摩诃婆罗多 · 章 12.255
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.255.1
सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान्विक्रियते सर्वानुदासीनवदीश्वरः ॥ १२.२५५.१ ॥
田间的知者创造三德,即善性等,并主宰它们。主宰者转变一切德性,仿佛对之漠不关心。
12.255.2
स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥ १२.२५५.२ ॥
具有自性的那善性创造这些德性。正如蜘蛛吐丝,它如丝线般编织这些德性。
12.255.3
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ १२.२५५.३ ॥
被毁灭者不再返回,活动也无法察觉。有人如此断定,也有人断定这是止息。
12.255.4
उभयं संप्रधार्यैतदध्यवस्येद्यथामति ।
अनेनैव विधानेन भवेद्गर्भशयो महान् ॥ १२.२५५.४ ॥
仔细考虑两者之后,应依自己的智慧作出决定。依此方法,人便成为那伟大的处于胎藏者。
12.255.5
अनादिनिधनं नित्यं तं बुद्ध्वा विचरेन्नरः ।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ १२.२५५.५ ॥
知其无始无终、恒常不灭,人应当行于世:不怒,不喜,永远远离嫉妒。
12.255.6
इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥ १२.२५५.६ ॥
如此,超越由智慧与忧虑所构成的心之坚固结,人应安乐而坐,不忧悲,疑惑已断。
12.255.7
ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः ।
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥ १२.२५५.७ ॥
如同人落入满溢的河中而沉没受苦,愚昧之人沉溺于此世,也同样受苦,你应当明白。
12.255.8
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ॥ १२.२५५.८ ॥
然而通晓真理的智者不会受苦,他如在陆地上行走。如此寻得自我者,便获得自我的纯粹知识。
12.255.9
एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम् ।
समवेक्ष्य च वैषम्यं लभते शममुत्तमम् ॥ १२.२५५.९ ॥
如此明了众生的来去,并细察其不平等,人便获得至高的寂静。
12.255.10
एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥ १२.२५५.१० ॥
这正是婆罗门因出生而具有的特殊能力:自我的知识与寂静已经足够,那便是至高的归宿。
12.255.11
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ १२.२५५.११ ॥
明白此理,人便觉悟;还有什么比这更是觉者的标志呢?知晓此理,智者得到解脱,成就所应成就之事。
12.255.12
न भवति विदुषां महद्भयं ।
यदविदुषां सुमहद्भयं परत्र।
न हि गतिरधिकाऽस्ति कस्यचि ।
द्भवति हि या विदुषः सनातनी ॥ १२.२५५.१२ ॥
智者没有大的恐惧,而无知者在来世有极大的恐惧。没有谁的归宿高过智者永恒的归宿。
12.255.13
लोकमातुरमसूयते जन ।
स्तत्तदेव च निरीक्ष्य शोचते।
तत्र पश्य कुशलानशोचतो ।
ये विदुस्तदुभयं कृताकृतम् ॥ १२.२५५.१३ ॥
人们嫉妒世界之母,并为所见的每一事物而悲伤。请看那些不悲伤、通晓已作与未作两者的智者。
12.255.14
यत्करोत्यनभिसन्धिपूर्वकं ।
तच्च निर्णुदति …
न प्रियं तदुभयं न चाप्रिय ।
तस्य तज्जनयतीह कुर्वतः ॥ १२.२५५.१४ ॥
即使是无预先意图而作的行为,也……去除。那二者既非可爱,亦非不可爱;对于行动者而言,此处它正产生那样的结果。