Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.25.1

द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये ।
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥ १२.२५.१ ॥

闻听双河(毗耶娑)之言,阿周那已然愤怒,昆提之子坚战呼唤毗耶娑并回答道。

12.25.2

न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः ।
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम् ॥ १२.२५.२ ॥

今日,这王国与种种享乐都不能使我的心欢喜;这悲痛撕裂着我。

12.25.3

श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम् ।
परिदेवयमानानां न शान्तिं मनसा लभे ॥ १२.२५.३ ॥

听闻失去英雄与儿子的妇女们的哀号,我的心无法得到平静。

12.25.4

इत्युक्तः प्रत्युवाचेदं व्यासो योगविदांवरः ।
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः ॥ १२.२५.४ ॥

闻言,毗耶娑——瑜伽行者中最杰出者、大智慧者、通晓法者、通达吠陀者——对坚战作了如下回答。

12.25.5

न कर्मणा लभ्यते चेज्यया वा ।
नाप्यस्ति दाता पुरुषस्य कश्चित्।
पर्याययोगाद्विहितं विधात्रा ।
कालेन सर्वं लभते मनुष्यः ॥ १२.२५.५ ॥

不能靠行为获得,也不能靠祭祀获得;人没有施与者。依造物主所定的先后次第,人终将随时而获得一切。

12.25.6

न बुद्धिशक्त्याऽऽध्ययनेन शक्यं ।
प्राप्तुं विशेषं मनुजैरकाले।
मूर्खोऽपि चाप्नोति कदाचिदर्था ।
न्कालो हि सर्वं पुरुषस्य दाता ॥ १२.२५.६ ॥

人凭智慧、力量或学习,在不当其时时无法获得特别的成就。愚人有时也能获得财富,因为只有时间才是给予人一切的施与者。

12.25.7

न भूरकालेषु फलं ददाति ।
शिल्पानि मन्त्राश्च तथौषधानि।
तान्येव कालेन समाहितानि ।
सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ १२.२५.७ ॥

土地在不当的时节不结果实。技艺、咒语与药物,若及时聚集,便能成功,并在兴盛之时增长。

12.25.8

कालेन शीघ्राः प्रवहन्ति वाताः ।
कालेन वृष्टिर्जलदानुपैति।
कालेन पझोत्पलवञ्जलं च ।
कालेन पुष्यन्ति वनेषु वृक्षाः ॥ १२.२५.८ ॥

依时,疾风吹拂;依时,云中降下雨水。依时,莲花、青莲与水生植物开放;依时,林中树木繁茂。

12.25.9

कालेन कृष्णाश्च सिताश्च रात्र्यः ।
कालेन चन्द्रः परिपूर्णबिम्बः।
नाकालतः पुष्पफलं द्रुमाणां ।
नाकालवेगाः सरितो वहन्ति ॥ १२.२५.९ ॥

依时,黑夜与白夜来临;依时,满月升起。树木在非时不开花结果,河流也不以非时之势奔流。

12.25.10

नाकालमत्ताः खगपन्नगाश्च ।
मृगद्विपाः शैलमृगाश्च लोके।
नाकालतः स्त्रीषु भवन्ति गर्भा ।
नायन्त्यकाले शिशिरोष्णवर्षाः ॥ १२.२५.१० ॥

非时之时,飞禽与蛇不会狂躁,鹿、象与山中之兽在世间亦然;非时之时,妇人不会怀孕,寒、暑、雨也不会在非时来临。

12.25.11

नाकालतो म्रियते जायते वा ।
नाकालतो व्याहरते च बालः।
नाकालतो यौवनमभ्युपैति ।
नाकालतो रोहति बीजमुप्तम् ॥ १२.२५.११ ॥

非时之时,无人死亡或出生,孩童也不会开口说话。非时之时,青春不会到来;非时播下的种子也不会发芽。

12.25.12

नाकालतो भानुरुपैति योगं ।
नाकालतोऽस्तं गिरिमभ्युपैति।
नाकालतो वर्धते हीयते च ।
चन्द्रः समुद्रोऽपि महोर्मिमाली ॥ १२.२५.१२ ॥

太阳并非失时而至其定数之运行,亦非失时而落向山岳。月亮并非失时而盈亏,披着巨浪之环的大海亦然。

12.25.13

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥ १२.२५.१३ ॥

此处人们亦引用这古老的传说——被忧苦所困的国王森纳吉特所唱的歌,俱卢之子啊。

12.25.14

सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुःसहः ।
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः ॥ १२.२५.१४ ॥

这难以承受的轮转触及所有凡人;因为被时间成熟的诸王,无一不死。

12.25.15

घ्नन्ति चान्यान्नरान्राजंस्तानप्यन्ये तथा नराः ।
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥ १२.२५.१५ ॥

人杀他人,他人又同样杀之。大王啊,这只是世俗的称谓:他既不杀,也不被杀。

12.25.16

हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः ।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥ १२.२५.१६ ॥

有人认为“他杀了”,又有人认为“他没有杀”。然而众生的生起与消亡,乃由其自性所定。

12.25.17

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत् ॥ १२.२५.१७ ॥

财富丧失,或妻子、儿子、父亲死去,人应当想着“唉,好大的苦痛!”,然后行走于减轻苦痛之道。

12.25.18

स किं शोचसि मूढः सञ्शोच्यान्किमनुशोचसि ।
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥ १२.२५.१८ ॥

愚人啊,你为何悲伤?为何为那些值得悲伤的人哀悼?看那苦中有苦,怖中有怖。

12.25.19

आत्माऽपि चायं न मम सर्वाऽपि पथिवी मम ।
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति ॥ १२.२५.१९ ॥

此身亦非我所有,整个大地也非我所有。若见我所有者亦如是属于他人,便不会迷惑。

12.25.20

शोकस्थानसहस्राणि हर्षस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ १२.२५.२० ॥

千种悲伤之因、百种喜悦之因,日复一日地侵扰愚人,而不侵扰智者。

12.25.21

एवमेतानि कालेन प्रियद्वेष्याणि भागशः ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ १२.२५.२१ ॥

如此,随着时间,这些可爱与可憎之物轮流在众生之间流转:苦与乐皆然。

12.25.22

दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते ।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥ १२.२५.२२ ॥

实则只有苦,没有乐;因此所觉知的正是苦。苦生于渴爱的煎熬,乐生于苦的煎熬。

12.25.23

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १२.२५.२३ ॥

乐之后是苦,苦之后是乐。无人永远得苦,也无人永远得乐。

12.25.24

सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् ।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ १२.२५.२४ ॥

快乐以痛苦告终,有时痛苦之后才有快乐。因此,想要永恒之乐的人,应当舍弃这两者。

12.25.25

सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् ।
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः।
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥ १२.२५.२५ ॥

痛苦生于快乐的终结,快乐生于痛苦的终结。凡是引起忧愁、烦恼或劳苦的根源,哪怕只是其中一部分,也应当舍弃。

12.25.26

सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ १२.२५.२६ ॥

无论是快乐还是痛苦,可爱还是不可爱,凡所得到的,都应以不被征服的心去接受。

12.25.27

ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम् ।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च ॥ १२.२५.२७ ॥

亲爱的,只要稍稍使妻子和儿子欢喜,那时你就会知道谁属于谁,由谁,或如何。

12.25.28

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥ १२.२५.२८ ॥

世上只有最愚昧的人,以及超越智慧的人,才在快乐中兴盛;中等之人则受苦。

12.25.29

इत्यन्नवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् ।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥ १२.२५.२९ ॥

大智的仙纳吉对坚战如此说道。他通晓世间的高低,通晓达摩,通晓快乐与痛苦。

12.25.30

परदुःखेन दुःखी यो न स जातु सुखी भवेत् ।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥ १२.२५.३० ॥

不为他人之苦而苦者,永不能幸福。苦难没有穷尽,此苦从彼苦而生。

12.25.31

सुखं च दुःखं च भवाभवौ च ।
लाभालाभौ मरणं जीवितं च।
पर्यायतः सर्वमवाप्तुवन्ति ।
तस्मान्न मुह्येन्न च संप्रहृष्येत् ॥ १२.२५.३१ ॥

乐与苦、有与无、得与失、死与生,这一切轮流降临于每个人。因此不应迷惑,也不应过分欢喜。

12.25.32

दीक्षां राज्ञां संयुगे धर्ममाहु ।
र्योगं राज्ये दण्डनीतिं च सम्यक्।
वित्तत्यागं दक्षिणां चैव यज्ञे ।
सम्यग्दानं पावनानीति विद्यात् ॥ १२.२५.३२ ॥

对于国王而言,战斗即是灌顶,这被称为法;在治国中,修持与刑罚之道亦然。在祭祀中,舍弃财物、达克希纳以及如法布施,应当知道是净化之行。

12.25.33

रक्षन्राज्यं बुद्धिपूर्वं नयेन ।
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वाल्लोकान्धर्मदृष्ट्यावलोक ।
न्नूध्वं देहान्मोदते देवलोके ॥ १२.२५.३३ ॥

以审慎的智慧与正当的政策守护国家,舍弃自我,乐于祭祀,心胸广大,以法的眼光观察一切世界者,舍身之后,在天界中欢乐。

12.25.34

जित्वा संग्रामान्पालयित्वा च राष्ट्रं ।
सोमं पीत्वा वर्धयित्वा प्रजाश्च।
युक्त्या दण्डं धारयित्वा प्रजानां ।
पश्चात्क्षीणायुर्मोदते देवलोके ॥ १२.२५.३४ ॥

征战获胜,守护国土,饮用苏摩,养育臣民,并善巧地对民众执掌刑杖,寿命耗尽之后,他在天界中欢乐。

12.25.35

पूतात्मा वै मोदते देवलोके ॥ १२.२५.३५ ॥

心灵纯净者必定在天神之界欢喜。

12.25.36

यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।
पौरजानपदामात्याः स राजा राजसत्तमः ॥ १२.२५.३६ ॥

即使身居天界,人民、城中之民、乡野之民与大臣仍敬仰其德行的君王,便是诸王中最优秀的君王。