Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.246

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.246.1

पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥ १२.२४६.१ ॥

好儿子,你在此如实地询问,我所宣说的,是依数论之理所阐明的。

12.246.2

योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ १२.२४६.२ ॥

我将为你详述瑜伽的全部功用,你且听:觉与意,以及诸根,全然归于一体。

12.246.3

आत्मनोऽव्यथिनस्तात् ज्ञानमेतदनुत्तमम् ।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ १२.२४६.३ ॥

亲爱的孩子,这是不动摇之自我的至上智慧;它属于心境平静、自我制约、修习内在之道的人。

12.246.4

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः ॥ १२.२४६.४ ॥

悦于自我、觉醒、行为清净者应当明了此理;应当彻底断除诸贤所知的五种瑜伽过失。

12.246.5

कामं क्रोधं त्त लोभं च भयं स्वप्नं च पञ्चमम् ।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ १२.२४६.५ ॥

欲、怒、贪、惧,第五为睡眠。以寂静胜怒,以舍弃意欲胜欲。

12.246.6

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ १२.२४६.६ ॥

以专修悉多,坚毅者便能断除睡眠。以坚定守护生殖与腹部,以目光守护手足。

12.246.7

चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ॥ १२.२४६.७ ॥

以心制眼耳,以言制心,以行制言。以不放逸去除恐惧,以侍奉智者去除贪欲。

12.246.8

एवमेतान्योगदोषाञ्चयेन्नित्यमतन्द्रितः ।
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ॥ १२.२४६.८ ॥

如此,应不懈地常常克服瑜伽的这些过失;应敬奉圣火与婆罗门,向诸神致敬。

12.246.9

वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम् ।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम् ॥ १२.२४६.९ ॥

应避免充满暴力、扰乱心神的恶语。遍布此一切的梵,乃光明而纯净的。

12.246.10

एतस्य सूत्रभूतस्य द्वयं स्थावरजङ्गमम् ।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ १२.२४६.१० ॥

在此如线般的梵之上,不动与动的二者得以依存。禅定、诵习、布施、真实、羞耻、正直与忍耐,皆是其分支。

12.246.11

शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ १२.२४६.११ ॥

清净、饮食的纯洁与克制诸根:由此光明增长,罪恶消退。

12.246.12

सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते ।
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत् ॥ १२.२४६.१२ ॥

由此,他的一切目标得以成就,智慧增长。对一切众生应平等相待,以所得或不得而度日。

12.246.13

धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १२.२४६.१३ ॥

洗净罪恶、光明俊美、少食、克制诸根的人,在制服欲望与愤怒之后,应当追求抵达梵的境界。

12.246.14

मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ।
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मनि ॥ १२.२४६.१४ ॥

使心与诸根专注一境,安定而摄持,在夜的前分与后分,应将心安住于自我之中。

12.246.15

जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥ १२.२४६.१५ ॥

这具有五根的众生,若其中一根成为孔洞,他的智慧便会从那里流失,正如水从皮囊的孔洞中漏出。

12.246.16

मनस्तु पूर्वमादद्यात्कुमीनमिव मत्स्यहा ।
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ॥ १२.२४६.१६ ॥

通晓瑜伽者应先像渔夫捉住劣鱼那样摄住心,然后是听觉、视觉、味觉和嗅觉。

12.246.17

तत एतानि संयम्य मनसि स्थापयेद्यतिः ।
तथैवापो ह्यसंकल्पान्मनो ह्यात्मनि धारयेत् ॥ १२.२४६.१७ ॥

然后,苦行者应将这些摄伏,安立于心中;同样,无思无欲地将心安住于自我之中。

12.246.18

पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद्यतिः ।
यदैतान्यवतिष्ठन्ति मनःषष्ठानि चात्मनि ॥ १२.२४६.१८ ॥

苦行者应将五根收摄,安立于心中;当这些以心为第六者安住于自我之中时。

12.246.19

प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ।
विधूम इव सप्तार्चिरादित्य इव दीप्तिमान् ॥ १२.२४६.१९ ॥

当它们平静安定时,梵便显现光辉,如无烟的七焰之火,如光芒四射的太阳。

12.246.20

वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि ।
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते ॥ १२.२४६.२० ॥

如天空中可见闪电之火,自我亦可在自身中被见。因其遍在一切,他在那里于万物之中、处处可见。

12.246.21

तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥ १२.२४६.२१ ॥

他被那些伟大心灵的婆罗门所见:智者、坚定者、大智慧者,他们喜乐于一切众生的福祉。

12.246.22

एवं परिमितं कालमाचरन्संशितव्रतः ।
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ॥ १२.२४६.२२ ॥

如此,在限定的时间内,坚守誓愿,独自安坐于幽静之处,应当达到与不灭者相等的境界。

12.246.23

विमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥ १२.२४६.२३ ॥

迷惑、幻觉、旋涡;嗅、听、见;味与触的奇异之相;寒与热;风的形状。

12.246.24

प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत् ॥ १२.२४६.२४ ॥

以瑜伽收摄幻象与障碍,智者当不予理会,使它们只回归于自我。

12.246.25

कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः ।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत् ॥ १२.२४६.२५ ॥

圣人应在一日三时守戒修习瑜伽,并将心念置于山峰之巅、圣坛之上及树梢之端。

12.246.26

संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ।
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥ १२.२४६.२६ ॥

应将诸根完全摄持,如同将货物贮于库房,常以专一之心思维,不可因修瑜伽而扰乱心念。

12.246.27

येनोपायेन शक्येत संनियन्तुं चलं मनः ।
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः ॥ १२.२४६.२७ ॥

以何种方法能够完全制伏躁动之心,便应专心于这一方法而修习之,丝毫不可动摇。

12.246.28

शून्या गिरि…श्वैव देवतायतनानि च ।
शून्यागारा…काग्रो निवासार्थमुपक्रमेत् ॥ १२.२४६.२८ ॥

空寂的山……以及诸神的庙宇和空屋……(原文部分缺失)——应以专一之心,前往这些地方居住。

12.246.29

नाभिष्व…वाचा कर्मणा मनसाऽपि वा ।
उपे…रो लब्धालब्धे समो भवेत् ॥ १२.२४६.२९ ॥

……不……以言语、行为,乃至意念……(……)于得与不得,应保持平等之心。

12.246.30

यश्चैन…न्देत यश्चैनमभिवादयेत् ।
समस्त…भयोर्नाभिध्यायेच्छुभाशुभम् ॥ १२.२४६.३० ॥

无论谁……无论谁向他行礼……全然……对于二者,不应思虑吉与不吉。

12.246.31

न प्रहृ…भेषु नालाभेषु च चिन्तयेत् ।
समः स…षु सधर्मा मातरिश्वनः ॥ १२.२४६.३१ ॥

不因得利而欢喜,不因失利而忧虑,对一切保持平等者,具有风的本性。

12.246.32

एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥ १२.२४६.३२ ॥

如此,视一切为自我、处处平等观之善人,持续修习瑜伽六个月,便超越了声音之梵。

12.246.33

वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
एतस्मिन्निरतो मार्गे विरमेन्न च मोहितः ॥ १२.२४६.३३ ॥

见众生为苦所困,视土块、石头与金子为一,应专心于此道,不被迷惑,不可从中退转。

12.246.34

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ १२.२४६.३४ ॥

即使是低种姓之人,或是渴求法的女子,他们二者也可沿此道达到至上之境。

12.246.35

अजं पुराणमजरं सनातनं ।
यदिन्द्रियैरुपलभेत निश्चलैः।
अणोरणीयो महतो महत्तरं ।
तदात्मना पश्यति युक्तमात्मवान् ॥ १२.२४६.३५ ॥

那无生、古老、不老、永恒者,可以由稳定的感官觉知;比原子更细微,比大者更广大。自制而修习瑜伽的人以自我见之。

12.246.36

इदं महर्षेर्वचनं महात्मनो ।
यथावदुक्तं मनसाऽनुदृश्य च।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां ।
प्रयान्ति यां भूतगतिं मनीषिणः ॥ १२.२४६.३६ ॥

这位大仙之言,如实宣说。以心思之,观此与至尊相同之境,智者得达那众生之归趣。