Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.260

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.260.1

हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः ।
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः ॥ १२.२६०.१ ॥

心中生长着一棵奇异的欲望之树,它由迷惑的积聚而生。愤怒与傲慢是它的大树干;求知的渴望环绕着它。

12.260.2

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् ।
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान् ॥ १२.२६०.२ ॥

它的根基是无知,而放逸是浇灌它的水。嫉妒是它的叶子;它充满了往昔恶行的精华。

12.260.3

संमोहचिन्ताविटपः शोकशाखो भयाङ्कुरः ।
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः ॥ १२.२६०.३ ॥

迷乱与忧虑是它的枝条,悲伤是它的大枝,恐惧是它的嫩芽。它缠绕着迷惑人的渴爱之藤。

12.260.4

उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः ।
आयतैः संयुताः पाशैः फलदं परिवेष्ट्य तम् ॥ १२.२६०.४ ॥

极其贪婪的人侍奉那棵大树,渴望它的果实。他们用长长的绳索缠绕这结果之树,自己也被它束缚。

12.260.5

यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति ।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः ॥ १२.२६०.५ ॥

能够制服那些绳索、连根拔起那棵树的人,已经到达了痛苦的尽头,也到达了衰老与死亡两者的尽头。

12.260.6

संरोहत्यकृतप्रज्ञः ससत्वो हन्ति पादपम् ।
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम् ॥ १२.२६०.६ ॥

智慧未成熟的人会重新萌发,凭着生命力击打那棵树;然而他自己受伤后,又反过来杀死它,就像吞下毒药的病人被毒所害。

12.260.7

तस्यानुगतमूलस्य मूलमुद्भियते बलात् ।
योगप्रसादात्कृतिना साम्येन परमासिना ॥ १२.२६०.७ ॥

追随其根者以力拔除其根;凭借瑜伽的恩典,有修为的人以平等这把至上之剑做到这一点。

12.260.8

एवं यो वेद कामस्य केवलं परिसर्पणम् ।
एतच्च कामशास्त्रस्य सुदुःखान्यतिवर्तते ॥ १२.२६०.८ ॥

如此只知欲望的蔓延者——这便是欲望之论的精髓——便能超越极大的苦难。

12.260.9

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते ।
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥ १२.२६०.९ ॥

身体被称为城市,智力被视为其主妇。在那里,身中之智的意,名为思虑对象者。

12.260.10

इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः ।
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः ॥ १२.२६०.१० ॥

诸根是城中之民,为之而有极大的营求。其中有两种可怕的过失,名为暗(tamas)与激(rajas)。城民正是为了它们,与城主一同生活。

12.260.11

अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ।
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते ॥ १२.२६०.११ ॥

不经门户,二过便依此对象而生。其中智力确实难以制服;意被称为与之同类之性。

12.260.12

पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः ।
यदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति ॥ १२.२६०.१२ ॥

城民亦借意而得满足,其安定也不稳固。智力所专注的那个对象,正是灾祸,使其沉沦。

12.260.13

पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात् ।
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥ १२.२६०.१३ ॥

与市民商议隔绝者,其所图之事渐渐崩坏;为之而另行专注的心,也随之衰颓。

12.260.14

पृथग्भूतं मनो बुद्ध्या मनो भवति केवलम् ।
तत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते ॥ १२.२६०.१४ ॥

与觉悟分离的心只剩下心;在那里,他变得扭曲而空虚,罗阇(激情)便笼罩他。

12.260.15

तन्मनः कुरुते सख्यं रजसा सह संगतम् ।
तं चादाय जनं पौरं रजसे संप्रयच्छति ॥ १२.२६०.१५ ॥

那心与罗阇相合而结为友;又将那城中之人带去,交付给罗阇。