太阳北行,黑夜为太阳南行。
12.238.51
ये ते रात्र्यहनी पूर्वं कीर्तिते दैवलौकिके ।
तयोः सङ्ख्याय वर्षाग्रं ब्राह्ने वक्ष्याम्यहः क्षपे ॥ १२.२३८.५१ ॥
计算先前所说的神界与世间的昼夜之后,我将在梵天时期的昼夜中讲述岁年之始。
12.238.52
तेषां संवत्सराग्नाणि प्रवक्ष्याम्यनुपूर्वशः ।
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥ १२.२३८.५२ ॥
我将依次讲述它们岁年的开端:在克里塔时代、特雷塔时代、德瓦帕拉时代,以及同样的迦利时代。
12.238.53
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १२.२३८.५३ ॥
据说克里塔时代为四千年;其黎明为同样的数百年,其曙分亦如是。
12.238.54
इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु ।
एकापायेन संयान्ति सहस्राणि शतानि च ॥ १२.२३८.५४ ॥
在其余三个时代中,连同其黄昏与曙分,岁月以千与百计地流逝,每一时代递减一份。
12.238.55
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् ।
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ॥ १२.२३८.५५ ॥
这些支撑着永恒的世界。孩子啊,这永恒的梵为知梵者所知。
12.238.56
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युग ।
नाधर्मेणागमः कश्चिद्युगे तस्मिन्प्रवर्तते ॥ १२.२३८.५६ ॥
在圆满时代,真实本身便是四足的完整法。在那个时代,任何非法都无法进入并盛行。
12.238.57
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते ।
सत्यं शौत्रं तथायुश्च धर्मश्चापैति पादशः।
चौर्यकानृतमायाभिरधर्मश्चोपचीयते ॥ १२.२३८.५७ ॥
在其他时代,因非法的进入,法逐足减损。真实、清净、寿命,以及法,也逐足消失。因偷盗、虚妄与欺诈,非法增长。
12.238.58
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः ॥ १२.२३८.५८ ॥
在圆满时代,人们无病,诸愿皆成,寿四百岁。但在三时代,他们的寿命逐足减少。
12.238.59
वेदवादाश्चानुयुगं ह्रसन्तीतीह न श्रुतम् ।
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥ १२.२३८.५९ ॥
这里没有听说吠陀之说随着时代递减。寿命、祝福,以及吠陀之果,也都(递减)。
12.238.60
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ १२.२३८.६० ॥
圆满时代有一套法,三时代另有一套,双时代又有别的。在迦利时代有另外的法,人们依自己的能力奉行。
12.238.61
तपः परं कृतयुगे त्रेतायां सत्यमुत्तमम् ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ १२.२३८.६१ ॥
在克利塔时代,苦行最为殊胜;在特来塔时代,真实最为崇高。在德瓦帕拉时代,人们说祭祀最为重要;而在迦利时代,则唯有布施。
12.238.62
एतां द्वादशसाहस्त्रीं युगाख्यां कवयो विदुः ।
सहस्रपरिवर्तं तद्ब्राह्मं दिवसमुच्यते ॥ १२.२३८.६२ ॥
这十二千年的时段,智者称之为一个时代;由一千个这样的循环构成的,称为梵天的一日。
12.238.63
रात्रिस्तु तावती ब्राह्मी तदादौ विश्वमीश्वरः ।
प्रलयेत्मानमाविश्य सुप्त्वासोऽन्ते विबुध्यते ॥ १२.२३८.६३ ॥
梵天的夜晚同样漫长。那时,主起初以毁灭之态进入自身而沉睡;至末了,他便醒来。
12.238.64
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणे विदुः ।
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥ १२.२३८.६४ ॥
他们知道梵天那持续千个时代的白昼;那千个时代的黑夜,也为懂得昼夜的人们所知。
12.238.65
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये ।
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥ १२.२३८.६५ ॥
梵天在夜尽时醒来,以不灭之态创造;他生出大元素。由此产生了具显现本性的心意。
12.238.66
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात्तस्य शब्दे गुणो मतः ॥ १२.२३८.६६ ॥
心意受创造之欲的驱使,展开创造。由此生出虚空,其德性被认为是声音。
12.238.67
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥ १२.२३८.६७ ॥
虚空变化时,生出强大清净、遍载一切香气的风;其德被认为是触。
12.238.68
वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम् ।
रोचनं जनयेच्छुद्धं तद्रूपगुणमुच्यते ॥ १२.२३८.६८ ॥
风亦变化时,生出光耀之明;它生出清净的光,其德称为色。
12.238.69
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः ।
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥ १२.२३८.६९ ॥
光亦变化时,生出具味之性的水;由水生出承载香气的地,这称为先前诸元素的创造。
12.238.70
ब्रह्मतेजोमयं शुक्लं यस्य सर्वमिदं जगत् ।
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम् ॥ १२.२३८.७० ॥
充满梵之光辉、洁白——此整个世界皆属于他;对于已成为梵的那一位,存在静与动的二元。
12.238.71
अहर्मुखे विवुद्धं तत्सृजते विद्यया जगत् ।
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः ॥ १२.२३८.७१ ॥
日初醒来时,他以智慧创造世界;先生出大元素,迅即生出具显现本性的心。
12.238.72
अभिभूयेह चातिष्ठद्व्यसृदत्सप्त मानसान् ।
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥ १२.२३८.७२ ॥
他于此凌驾一切而立,并生出七位心生者——远行者、多方行进者,具欲望与疑惑之性。
12.238.73
मनः सृष्टिं न कुरुते चोद्यमानं सिसृक्षया ।
आकाशोजायते तस्मात्तस्य शब्दो गुणो मतः ॥ १२.२३८.७३ ॥
当心意受创造之欲驱动而不造作时,由此生出虚空(ākāśa);其德被认为是声(śabda)。
12.238.74
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ्जायते वायुस्तस्य स्पर्शगुणं विदुः ॥ १२.२३८.७४ ॥
虚空变化时,生出能携带一切香气的强劲清净之风;其德被知为触(sparśa)。
12.238.75
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् ।
रोचिष्णुर्जायते तत्र तद्रूपगुणमुच्यते ॥ १२.२३८.७५ ॥
风变化时,也生出驱除黑暗的光明之元(jyotis);其德被说为色(rūpa)。
12.238.76
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः ।
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥ १२.२३८.७६ ॥
光明变化时,也生出以味为性的水;由水生出承载香气的大地——这称为先前诸元的创造。
12.238.77
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।
तेषां यावद्गुणं यद्यत्तत्तावद्गुणकं स्मृतम् ॥ १२.२३८.७७ ॥
每一先前之元的德性依次传至后面诸元;每一元被记为具有其所有之德。
12.238.78
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रयुरनैपुणात् ।
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम् ॥ १२.२३८.७८ ॥
若有人因在水中嗅到气味而因不精通而如此说,应知此香实在地中,依托于水与风。
12.238.79
एते सप्तविधात्मानो नानावीर्याः पृथक्पृथक् ।
नाशक्नुवन्प्रजाः स्रष्टुभसमागम्य कृत्स्नशः ॥ १२.२३८.७९ ॥
这七种各具不同力量、彼此分离的自我,若不完全结合,便不能创造众生。
12.238.80
ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः ।
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥ १२.२३८.८० ॥
那些大我相互聚合结合,获得了身体作为所依,此后便称之为补卢沙(原人)。
12.238.81
श्रयणाच्छरीरी भवति मूर्तिमान्षोडशात्मकः ।
तमाविशन्ति भूतानि महान्ति सह कर्मणा ॥ १२.२३८.८१ ॥
因有所依,他成为有身、具形、十六部分者;诸大元素连同其业力进入其中。
12.238.82
सर्वभूतान्युपादाय तपसश्चरणाय हि ।
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥ १२.२३८.८२ ॥
为修苦行而摄取一切众生,那作为最初创造者的大元素,人们称之为生主(Prajāpati)。
12.238.83
स वै सृजति भूतानि स एव पुरुषः परः ।
अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ॥ १२.२३८.८३ ॥
他创造众生,他自身即是至上的原人。无生的梵天生出诸天、仙人、祖先与人类。
12.238.84
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् ।
नरकिन्नररक्षांसि वयः पशुमृगोरगान्।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ १२.२३८.८४ ॥
诸世界、河流、海洋、方位、山岳、树木、人、紧那罗、罗刹、鸟、牲畜、鹿与蛇——不灭与可灭,不动与可动,这两类。
12.238.85
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः ॥ १२.२३८.८५ ॥
他们在前一次创造中所承担的那些行为,在被再次创造时又会一次次被他们承担。
12.238.86
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृत्तानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ १२.२३८.८६ ॥
被暴力与非暴力、温和与残酷、法与非法、真与假所熏染的人,便获得那些东西;因此,那正合他的心意。
12.238.87
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव विदधात्युत ॥ १२.२३८.८७ ॥
大元素之间的多样性,感官对象与有形之物中的差异,以及众生的安排——这一切正是造物主亲自所定。
12.238.88
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः ।
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ १२.२३८.८८ ॥
一些精通行为的人说是人的努力;另一些婆罗门说是命运;而思考诸元素的人说是本性。
12.238.89
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
त्रय एतेऽपृथग्भूता अविवेकः कथंचन ॥ १२.२३८.८९ ॥
人的努力、行为与命运——依果报生起之性,这三者绝非彼此分离;将它们分开,便是无分辨之明。
12.238.90
एवमेतच्च दैवं च द्भूतं सृजते जगत् ।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥ १२.२३८.९० ॥
如此,此与命运亦然——世界由众生而被创造。安住于行为者会将此事说成分开的;安住于善性、以平等眼光观看的人,则视之为一体。
12.238.91
ततो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥ १२.२३८.९१ ॥
因此,众生至善之根本在于寂静(śama)与克制(dama)。凭借它们,人便能获得心中所愿的一切欲望。
12.238.92
तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥ १२.२३८.९२ ॥
凭苦行(tapas),他获得那使世界得以创造的境界;成为那一存在之后,他便成为一切众生的主宰。
12.238.93
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।
अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ॥ १२.२३८.९३ ॥
诸仙凭苦行日夜诵习吠陀。自在者所发之语无始无终,恒常不灭。
12.238.94
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः ।
नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ॥ १२.२३८.९४ ॥
诸仙之名,吠陀中所陈述的诸创造;众生之名与相,以及业的展开。
12.238.95
वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः ।
नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः।
शर्वर्यन्तेषु जातानामन्येभ्यो विदधात्यजः ॥ १२.२३८.९५ ॥
起初,主宰(Īśvara)即从吠陀之语中造作一切。诸仙之名与吠陀所载之创造,不生者(Aja)将之授予他者,即那些在夜末出生的众生。
12.238.96
नामभेदतपः कर्मयज्ञाख्या लोकसिद्धये ।
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥ १२.२३८.९६ ॥
名称之别、苦行、业以及所谓祭祀,皆为成就世间;然而吠陀中宣说,自我(ātman)的成就须经十个次第。
12.238.97
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः ।
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥ १२.२३८.९७ ॥
吠陀论说中由通晓吠陀者所说的深奥之义,于终局时依次第与瑜伽而被领悟。
12.238.98
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो हि देहिनः ।
आत्मसिद्धिस्तु विज्ञानाज्जहाति प्रायशो बलम् ॥ १२.२३८.९८ ॥
此由业所生之分别状态,属于受二元所缚的有身者。但我的成就借由智慧,多半舍弃其力量。
12.238.99
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १२.२३८.९९ ॥
应当知晓两种梵:声梵与上梵。精通声梵者,便能证得至上梵。
12.238.100
आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥ १२.२३८.१०० ॥
刹帝利之祭称为杀祭,吠舍之祭称为供物祭;首陀罗之祭为侍奉祭,再生者之祭为苦行祭。
12.238.101
त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे ।
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥ १२.२३८.१०१ ॥
此祭祀之规制属于特勒塔时代,而非克利塔时代。至德瓦帕拉时代,祭祀陷入混乱;迦利时代亦复如此。
12.238.102
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च ।
काम्या इष्टीः पृथक्दृष्ट्वा तपोभिस्तप एव च ॥ १२.२३८.१०२ ॥
人之法不分,见《梨俱》《娑摩》《夜柔》诸咒与为欲而行之祭各自分立,便以苦行而归于苦行。
12.238.103
त्रेतायां तु समस्ता ये प्रादुरासन्महाबलाः ।
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥ १२.२३८.१०३ ॥
在特利多时代,所有大力者一同出现,他们是一切不动与动的众生的统御者。
12.238.104
त्रेतायां संहता वेदा यज्ञा वर्णास्तथैव च ।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ १२.२३८.१०४ ॥
在特利多时代,吠陀、祭祀与种姓是统一的;但因寿命缩短,它们在德瓦帕拉时代被分裂。
12.238.105
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ।
उत्सीदन्ते सयज्ञाश्च केवला धर्मपीडिताः ॥ १२.२३८.१०५ ॥
在迦利时代,完整的吠陀有时可见,有时不可见;它们与祭祀一同衰亡,只有受法衰之苦的人留存。
12.238.106
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते ।
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥ १२.२३८.१०६ ॥
在圆满时代,婆罗门中所显现的法,安住于自制、苦行与博学之人之中。
12.238.107
स धर्मः प्रैति संयोगं यथाधर्मं युगेयुगे ।
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम् ॥ १२.२३८.१०७ ॥
那法随着时代而适当地进入其结合;安住于自身本分者的吠陀言论,依传统而有所改变。
12.238.108
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि ।
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगेयुगे ॥ १२.२३८.१०८ ॥
如同雨季中雨水生成众多动与不动的众生,法也在一个个时代中被生成。
12.238.109
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु ॥ १२.२३८.१०९ ॥
犹如四季之中,各季的标志依次以种种形态显现,那些同样的(标志)也显现于梵天、哈罗(湿婆)等之中。
12.238.110
विहितं कालनानात्वमनादिनिधनं तथा ।
कीर्तितं यत्पुरस्तात्ते तत्सूते चाति च प्रजाः ॥ १२.२३८.११० ॥
无始无终的时间之多样性是既定的;正如先前已向你宣说的那样,它生育众生,并且引导它们前行。
12.238.111
ददाति भवनस्थानं भूतानां संयमो यमः ।
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः ॥ १२.२३८.१११ ॥
约束众生的阎摩赐予它们存在之所;与二元对立相连的事物,依其自性而以多种方式运行。
12.238.112
सर्वकालक्रिया वेदाः कर्ता कार्यं क्रियाफलम् ।
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥ १२.२३८.११२ ॥
一切时间的作为、吠陀、作者、所作及业果——儿啊,你向我所问的一切,我都已为你宣说了。