Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.261

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.261.1

भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय ।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ ॥ १२.२६१.१ ॥

毗湿摩说:儿子啊,请再听一遍诸元素之德的列举,我从二足仙(毗耶娑)口中以极大的喜悦听来,无垢者啊。

12.261.2

दीप्तानलनिभः प्राह भगवान्धूमवत्सलः ।
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ॥ १२.२६१.२ ॥

毗湿摩说:那位如燃烧之火、喜爱烟雾的世尊曾经说过。因此儿子啊,我也要再以例证来说明。

12.261.3

भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता ।
गन्धो भारश्च शक्तिश्च संघातः स्थापना धृतिः ॥ १२.२६१.३ ॥

地之德为:坚固、重量、硬度、生养之性、气味、重量、力量、聚合、支撑与执持。

12.261.4

अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता ।
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा ॥ १२.२६१.४ ॥

水之德为:清凉、味道、湿润、流动、润滑与柔和;湿润舌头,同样也能煮熟地上的物质。

12.261.5

अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम् ।
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता ॥ १२.२६१.५ ॥

火之德为:难以抵挡、光明、热、烹熟、照明、清净、赤色、轻、锐利,以及恒常向上之性。

12.261.6

वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता ।
बलं शैध्यं च मोक्षं च कर्म चेष्टात्मता भवः ॥ १२.२६१.६ ॥

风之德为:无定的触感、言语之所、自在、力量、迅速、解脱、作用、动作之性与生起。

12.261.7

आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च ।
अनाश्रयमनालम्बमव्यक्तमविकारिता ॥ १२.२६१.७ ॥

虚空(ākāśa)的属性是声音,还有遍在与空隙性;它无所依托、无所凭藉,不显现,也不变易。

12.261.8

अप्रतीघातिता चैव श्रोतत्वं विवराणि च ।
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः ॥ १२.२६१.८ ॥

无障碍、听觉以及空洞;这五十种属性由五大所显现,已被宣说。

12.261.9

फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा ।
सदसच्चाशुता चैव मनसो नव वै गुणाः ॥ १२.२६१.९ ॥

得果、显现、发散、构想、忍耐、有与无、迅疾——这九种是心的属性。

12.261.10

इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता ।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ॥ १२.२६१.१० ॥

好与不好的挫败、决断、定心、疑惑与理解——智者知这五种是觉性(buddhi)的属性。

12.261.11

कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः ।
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ॥ १२.२६१.११ ॥

五德之觉如何?五根之德又如何?祖父啊,请以精微的智慧把这一切都讲给我听。

12.261.12

आहुः षष्टिं भूतगुणान्वै ।
भूतविषक्तान्प्रकृतिविसृष्टान्।
नित्यविषक्तांश्चाक्षरसृष्टा ।
न्पुत्र न नित्यं तदिह वदन्ति ॥ १२.२६१.१२ ॥

人们说有六十种元素之德:依附于元素,由原初自性所生,永久依附,由不灭者所造。孩子,此处并不说它们是恒常的。

12.261.13

तत्पुत्रचिन्ताकलिलं तदुक्त ।
मनागतं वै तव संप्रतीह।
भूतार्थवत्त्वं तदवाप्य सर्वं ।
भूतप्रभावाद्भव शान्तबुद्धिः ॥ १२.२६१.१३ ॥

被对儿子的忧虑所困扰,此事已如此说明。现在这里,那尚未到来的事物已为你稍稍显现。获得众生的真实意义之境,凭众生之力,成为心意寂静的人。