摩诃婆罗多 · 章 12.242
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.242.1
अथ चेद्रोचयेदेतदुह्यते मनसा तथा ।
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥ १२.२४२.१ ॥
若你认可此理,并以心意如此随波逐流,则有智之人虽浮沉起伏,也将得到一只筏。
12.242.2
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः ।
नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन ॥ १२.२४२.२ ॥
智者以智慧所造之筏,渡过无知之人;无知者则无论如何不能渡他人,也不能渡自己。
12.242.3
छिन्नदोषो मुनिर्योगयुक्तो युञ्जीत द्वादश ।
दशकर्मसुखानर्थानुपायापायनिष्क्रियः ॥ १२.२४२.३ ॥
已断除过失、专注于瑜伽的牟尼,应修习十二种法门,对通过十种行为而显得愉悦之物的得失保持不动。
12.242.4
चक्षुराचारसंग्राहैर्मनसा दर्शनेन च ।
यच्छेद्वाङ्भनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ॥ १२.२४२.४ ॥
应以行为的约束、以心、以见来收摄眼根;欲求最高智慧者,应以智慧收摄言语与心意。
12.242.5
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ।
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ॥ १२.२४२.५ ॥
欲求自我寂静者,应以智慧摄制自我;即使观察这些的人极为可怖。
12.242.6
यदि वा सर्ववेदज्ञो यदि वाऽप्यनृचो द्विजः ।
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ॥ १२.२४२.६ ॥
无论他是通晓一切吠陀者,还是不通《梨俱》的再生者;无论他是行法祭祀的义人,还是最大的罪人。
12.242.7
यदि वा पुरुषव्याघ्रो यदि वैक्लव्यधारणः ।
तरत्येवं महादुर्गं जरामरणसागरम् ॥ १२.२४२.७ ॥
无论他是人中之虎,还是持守坚定、不生怯弱之人,他都这样渡过衰老与死亡这片巨大而艰难的海洋。
12.242.8
एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः ।
अपि जिज्ञासमानोऽपि शब्दब्रह्माऽतिवर्तते ॥ १२.२४२.८ ॥
如此,与此瑜伽相应,最终如此,即使是渴求知识的人,也超越声音之梵。
12.242.9
धर्मोपस्थो ह्रीवरूथ उपायापायकूवरः ।
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीववन्धनः ॥ १२.२४२.९ ॥
法是它的座位,羞耻是它的甲胄,方便与失去是它的车轭杆,下行气是它的车轴,上行气是它的轭,智慧与寿命是将它与生命相系的绳索。
12.242.10
चेतनाबन्धुरश्चारुश्चाचारग्रहनेमिमान् ।
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥ १२.२४२.१० ॥
觉知是它的框架,它也很美妙;行为是它车轮的轮圈,诸根是它的把手;见与触是它的载具;嗅与听是它的牵引之物。
12.242.11
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः ।
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरः सरः ॥ १२.२४२.११ ॥
以智慧为缰绳,以一切论典为鞭策,以知识为御者,由场之知者所居,坚定,由信与自制引导于前。
12.242.12
त्यागरश्म्यनुगः क्षेम्यः शौचगो ध्यानगोतरः ।
जीवयुक्तो रथो दिव्यो ब्रह्मलोके धिराजते ॥ १२.२४२.१२ ॥
随顺舍离之缰绳,安稳,行于清净,以禅定抵达彼岸;与生命相系的这神圣之车,在梵界中光辉灿烂。
12.242.13
अथ संत्वरमाणस्य रथमेवं युयुक्षतः ।
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥ १२.२४२.१३ ॥
现在,对于急于驾车、欲往不灭者的人,我将讲述那迅速前往的方法。
12.242.14
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते ।
पृष्ठतः पार्श्वतश्चान्यास्तावत्यस्ताः प्रधारणाः ॥ १२.२४२.१४ ॥
能够节制言语、获得七种完整专注者,也能在后方与两侧获得同样数量的其他辅助专注。
12.242.15
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः ।
ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः।
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते ॥ १२.२४२.१५ ॥
依次获得地、风、空、水、火的主宰;由觉,获得我慢的主宰;同样也获得未显现者的主宰。
12.242.16
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ।
तथाऽस्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः ॥ १२.२४२.१६ ॥
这些是他的威力;他这样通过瑜伽而相应,对于与瑜伽相应者,在自我中看见成就。
12.242.17
निर्मुच्यमानः सूक्ष्मत्वाद्रूपाणीमानि पश्यतः ।
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ॥ १२.२४२.१७ ॥
因为微妙而得解脱者看见这些形象,犹如寒季的烟雾变得细微而依于天空。
12.242.18
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ।
अथ धूमस्य विरमेद्द्वितीयं रूपदर्शनम् ॥ १२.२४२.१८ ॥
如此,脱离身体者便有前相出现;然后烟雾止息,便见第二种形相。
12.242.19
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ।
अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते ॥ १२.२४२.१९ ॥
如同空中的水相,他便在自我之中见到它;水相消逝之时,火相便显现于他。
12.242.20
तस्मिन्नुपरते चास्य वायव्यं सूक्ष्ममव्ययम् ।
रूपं प्रकाशते तस्य पीतवस्त्रवदव्ययम् ॥ १२.२४२.२० ॥
彼已止息之时,其风相之微妙不灭之形显现;如黄衣一般,其不灭之形光辉显耀。
12.242.21
तस्मिन्नुपरते रुपमाकाशस्य प्रकाशते ।
तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते।
ऊर्णारूपसवर्णस्य तस्य रूपं प्रकाशते ॥ १२.२४२.२१ ॥
彼止息之时,虚空之相显现;彼止息之时,其觉知之相显现;与蛛丝之相相似之形,即其形,显现。
12.242.22
अथ श्वेतां गतिं गत्वा सोहङ्कारे प्रकाशते ।
सुशुक्लं चेतसः सौक्ष्म्यमप्युक्तं ब्राह्मणस्य वै ॥ १२.२४२.२२ ॥
随后行于白道,彼便在我执之中显现。心之微妙被说为极其光明,婆罗门亦被如此说。
12.242.23
एतेष्वपि हि जातेषु फलजातानि मे शृणु ।
जातस्य पार्थिवैश्वर्यैः सृष्टिरिष्टा विधीयते ॥ १२.२४२.२३ ॥
即便这些已生起,也请听我说果报的种类。对于已出生者,以世间的权力被规定为所愿的创造。
12.242.24
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजते प्रजाः ।
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥ १२.२४२.२४ ॥
如生主一般不动摇,他从身体中生出众生——以指或拇指之量,或以手或足,亦复如是。
12.242.25
पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः ।
आकाशभूतश्चाकाशे सवर्णत्वात्प्रकाशते।
वर्णतो गृह्यते चाप्सु नापः पिबति चाशया ॥ १२.२४२.२५ ॥
天启(Śruti)说,能使大地震动的唯一属性属于风。空大在空中因颜色一致而显现;在水中则通过颜色被感知,但它不会出于欲望而饮水。
12.242.26
न चास्य तेजसां रूपं दृश्यते शाम्यते तथा ।
अहंकारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः ॥ १२.२४२.२६ ॥
其光明的形相不可见,它们也就平息。当我慢被征服时,这五者便成为其之下顺从的随从。
12.242.27
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ।
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते ॥ १२.२४२.२७ ॥
当六者在自我与智性中被征服,则无过的洞察生起,整个地降临于他。
12.242.28
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ।
यतो निःसरते लोको भवति व्यक्तसंज्ञकः ॥ १२.२४२.२८ ॥
同样,显现之我抵达未显现者,世界由此而出,它便被称为显现者。
12.242.29
तत्राव्यक्तमयीं विद्यां शृणु त्वं विस्तरेण मे ।
तथा व्यक्तमयं चैव संख्यापूर्वं निबोध मे ॥ १२.२४२.२९ ॥
你且详细听我讲那属于未显现者的知识;同样,请从我这里理解属于显现者的知识,从列数开始。
12.242.30
पञ्चविंसतितत्त्वानि तुल्यान्युभयतः समम् ।
योगे साङ्ख्येऽपि च तथा विशेषं तत्र मे शृणु ॥ १२.२४२.३० ॥
二十五谛在两方面皆相同;瑜伽与数论中亦然。关于其间的差别,请听我说。
12.242.31
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् ।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ १२.२४२.३१ ॥
此被称为显现者:它生、长、老、死,具有四种特征。
12.242.32
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् ।
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥ १२.२४२.३२ ॥
与此相反者被称为未显现者。在吠陀和教义中,也说有两个自我。
12.242.33
चतुर्लक्षणजं त्वाद्यं चतुर्वर्गं प्रचक्षते ।
व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत्
सत्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम् ॥ १२.२४२.३३ ॥
由四种特征所生的第一者,称为四组。显现者与由未显现者所生者、觉(buddhi)、另一者悉婆多(sattva)、以及田知者——这两者构成对未显现者的见解。
12.242.34
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः ।
विषयात्प्रतिसंहारः साङ्ख्यानां विद्धि लक्षणम् ॥ १२.२४२.३४ ॥
吠陀中说有两个自我。应知对沉溺于境界者而言,从境界中收摄,即是数论派的标志。
12.242.35
निर्ममश्चानहंकारो निर्द्वन्द्वश्छिन्नसंशयः ।
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥ १२.२४२.३५ ॥
无我所,无我慢,超越二元对立,断除疑惑;不发怒,不憎恶,不说虚妄之言。
12.242.36
आक्रुष्टस्ताडितश्चैव मैत्रीयं ध्याति नाशुभम् ।
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥ १२.२४२.३६ ॥
即便受辱、被打,他仍思维慈友,而不思恶;他是三者的止息者——言语、以杖施加的行为、以及心。
12.242.37
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते ।
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥ १२.२४२.३७ ॥
对一切众生平等的人,便证得梵。他既不贪求,也不无欲,只安住于维持生命旅程所需的范围之内。
12.242.38
अलोलुपोऽव्यथो दान्तो नाकृतिर्न निराकृतिः ।
नास्येन्द्रियमनेकाग्रं नाविक्षिप्तमनोरथः ॥ १२.२४२.३८ ॥
他无贪、无忧、善于克制,既无显著的外相,也无残缺。他的诸根不散乱,他的欲望也不纷飞。
12.242.39
सर्वभूतसदृङ्भैत्रः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १२.२४२.३९ ॥
他对一切众生一视同仁,怀着慈心;视土块、石头与黄金为同等。喜与厌对他并无差别;他坚定,对毁誉自身也等同视之。
12.242.40
अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः ।
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ॥ १२.२४२.४० ॥
对一切欲望都无所贪求,坚守梵行的誓愿,对一切众生不加伤害——这样的数论修行者便得解脱。
12.242.41
यथा योगाद्विमुच्यन्ते कारणैर्यैर्निबोध तत् ।
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥ १२.२४२.४१ ॥
听着,人们通过瑜伽得到解脱的方式:超越了瑜伽的神通力,并且连这也超越的人,便得解脱。
12.242.42
इत्येषा भावजा बुद्धिः कथिता ते न संशयः ।
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति ॥ १२.२४२.४२ ॥
这由内在状态所生的智慧已经告诉你了,毫无疑问。如此,他便超越了二元对立,证得梵。