Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.252

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.252.1

प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः ।
न चैनं ते प्रजानन्ति स तु जानाति तानपि ॥ १२.२५२.१ ॥

凡是自然的变化,皆由知场者所主宰;它们不认识他,而他却认识它们。

12.252.2

तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥ १२.२५२.२ ॥

如此,他以心为第六的诸根行事,如御者驾驭那驯良、强健、上等的骏马。

12.252.3

इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १२.२५२.३ ॥

超越诸根的是其境界;超越境界的是至上之心;超越心的是觉智;超越觉智的是伟大的自我,它更为至高。

12.252.4

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ १२.२५२.४ ॥

超越大我者是未显现者;超越未显现者是原人,超越原人者则无更高者。那便是究竟的边界,那便是至上的归宿。

12.252.5

एवं सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२.२५२.५ ॥

如是,隐藏的自我并不在一切众生中显现;然而,洞察微妙者以殊胜而精微的智慧能够见到它。

12.252.6

अन्तरात्मनि संलीय मनः षष्ठानि मेधया ।
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन् ॥ १२.२५२.६ ॥

以智慧将以心为第六的诸根及其境界收摄于内在自我之中,他们禅思,思惟那极值得思量之事。

12.252.7

ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः ।
अनिश्चरः प्रशान्तात्मा ततोर्च्छत्यमृतं पदम् ॥ १२.२५२.७ ॥

停止冥想,心由智慧而成就,不动摇、心神寂静,于是便达到不死之境。

12.252.8

इन्द्रियाणां तु सर्वेषां पश्यात्मा चलितस्मृतिः ।
आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ १२.२५२.८ ॥

若借由诸根而不见自我,记忆紊乱,凡人便因舍弃自我而走向死亡。

12.252.9

हित्वा तु सर्वसंकल्पान्सत्वे चित्तं निवेशयेत् ।
सत्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥ १२.२५२.९ ॥

舍弃一切意念,应将心安置于善性;将心安住于善性之后,他便成为迦兰遮罗。

12.252.10

चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ १२.२५२.१० ॥

凭心的澄明,苦行者在此舍弃善与恶;心神清净,安住于自我,便得至极的安乐。

12.252.11

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।
निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥ १२.२५२.११ ॥

心的安定之相是:如饱足之人安然入睡,或如无风之处燃烧的灯火不摇不动。

12.252.12

एवं पूर्वापरे रात्रौ युञ्जन्नात्मानमात्मनि ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ १२.२५२.१२ ॥

如此,在夜晚的前后,将自我与自我相结合,少食,心神清净,便在自我之中见到自我。

12.252.13

रहस्यं सर्ववेदानामनैतिह्यमनागतम् ।
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥ १२.२५२.१३ ॥

这是所有吠陀的秘密,并非传承已久之说,而是建立在自知之上的教诲,是给儿子的训示。

12.252.14

धर्माख्यानेषु सर्वेषु चित्राख्यानेषु यद्वसु ।
दृश्यते ऋक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ १२.२५२.१४ ॥

在一切法论故事与奇妙传说中可见的财富:数千颂经文被搅动,于是提炼出这甘露。

12.252.15

नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ॥ १२.२५२.१५ ॥

如同从酪中取得酥油,从木中取得火,同样,为了儿子,智者的知识被提炼出来。

12.252.16

स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदितं नाप्रशान्ताय नादान्तायातपस्विने ॥ १२.२५२.१६ ॥

此论、此为子之训示,应告诉学成的修士;不可告诉心不静者、不自制者、无苦行者。

12.252.17

नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ १२.२५२.१७ ॥

不可告诉不通吠陀者,也不可告诉未随师者;不可告诉嫉妒者、不正直者,或无指引而行事者。

12.252.18

न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ १२.२५२.१८ ॥

不可告诉被论辩之学所烧灼者,也不可告诉谗言者;不可告诉自我夸耀者,而应告诉值得赞扬、心平气和的苦行者。

12.252.19

इदं प्रियाय पुत्राय शिष्यायानुगताय च ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ १२.२५२.१९ ॥

这秘密的法只应传授给心爱的儿子、弟子或追随者,绝不可以任何方式传给其他人。

12.252.20

यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ १२.२५२.२० ॥

即使有人把这满是珍宝的大地送给他,通晓真理的人仍会认为这比那更为殊胜。

12.252.21

अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्जुष्टं वेदान्तेषु च गीयते ॥ १२.२५२.२१ ॥

因此,超越人类的那种精神智慧最为秘密;大仙人珍视它,并在吠檀多中歌颂。

12.252.22

तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥ १२.२५२.२२ ॥

你所问我的,我将完整地为你讲解。

12.252.23

यच्च ते मनसि वर्तते परं ।
यत्र चास्ति तव संशयः क्वचित्।
श्रूयतामयमहं तवाग्रतः ।
पुत्र किं हि कथयामि ते पुनः ॥ १२.२५२.२३ ॥

你心中所想的至上之事,以及你在何处有所疑惑——孩子,请听,我在你面前说出;我为何还要再对你重复呢?