Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.240

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.240.1

भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया ।
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि सांप्रतम् ॥ १२.२४०.१ ॥

我已经讲述了众生之中所规定的事。现在我将告诉你婆罗门的本分。

12.240.2

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् ।
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे ॥ १२.२४०.२ ॥

从他的诞生礼起,直到施予酬金的诸仪式,直至归家(沐浴礼),应当在通晓吠陀的师长处进行。

12.240.3

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः ।
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥ १२.२४०.३ ॥

学完所有吠陀,专心侍奉师长,对诸师不再有债,通晓祭祀者应当归家。

12.240.4

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि ॥ १२.२४०.४ ॥

经师长许可,他应依照规定安住于四种生活阶段之一,直到身体解脱。

12.240.5

प्रजासर्गण दारैश्च ब्रह्मचर्येण वा पुनः ।
वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥ १२.२४०.५ ॥

或生育子嗣而与妻子同住,或修梵行,或在林中侍奉师长,或行苦行者之法。

12.240.6

गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते ।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥ १२.२४०.६ ॥

这居家之道被称为一切法的根本,因为烦恼已成熟、能自制的人,在任何地方都能成就。

12.240.7

प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः ।
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः ॥ १२.२४०.७ ॥

有子嗣、通晓吠陀、行祭祀的人,已免于三债;此后,他应以诸业得净,再往其他住期而去。

12.240.8

यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत् ।
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥ १२.२४०.८ ॥

若知大地上最为有功德之处,便当居住于彼;并在彼处努力获得权威与至上的声名。

12.240.9

तपसा वः सुमहता विद्यानां पारणेन वा ।
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥ १२.२४०.९ ॥

以大苦行、以精通诸学、以祭祀或以布施,婆罗门之名声便日益增长。

12.240.10

यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी ।
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ॥ १२.२४०.१० ॥

只要此世间带来声名的美誉尚存,人便可获得那些行善者的无尽世界。

12.240.11

अध्यापयेदधीयीत याजयेत यजेत वा ।
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन ॥ १२.२४०.११ ॥

他应当教授、学习、主持祭祀或亲自行祭;不可徒然接受布施,也不可以任何方式施舍。

12.240.12

याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत् ।
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन ॥ १२.२४०.१२ ॥

若大量财富来自为之主祭者、弟子或女方家,若为祭祀而来,便应行祭并施舍;无论如何都不可独自享用。

12.240.13

गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम् ।
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥ १२.२४०.१३ ॥

对于居家者而言,没有其他被宣说的圣地,只有此事:为诸神、仙人、祖先与师长,为老者、病人与饥饿者而施予。

12.240.14

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् ।
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि ॥ १२.२४०.१४ ॥

对于隐忍受苦而欲求生存者,应依自己的能力施予;甚至超出自己的能力,甚至从所得的财物中施予。

12.240.15

अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन ।
उच्चैः श्रवसमप्यक्षं काश्यपाय महात्मने।
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान् ॥ १२.२४०.१५ ॥

对于有德且相称的受施者,没有什么是不可施予的。补罗诃陀甚至将马王乌恰什罗瓦斯施予伟大的迦叶,然后前往诸神赞美的世界。

12.240.16

अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः ।
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥ १२.२४०.१६ ॥

如此劝请迦婆(室建罗),守誓的大愿者以自己的生命护佑婆罗门的生命,然后升入天界。

12.240.17

रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ।
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥ १२.२४०.१७ ॥

而桑克利蒂之子兰提提婆,以冷热之水施予伟大的婆悉吒,于天界之脊受到尊崇。

12.240.18

आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम् ।
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥ १२.२४०.१८ ॥

阿特雷亚将各种财富施予有德的因陀罗德鲁摩,前往那无尽的世界;那位智慧的地上之主离去了。

12.240.19

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ १२.२४०.१९ ॥

乌尸那罗之子尸毗为了一位婆罗门,献出了自己的肢体和心爱的亲生儿子,从此处前往天界的背部。

12.240.20

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥ १२.२४०.२० ॥

迦尸之王波罗檀那,将自己的双眼施给婆罗门,于此世与彼世都获得无与伦比的名声。

12.240.21

दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत् ।
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम् ॥ १२.२४०.२१ ॥

提婆伐陀施予一把神圣的八骨金伞,极其华贵,与其国土一同升往天界。

12.240.22

सांकृतिश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥ १२.२४०.२२ ॥

僧克利提与阿特雷耶,大光明者,向弟子们讲授无德之梵,便前往最上的诸界。

12.240.23

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम् ॥ १२.२४०.२३ ॥

勇猛的安巴利沙,将十一亿头牛施予婆罗门,与其国土一同升往天界。

12.240.24

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥ १२.२४०.२४ ॥

萨维特丽舍弃了神圣的耳环,遮那梅阇耶为婆罗门舍弃了身体,两人都前往至上之界。

12.240.25

सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः ।
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥ १२.२४०.२५ ॥

Vṛṣādarvi 与 Yuvanāśva 布施了一切珍宝、心爱的妻子和宜人的居所,因而到达了那个世界。

12.240.26

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ।
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वी सपत्तनाम् ॥ १२.२४०.२६ ॥

Nimi 施舍了国土,Vaideha 王与 Jāmadagnya(Paraśurāma)将大地施予婆罗门;Gaya 也连同城市施舍了大地。

12.240.27

अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत ।
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥ १२.२४०.२७ ॥

当云层不降雨时,万物的创造者 Vasiṣṭha 像造物主一样让众生得以存活。

12.240.28

करंधमस्य पुत्रस्तु मरुतो नृपतिस्तथा ।
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥ १२.२४०.२८ ॥

Karandhama 之子国王 Maruta 同样将一位少女施予 Aṅgiras,随即迅速升往天界。

12.240.29

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः ।
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥ १२.२४०.२९ ॥

般遮罗国王 Brahmadatta,智者中的最优者,将宝藏与法螺施予最杰出的再生者,从而获得了诸界。

12.240.30

राजा मित्रसहश्चापि वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ १२.२४०.३० ॥

国王 Mitrasaha 也将他心爱的 Madayantī 施予伟大的 Vasiṣṭha,并与她一同升往天界。

12.240.31

सहस्रजिच्च राजर्षिः प्राणानिंष्टान्महायशाः ।
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान् ॥ १२.२४०.३१ ॥

大名鼎鼎的王仙千胜为了婆罗门,甚至舍弃了自己心爱的生命,前往无上的世界。

12.240.32

सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ १२.२४०.३२ ॥

百光王将充满一切欲望的金色宫殿赠予武德伽罗,然后升上天界。

12.240.33

नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान् ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ १२.२४०.३३ ॥

萨尔瓦王光辉者威力强大,将王国赠予立制迦,然后前往无上的世界。

12.240.34

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥ १२.२४०.३४ ॥

王仙洛摩跋陀罗将女儿山塔嫁给鹿角仙人,于是享有无尽的一切欲望的满足。

12.240.35

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥ १२.२४०.३५ ॥

王仙摩提罗什瓦将一位细腰少女嫁给金手,然后前往诸神赞颂的世界。

12.240.36

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥ १२.२४०.३६ ॥

光辉盛大的波斯那吉特王,将十万头带着牛犊的母牛布施出去,然后前往无上的世界。

12.240.37

एते चान्ये च बहवो दानेन तपसैव च ।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ १२.२४०.३७ ॥

这些人和其他许多大德之士,凭布施与苦行,心性调伏、感官降服,已升往天界。

12.240.38

तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥ १२.२४०.३८ ॥

只要大地长存,他们的名声便会永远确立;这些人凭借布施、祭祀和生育子嗣而升上天界。