Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.258

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.258.1

द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः ।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥ १२.२५८.१ ॥

你陷于二元对立之中,渴望了解解脱,并修习利益与法。有德的老师应先让弟子聆听这伟大的教导。

12.258.2

आकाशं मारुतो ज्योतिरा…पृथ्वी च पञ्चमी ।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥ १२.२५८.२ ॥

空、风、光……第五为地;有与无,以及时间——这五者存在于一切众生之中。

12.258.3

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् ।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित् ॥ १२.२५८.३ ॥

空属内在自我之性;耳是由它所成之根,其德应知为声——通晓典籍规则的牟尼如是说。

12.258.4

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥ १२.२५८.४ ॥

行动属风之性,呼气与吸气亦然。应知皮肤为触根,触觉亦由此而成。

12.258.5

तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् ।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान् ॥ १२.२५८.५ ॥

热、消化与光明,光与眼亦由此而成;其德,自制者应知为色,能破暗冥。

12.258.6

प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते ।
असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम्
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥ १२.२५८.६ ॥

湿润、流动与润滑,被教导为水之相;血、髓及其他润滑之物,应知为同一性质。舌为味根,味被认为是水之德。

12.258.7

संघातः पार्थिवो धातुरस्थिदन्तनखानि च ।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च ॥ १२.२५८.७ ॥

聚合体是地性的要素:骨骼、牙齿与指甲,胡须、体毛与头发,血管、筋腱与皮肤。

12.258.8

इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता ।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥ १२.२५८.८ ॥

名为嗅觉的根称为鼻;其境为气味,应知其为地性所成。

12.258.9

उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः ।
पञ्चानां भूतसङ्घानां संततिं मुनयो विदुः ॥ १२.२५८.९ ॥

后者皆具诸德,前者则无后者之德。诸仙人知五大元素之次第。

12.258.10

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता ।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते ॥ १२.२५८.१० ॥

其中意为第九,觉为第十。第十一为内我,此即一切,称为至上。

12.258.11

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् ।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः ॥ १२.२५८.११ ॥

觉的本性是决断,意的本性是分别。由业的推断,当知此即命我,名为知田者。

12.258.12

एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम् ।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते ॥ १२.२५८.१२ ॥

若以清净之觉见一切与这些时性之境相连,此人不随迷妄。