摩诃婆罗多 · 章 12.248
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.248.1
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च ।
बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम् ॥ १२.२४८.१ ॥
从可毁灭者开始的创造,连同其德性的诸根,这智慧与主权的流出,以及自我的根本原理——这些我已听闻。
12.248.2
भूय एव तु लोकेऽस्मिन्सद्वृतिं कालहेतुकीम् ।
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम् ॥ १२.२४८.२ ॥
再者,在此世间,我愿遵循那由时间所决定的善行,善人依之而行。
12.248.3
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च ।
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥ १२.२४८.३ ॥
吠陀中有言:“行业”,又说“舍业”。我如何理解此事?您也应当为我解说。
12.248.4
लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात् ।
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययं ॥ १२.२४८.४ ॥
我通晓世间行事的真理,依师长的教诲而清净,专注智慧,以解脱之自我,将见那不坏的自我。
12.248.5
एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥ १२.२४८.५ ॥
此生活之道古时由梵天亲自所定;昔日的善人与大仙人皆曾奉行。
12.248.6
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः ।
आत्मनश्च हृदि श्रेयो ह्यन्विच्छन्मनसाऽऽत्मनि ॥ १२.२४८.६ ॥
大仙人唯以梵行而征服诸界,以心意在自己的心中寻求自我的至善。
12.248.7
वने मूलफलाशी च तप्यन्सुविपुलं तपः ।
पुण्यायतनचारी च भूतानामविहिंसक ॥ १२.२४८.७ ॥
在森林中以根与果为食,行极大的苦行,游历圣地,不伤害任何众生。
12.248.8
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये ।
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥ १२.२४८.८ ॥
在没有炊烟、杵已放下的林居者静修处,若在适当时候外出乞食而行,便适合与梵合一。
12.248.9
निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे ।
अरण्ये विचरैकाकी येनकेनचिदाशितः ॥ १२.२४८.९ ॥
不受赞颂,不接受礼拜,舍弃善与恶,独自在森林中游行,以所得之物维持生活。
12.248.10
यदिदं वेदवचनं लोकवादे विरुध्यते ।
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः ॥ १२.२४८.१० ॥
这吠陀之言为何与世俗之说相矛盾?依据经典,权威与非权威既相对立,又如何能并存?
12.248.11
इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम् ।
कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥ १२.२४८.११ ॥
我愿听闻此事:二者如何皆为权威?在诸业之间,此事又如何在无矛盾中进行?
12.248.12
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ।
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥ १२.२४८.१२ ॥
被如此问道后,香气女之子那位仙人,以敬重无量光辉之子的话语,回答了他的儿子。
12.248.13
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥ १२.२४८.१३ ॥
梵行学徒、家住者、林居者与乞士——凡依规而行者,皆得至高之归宿。
12.248.14
एको वाऽप्याश्रमानेतान्योऽनुतिष्ठेद्यथाविधि ।
अकामद्वेषसंयुक्तः स परत्र महीयते ॥ १२.२४८.१४ ॥
若有人依规奉行这些生活阶段中哪怕一种,离欲与憎,他便在来世受到尊崇。
12.248.15
चतुष्पदी हि निःश्रेयणी ब्रह्मण्येषा प्रतिष्ठिता ।
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥ १२.२४८.१५ ॥
此四级之梯确立于梵中;依托此梯者,便在梵界受到尊崇。
12.248.16
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः ।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥ १२.२४८.१६ ॥
梵行学徒应将寿命的四分之一,无嫉妒,精通法与利,居于师长或师长之子处。
12.248.17
जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि ।
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥ १२.२४८.१७ ॥
在师长家中,应先睡在最低处,先起身;凡是弟子或仆役当做之事,也应去做。
12.248.18
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः ।
किंकरः सर्वकारी स्यात्सर्वकर्मसु कोविदः ॥ १२.२४८.१८ ॥
应说“已办妥”,既办完一切,便站立一旁;精通诸事,应做一切如仆役者。
12.248.19
कर्मातिशेषेण गुरावध्येतव्यं बुभूषता ।
दक्षिणेनोपसादी स्यादाकूतो नुल्माश्रयेत् ॥ १२.२४८.१९ ॥
待师长事务完毕,希求善果者应向师长学习。应坐在其右侧近旁,专心侍立,如持火炬者。
12.248.20
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा ।
चक्षुष गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥ १२.२४८.२० ॥
纯净、灵巧、具备德行的弟子应时常对师长说悦耳之言。应克制诸根,心无旁骛,以目注视师长。
12.248.21
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् ।
नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥ १२.२४८.२१ ॥
师长未进食,弟子不应进食;师长未饮,弟子不应饮。师长不站立,弟子不应坐下;师长未入睡,弟子不应自行入睡。
12.248.22
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥ १२.२४८.२२ ॥
手掌向上,轻轻触摸师长的双足。以右手按右足,以左手按左足。
12.248.23
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति ।
इदं करिष्ये भगवन्निदं चापि कृतं मया ॥ १२.२४८.२३ ॥
向师长恭敬行礼后应说:“尊师,请教导我。”又说:“尊师,此事我将去做,此事我也已经做了。”
12.248.24
ब्रह्मंस्तदपि कर्ताऽस्मि यद्भावन्वक्ष्यते पुनः ।
इति सर्वमनुज्ञाप्य निवेद्य गुरवे पुनः। ॥ १२.२४८.२४ ॥
说:“婆罗门啊,您再次所说的,我也会去做。”如此对一切征得许可,并再次向师长禀报。
12.248.25
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ।
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते ॥ १२.२४८.२५ ॥
做完应做之事后,应当将一切再次告知老师。梵行者所不享用的香气与滋味,
12.248.26
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ।
ये केचिन्नियमेनोक्ता नियमा ब्रह्मचारिणः ॥ १२.२४८.२६ ॥
归家之后可以享用它们,这是关于法的定论。梵行者依规定所受的那些戒律,
12.248.27
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ।
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ॥ १२.२४८.२७ ॥
应遵守所有这些,不离开老师。如此依自己的能力向老师奉献敬爱,
12.248.28
अग्राम्येणा मेष्वेवं शिष्यो वर्तते कर्मणा ।
वदव्रतोपवासेन चतुर्थे च…।
गुरवे दक्षिणां दत्त्वा समावतेद्यथातिधि… ॥ १२.२४८.२८ ॥
如此,弟子以非世俗之行为行事,以语戒与斋戒,而在第四…… 向老师献上酬金后,应像客人一样返回家中……
12.248.29
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यनतः ।
द्वितीयमायुषो भागं गृहमेधी भवेद्व्रती ॥ १२.२४८.२९ ॥
与依法所得之妻结合,以祭祀点燃圣火,在人生的第二段应成为持戒的居家者。