Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.24.1

पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽर्थवत् ।
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत् ॥ १२.२४.१ ॥

大仙人黑·二岛衍那又对贡蒂之子无敌者说出了这些有意义的话。

12.24.2

अरण्ये वसतां तात भ्रातॄणां ते मनिस्विनाम् ।
मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥ १२.२४.२ ॥

亲爱的儿子,伟大的国王坚战啊,你那些心志高尚的兄弟住在森林时的愿望,都在那里。

12.24.3

तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः ।
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥ १२.२४.३ ॥

婆罗多族中最优秀者,愿我的大车战士们得到那些愿望。普利塔之子啊,如那呼沙之子耶耶提一样统治大地吧。

12.24.4

अरण्ये दुःखवसतिरनुभूता तपस्विभिः ।
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै ॥ १२.२४.४ ॥

苦行者们在森林里经历了苦难的居所。人中之虎啊,待苦难结束,愿他们享受幸福。

12.24.5

धर्ममर्थं च कामं च भ्रातृभिः सह भारत ।
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशांपते ॥ १२.२४.५ ॥

婆罗多之后啊,与兄弟们一同享受法、利与欲之后,人主啊,你之后便将离去。

12.24.6

अर्थिनां च पितृणां च देवतानां च भारत ।
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥ १२.२४.६ ॥

婆罗多之后啊,去偿清对求者、祖先与诸神的债务吧,贡蒂之子。之后你将升往天界。

12.24.7

सर्वमेधाश्चमेधाभ्यां यजस्व कुरुनन्दन ।
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥ १२.२४.७ ॥

库禄族的欢喜者啊,以一切祭祀与马祭行祭吧;大王,此后你将抵达至高的归宿。

12.24.8

भ्रातृंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः ।
संप्राप्तः कीर्तिमतुलां पाण्डवेय गमिष्यसि ॥ १२.२४.८ ॥

般度之子啊,你以丰厚的祭礼把诸兄弟联结于祭祀之中,获得无比的名声,然后你将前往。

12.24.9

विझस्ते पुरुषव्याघ्र वचनं कुरुसत्तम ।
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप ॥ १२.२४.९ ॥

人中之虎,库禄族中最优者,我向你说明这些话;请听,如此行事,你不会从法中堕落,大王。

12.24.10

आददानस्य विजयं विग्रहं च युधिष्ठिर ।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर ॥ १२.२४.१० ॥

坚战啊,对于接受胜利与战争的人,精通共同之法的人会使他确立,人主啊。

12.24.11

प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः ।
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा ॥ १२.२४.११ ॥

现量、比量、譬量、圣教量、义准量、传说、疑惑与决定,如是。

12.24.12

आकार इङ्गितं चैव गतिश्चेष्टा च भारत ।
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा ॥ १२.२४.१२ ॥

形相、动作、步态与举止,婆罗多啊;以及宗、因、喻、合,如是。

12.24.13

उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम् ।
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये ॥ १२.२४.१३ ॥

陈述、结论、所证之物与目的——这些被称为使众多群体明晰理解的方法。

12.24.14

प्रत्यक्षमनुमानं च सर्वेषां योनिरुच्यते ।
प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः।
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम् ॥ १२.२४.१४ ॥

直接知觉与推理被称为一切之源。知晓量智之方法的智者,能够领会刑罚之源。由无正确知识者施行的刑罚,可能反而伤害国王本人。

12.24.15

देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः ।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ॥ १२.२४.१५ ॥

国王等待适当的地点与时机而容忍盗贼,依据从经典中生出的智慧,便不会沾染罪过。

12.24.16

आदाय बलिषङ्भागं यो राष्ट्रं नाभिरक्षति ।
प्रतिगृह्णाति तत्पापं चतुर्थांशेन भूमिपः ॥ १२.२४.१६ ॥

国王取得六分之一作为赋税,却不守护国土,便承担了其中罪过的四分之一。

12.24.17

निबोध च यथाऽऽतिष्ठन्धर्मान्न च्यवते नृपः ।
निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः।
कामक्रोधावनादृत्य पितेव समदर्शनः ॥ १२.२४.१७ ॥

你要知道国王如何安住于法而不退失:遵循法典的约束,无所畏惧,不顾欲望与愤怒,像父亲一样一视同仁。

12.24.18

दैवेनाभ्याहतो राजा कर्मकाले महाद्युते ।
न साधयति यत्कर्म न तत्राहुरतिक्रमम् ॥ १२.२४.१८ ॥

光辉者啊,国王在行动之时被命运所击,未能完成其事,人们不称之为越轨。

12.24.19

तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः ।
पापैः सह न संदध्याद्राज्यं पुण्यं च कारयेत् ॥ १२.२४.१९ ॥

无论以武力还是以深思熟虑的方式,都必须制服敌人。不可与恶人结盟,应使国家保持善德。

12.24.20

शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर ।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः ॥ १२.२४.२० ॥

俱卢子啊,应尊重勇士、贵人和学者。应特别保护牲畜主和富人。

12.24.21

व्यवाहरेषु धर्मेषु योक्तव्याश्च बहुश्रुताः ।
प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः ॥ १२.२४.२१ ॥

在诉讼与职责事务中,应任用博学多闻的学者。大地的保护者啊,他们应熟知证据,并依循正义之学。

12.24.22

वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः ।
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता ॥ १२.२४.२२ ॥

国王啊,应任用通晓吠陀真义、精通逻辑之学的博学之士参与谋议与诉讼;知此道理的君主应如此行事。

12.24.23

तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या ।
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत् ॥ १२.२४.२३ ॥

以逻辑之学、法论之学与刑罚之策所成就的智慧,君王甚至能够成就三界。

12.24.24

नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्तिव ।
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः ॥ १२.२४.२४ ॥

君王啊,应任用通晓吠陀真谛者主持祭祀之事。君王啊,通晓吠陀与诸学之人,皆是善于明辨的智者。

12.24.25

आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः ।
ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः ॥ १२.२४.२५ ॥

精通探究之学(ānvīkṣikī)、三吠陀、生计之学(vārtā)与刑政之学(daṇḍanīti)的人,应当到处任用;达到智慧极致的人也应任用。

12.24.26

गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः ॥ १२.२४.२६ ॥

即使一人具备良好品德,明智的人也不应完全信任他。

12.24.27

अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः ।
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥ १२.२४.२७ ॥

无防备、骄慢、傲然、固执且好挑剔的国王会被罪过所缠,并被称为难以驾驭(durdānta)。

12.24.28

ये रक्ष्यमाणा हीयन्ते दैवेनृभ्याहता नृप ।
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्विषम् ॥ १२.२४.२८ ॥

大王啊,那些虽受守护却被天命所击而受损的人,以及被盗贼所害的人——这一切都是国王的过失。

12.24.29

सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते ।
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥ १२.२४.२९ ॥

युधिष्ठिर啊,若以人力所为之事经过周密商议、善加引导并处处完备,便没有非法(adharma)。

12.24.30

विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः ।
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥ १२.२४.३० ॥

已开始的事业有时因天命而中断,有时也因天命而成就;然而若已尽人力,罪过便不会触及国王。

12.24.31

अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् ।
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव ॥ १२.२४.३१ ॥

虎中之王啊,我在此将为你讲述这段故事:古代王仙哈耶揆婆的事迹,般度之子啊。

12.24.32

शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः ।
असहायस्य संग्रामे निर्जितस्य युधिष्ठिर ॥ १२.२४.३२ ॥

那位英雄,斩杀众敌之后,自己在战场上被杀;他的业绩从不疲倦,他在战斗中孤立无援而被击败——坚战啊。

12.24.33

यत्कर्म वै निग्रहे शात्रवाणां ।
योगश्चाग्र्यः पालने मानवानाम्।
कृत्वा कर्म प्राप्य कीर्ति स युद्धा ।
द्वाजिग्रीवो मोदते स्वर्गलोके ॥ १२.२४.३३ ॥

他的功业在于降伏敌人与保护众生,是最高的修持;在战场上完成此业、获得荣名之后,哈耶揆婆在天界欢喜。

12.24.34

संत्यक्तात्मा समरेष्वाततायी ।
शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः।
अश्वग्रीवः कर्मशीलो महात्मा ।
संसिद्धार्थो मोदते स्वर्गलोके ॥ १२.२४.३४ ॥

他在战斗中舍弃自身,与侵犯者作战,被兵器所伤,又遭盗贼杀害——这位行动坚定的大德阿什瓦格利瓦,成就其志,在天界欢喜。

12.24.35

धनुर्यूपो रशना ज्या शरः स्रु ।
क्स्रुवः खड्गो रुधिरं यत्र चाज्यम्।
रथो वेदी कामजो युद्धमग्नि ।
श्चातुर्होत्रं चतुरो वाजिमुख्याः ॥ १२.२४.३५ ॥

弓为祭柱,皮带为绳索,弓弦为线,箭为勺(sruk),木勺与长剑——血即为酥油;战车为祭坛,由欲望所生的战斗即为火;四匹良马即为四位祭司的四重祭祀。

12.24.36

हुत्वा तस्मिन्यज्ञवह्नावथारी ।
न्पापान्मुक्तो राजसिंहस्तरस्वी।
प्राणान्हुत्वा चावभृथे रणे स ।
वाजिग्रीवो मोदते देवलोके ॥ १२.२४.३६ ॥

他在那祭火中献上自己,脱离人间的罪过,这位勇猛的王中之狮,在战场上于祭祀终结的沐浴时献出生命气息,马颈者在天神之界中欢喜。

12.24.37

राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन ।
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी ।
वाजिग्रीवो मोदते देवलोके ॥ १२.२४.३७ ॥

以智慧和善政守护国土,舍弃自我,热衷祭祀,大度而睿智的马颈者,以其名声遍布诸界,在天神之界中欢喜。

12.24.38

दैवीं सिद्धिं मानुषीं दण्डनीतिं ।
योगन्यासैः पालयित्वा महीं च।
तस्माद्राजा धर्मशीलो महात्मा ।
वाजिग्रीवो मोदते देवलोके ॥ १२.२४.३८ ॥

以神圣的成就与人间的刑罚之policy,借助方法与托付之力守护大地,因此,遵守法度的大德国王马颈者,在天神之界中欢喜。

12.24.39

विद्वांस्त्यागी श्रद्दधानः कृतज्ञ ।
स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा।
मेधाविनां विदुषां संमतानां ।
तनुत्यजां लोकमाक्रम्य राजा ॥ १२.२४.३९ ॥

这位博学、慷慨、充满信心且懂得感恩的国王,离开人间,完成人间之业,抵达舍弃身体者之界,受到智者与学者的尊敬。

12.24.40

सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य ।
सम्यग्राज्यं पालयित्वा महात्मा।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे ।
वाजिग्रीवो मोदते देवलोके ॥ १२.२४.४० ॥

善得吠陀,习读论典,善治其国,使四种姓各守本分,大德的马颈在天界中欢喜。

12.24.41

जित्वा संग्रामान्पालयित्वा प्रजाश्च ।
सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्।
युक्त्या दण्डं धारयित्वा प्रजानां ।
युद्धे क्षीणे मोदते देवलोके ॥ १२.२४.४१ ॥

克敌于战,护佑臣民,饮苏摩,供养诸大婆罗门,以善巧持刑罚于民,于战中陨落者,在天界中欢喜。

12.24.42

वृत्तं यस्य श्लाघनीयं मनुष्याः ।
सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्।
स्वर्गं जित्वा वीरलोकानवाप्य ।
सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥ १२.२४.४२ ॥

其行为为人所称赞,善人与学者敬之为可尊者,这位功德名声的大德,得天界,获英雄之界,已达成就。