摩诃婆罗多 · 章 12.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.26.1
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च ।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥ १२.२६.१ ॥
少年阿毗摩努耶被杀之时,德劳帕蒂之子们之中,以及德利什塔矣雅姆那、毗罗吒和国王德鲁帕达之中。
12.26.2
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे ।
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥ १२.२६.२ ॥
在伐栗舍色那,在知法者德利什塔克图,在国王,以及来自各地的其他诸王,于战场之上。
12.26.3
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम् ।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम् ॥ १२.२६.३ ॥
悲伤不肯离开我——我这杀害亲族、痛苦、贪求王国、极其残暴、毁灭自家血脉之人。
12.26.4
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम् ।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः ॥ १२.२६.४ ॥
我曾在他的膝上嬉戏翻滚,那恒河之子却被我——贪图王国之人——在战场上击倒了。
12.26.5
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः ।
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥ १२.२६.५ ॥
当我看见他为我而在阿周那的箭下摇晃,仿佛被霹雳斩断,凝视着施康丁之时。
12.26.6
जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम् ।
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः ॥ १२.२६.६ ॥
见到智慧的祖父——如同老狮,人中雄狮——被燃烧的箭矢射穿,我的心痛苦不堪。
12.26.7
प्राड्भुखं सीदमानं च रथात्पररथारुजम् ।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥ १२.२६.७ ॥
我看见他面向东方从战车上倒下,这摧毁敌车的勇士摇晃如山,那时我便昏厥了。
12.26.8
यः सवाणधनुष्पाणिर्योधयामास भार्गवम् ।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥ १२.२६.८ ॥
那位手持弓箭的俱卢子孙,在俱卢之野的大战中与婆利古之子(持斧罗摩)激战多日。
12.26.9
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः ।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥ १२.२६.९ ॥
那位河神之子的英雄,在婆罗奈城为了那位少女,独自驾一辆战车向聚集的刹帝利诸王挑战。
12.26.10
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः ।
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः ॥ १२.२६.१० ॥
那位持猛烈武器的转轮王、难以接近的国王,被他以武器之威焚毁,而他在战斗中被我击倒。
12.26.11
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् ।
न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥ १२.२६.११ ॥
他为了保护自己免于死亡,没有用箭射倒般遮罗的勇士湿婆坎丁,却被阿周那所杀。
12.26.12
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् ।
तदैवाविशदन्युग्रो ज्वरो मां मुनिसत्तम ॥ १२.२६.१२ ॥
当我看见他浑身浴血倒在地上时,那时猛烈的热病便侵入了我,啊,最杰出的仙人。
12.26.13
येन संवर्धिता बाला येन स्म परिरक्षिताः ।
स मया राज्यलुब्धेन पापेन गुरुधातिना।
अल्पकालस्य राज्यस्य कृते मूढेन पातितः ॥ १२.२६.१३ ॥
养育孩子、保护他们的人,我因贪恋王国、作为有罪之人和杀师者,因愚昧为了短暂的王国而将他推倒。
12.26.14
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः ।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥ १२.२६.१४ ॥
这位被所有国王尊敬的伟大弓箭手和导师,在战场上靠近时,被罪人就其儿子而欺骗地告知了。
12.26.15
तन्मे दहति गात्राणि यन्मां गुरुरभाषत ।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः ॥ १२.२६.१५ ॥
老师对我所说的话灼烧着我的肢体。国王啊,请告诉我真相:我的儿子是否还活着。
12.26.16
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान् ।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया ॥ १२.२६.१६ ॥
那位婆罗门权衡真理,就此问我;而我以大象作区分,用谎言对待了他。
12.26.17
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे ॥ १२.२६.१७ ॥
我极度贪恋王国,是罪人,杀师者,卸下了真理的铠甲,在战斗中将那位老师击倒了。
12.26.18
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते ।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम् ॥ १२.२६.१८ ॥
“马嘶之子已被杀”——象被杀时这样宣布。做了如此艰难的事,我将前往哪些世界呢?
12.26.19
अघातयं च यत्कर्णं समरेष्वपलायिनम् ।
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः ॥ १२.२६.१९ ॥
我使那在战场上从不逃避的迦尔纳——我的兄长——被杀害。比我更大的罪人,还有谁如此残忍?
12.26.20
अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु ।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥ १२.२६.२० ॥
还有阿毗曼尤,那如山中之狮般出生的少年,我因贪欲将他送入德罗纳守护的军队。
12.26.21
तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम् ।
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा ॥ १२.२६.२१ ॥
从那时起,我不能直视毗跋蹉(阿周那),也不能直视莲花眼的克里希那,就像杀害胎儿的罪人一样。
12.26.22
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम् ।
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥ १२.२६.२२ ॥
德罗波蒂虽不应受苦,却失去了五个儿子,我为她悲伤;也为那失去五座山的大地悲伤。
12.26.23
सोऽहमागस्करः पापः पृथिवीनाशकारकः ।
आसीन एवमेवेदं शोषयिष्ये कलेवरम् ॥ १२.२६.२३ ॥
我这罪孽深重的罪人,是大地毁灭的根源,我就这样坐着,把这身体耗干。
12.26.24
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम् ।
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥ १२.२६.२४ ॥
现在你们知道,我这杀害师长的人已经坐下绝食至死,以免在其他生世也成为灭族之人。
12.26.25
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन ।
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः ॥ १२.२६.२५ ॥
我不吃,也不喝水,无论如何都不享用。就站在这里,我要使我亲爱的生命之气枯竭,哦,苦行的富有者们。
12.26.26
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः ।
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ॥ १२.२६.२६ ॥
你们随意离去吧;我安抚了你们,准许你们离开。你们都允许我吧,我将舍弃这个身体。
12.26.27
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ।
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥ १२.२६.२७ ॥
那位因亲属之悲而失魂落魄、如此说话的般度之子,被最优秀的圣人毗耶娑阻止,他说:"不要这样做。"
12.26.28
अतिवेलं महाराज न शोकं कर्तुमर्हसि ।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो ॥ १२.२६.२८ ॥
大王啊,你不应过度悲伤。我再说一遍:这是命运的安排,主啊。
12.26.29
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् ।
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च ॥ १२.२६.२९ ॥
对于出生的众生,聚合与分离必定如此。它们如水中的泡沫般生起,也如泡沫般不生起。
12.26.30
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १२.२६.३० ॥
一切积聚终归于衰败,一切高升终归于坠落;聚合终归于分离,生命终归于死亡。
12.26.31
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥ १२.२६.३१ ॥
幸福以痛苦告终,懒惰(存在);由于娴熟而有痛苦,也有幸福的升起。繁荣、吉祥、羞耻心、坚定与名声,居于勤勉者之中,而不在懒惰者之中。
12.26.32
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः ।
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥ १२.२६.३२ ॥
朋友不足以带来幸福,敌人也不足以带来痛苦。智慧不足以带来财富,财富也不足以带来享乐。
12.26.33
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्क्ररु ।
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप ॥ १२.२६.३३ ॥
昆提之子啊,依照造物主所造你的样子,就在行动中那样去做;因此你将获得成就。国王啊,你并不是自己的主宰。