摩诃婆罗多 · 章 12.243
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.243.1
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः ।
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत् ॥ १२.२४३.१ ॥
那坚定之人应当以自我的寂静为智慧之筏,在浮沉之中唯依靠明智之学。
12.243.2
किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम् ।
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥ १२.२४३.२ ॥
那知识是什么?借由何种学问才能渡过这二者?有为之法与出离,正是这两者。
12.243.3
यस्तु पश्यन्स्वभावेन विनाभावमचेतनः ।
पुष्णाति स पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥ १२.२४३.३ ॥
若人依自性而见无有,无思无觉,却又以智慧养育一切,无因而得解脱。
12.243.4
येषां चैकान्तभावेन स्वभावः कारणं मतम् ।
दूर्वातृणवृसीका ये ते लभन्ते न किंचन ॥ १२.२४३.४ ॥
若人专执自性为因,便如同须卜草与草根,一无所得。
12.243.5
येचैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः ।
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥ १२.२४३.५ ॥
彼少智之人,依此一边而退转,知自性为因,却不得善。
12.243.6
स्वभावो हि विनाशाय मोहकर्ममनोभवः ।
निरुक्तमेतयोरेतत्स्वभावपरिभावयोः ॥ १२.२४३.६ ॥
自性实为毁灭之因,由迷惑、业与心而生。关于这二者——自性与对自性的执著——此即所说。
12.243.7
कृष्यादीनीह कर्माणि सस्यसंहरणानि च ।
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च ॥ १२.२४३.७ ॥
此处的耕种等事务、收割庄稼,以及车辆、座椅和房屋,都是有智慧者所设计的。
12.243.8
आक्रीडानां गृहाणां च गदानामगदस्य च ।
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ॥ १२.२४३.८ ॥
关于游戏、房屋、疾病与药方的智者讲述者,是由有知识者所实践的。
12.243.9
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति ।
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥ १२.२४३.९ ॥
智慧使人与目的相连,智慧获得至善;具有相同特征的诸王凭智慧享有国土。
12.243.10
परावरं तु भूतानां ज्ञानेनैवोपलभ्यते ।
विद्यया तात सृष्टानां विद्यैवेह परा गतिः ॥ १२.२४३.१० ॥
众生的高下,唯有通过智慧才能认知;孩子,对于受造之物,此处唯有学问才是至高的归宿。
12.243.11
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् ।
जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत् ॥ १२.२४३.११ ॥
一切众生的出生多种多样,可分为四类:胎生、卵生、湿生与化生;应当加以辨识。
12.243.12
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत् ।
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया ॥ १२.२४३.१२ ॥
应当认为动物优于植物,因为具有活动的事物以其独特的性质而显得殊胜。
12.243.13
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु ।
बहुषाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥ १२.२४३.१३ ॥
据说动物有两类:二足与多足。二足者胜过多足者,而二足者也为数众多。
12.243.14
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च ।
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥ १२.२४३.१४ ॥
据说二足者有两类:居于大地者与其他者。居于大地者更为殊胜,因为他们食用食物。
12.243.15
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि तु ।
मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥ १२.२४३.१५ ॥
据说居于大地者有两类:中等与上等。中等者更为殊胜,因为他们持守本种姓之法。
12.243.16
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च ।
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥ १२.२४३.१६ ॥
据说中等者有两类:知法者与其他者。知法者更为殊胜,因为他们能辨别应做与不应做之事。
12.243.17
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च ।
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥ १२.२४३.१७ ॥
据说知法者有两类:通晓吠陀者与其他者。通晓吠陀者更为殊胜,因为吠陀确立于他们之中。
12.243.18
वेदज्ञानि द्वयान्याहुः प्रवक्तृणीतराणि च ।
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥ १२.२४३.१८ ॥
据说通晓吠陀者有两类:讲说者与其他者。讲说者更为殊胜,因为他们持守一切法。
12.243.19
विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफलाः ।
सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥ १२.२४३.१९ ॥
通过他们,吠陀与法及祭祀之果一同被认知;所有吠陀都出自宣说者。
12.243.20
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च ।
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥ १२.२४३.२० ॥
宣说者有两种:知自我者与其他;知自我者最为殊胜,因为他们能领悟生与不生。
12.243.21
धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित् ।
सत्याशीः सत्यसंकल्पः सत्यः शुचिरथेश्वरः ॥ १२.२४३.२१ ॥
知晓两种法者,即是全知、遍知;愿望成真、决心真实、诚实、清净,为车乘之主。
12.243.22
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः ।
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥ १२.२४३.२२ ॥
那位安住于法之智的婆罗门,诸神知其精通声梵,且于至上之道决心坚定。
12.243.23
अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम् ।
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥ १२.२४३.२३ ॥
那些知晓内外所在的祭祀与主宰神者,我们向他们致敬。亲爱的孩子,他们便是诸神,他们便是再生者。
12.243.24
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् ।
तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन ॥ १२.२४३.२४ ॥
这一切众生、以及连同其首要者的整个世界,都安立于他们之中;没有任何东西可与他们的伟大与本性相比。
12.243.25
आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः ।
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः ॥ १२.२४३.२५ ॥
超越了始、终、灭与业的一切,他们是四类众生的自生主宰。