摩诃婆罗多 · 章 12.262
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.262.1
य इमे पृथिवीपालाः शेरते पृथिवीतले ।
पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥ १२.२६२.१ ॥
这些守护大地的国王躺在大地之上;在军队之中,这些大力者已失去生命之气。
12.262.2
एकैकशो भीमबला नागायुतबलास्तथा ।
एते हि निहताः सङ्ख्ये तुल्यतेजीबलैर्नरैः ॥ १२.२६२.२ ॥
这些力量可怕、如同万头象力的人,一个接一个,在战场上被同样有威光与力量的人杀死了。
12.262.3
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा ।
विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः ॥ १२.२६२.३ ॥
我看不到过去在战场上有谁能杀死这些人;他们具备勇气,拥有威光与力量。
12.262.4
अथ चेमे महाप्राज्ञाः शेरते हि गतासवः ।
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥ १२.२६२.४ ॥
这些大智慧者也失去气息躺卧;“死者”这个词正用于这些失去气息的人。
12.262.5
इमे मृता नृपतयः प्रायशो भीमविक्रमाः ।
तत्र मे संशयो जातः कुतः संज्ञा मृता इति ॥ १२.२६२.५ ॥
这些武勇可怕的国王大多已经死去;我心中生起疑问:“死亡”这一观念从何而来?
12.262.6
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः ।
हरत्यमरसंकाश तन्मे ब्रूहि पितामह ॥ १२.२६२.६ ॥
这是谁的死亡?死亡从何而来?此处是谁让死亡夺走众生?如天神一般的祖父啊,请告诉我。
12.262.7
पुरा कृतयुगे तात राजा ह्यासीदकम्पनः ।
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः ॥ १२.२६२.७ ॥
很久以前,在克利塔时代,我的孩子,有一位名叫阿甘帕那的国王。他在战斗中落入敌人之手,他的车驾都被毁坏了。
12.262.8
तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ॥ १२.२६२.८ ॥
他的儿子名叫哈里,力量与那罗延相等。在战斗中,他与军队、步兵和随从一起被敌人杀死。
12.262.9
स राजा शत्रुवशगः पुत्रशोकसमन्वितः ।
यदृच्छया शान्तिपरो ददर्श भुवि नारदम् ॥ १२.२६२.९ ॥
那位国王落入敌人之手,又为儿子悲伤,一心寻求平静,偶然在大地上看见了那罗陀。
12.262.10
तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः ।
शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ॥ १२.२६२.१० ॥
那位人主把所发生的一切如实告诉了他——在战斗中被敌人俘获,以及儿子的死亡。
12.262.11
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥ १२.२६२.११ ॥
那罗陀听了他的话,他是苦行即财富的人,便讲述了这个能消除丧子之痛的故事。
12.262.12
राजञ्शृणु महाख्यानं ममेदं बहुविस्तरम् ।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥ १२.२६२.१२ ॥
国王啊,请听我这个宏大而详尽的故事。大地之主啊,我如实讲述所发生的事,也讲我所听闻的。
12.262.13
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः ।
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥ १२.२६२.१३ ॥
大光明的祖父创造了众生;然而在众生的创造中,它们过度增长,变得数不胜数;他又无法容忍它们。
12.262.14
न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत ।
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥ १२.२६२.१४ ॥
阿修多啊,任何地方都没有因众生而留下一丝空隙;国王啊,三界仿佛失去了呼吸而膨胀起来。
12.262.15
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते ।
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥ १२.२६२.१५ ॥
地主啊,他心中生起了关于毁灭的忧虑;他思索之后,仍未找到毁灭的因由与缘故。
12.262.16
तस्य रोपान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
तेन सर्वा दिशो राजन्ददाह स पितामहः ॥ १२.२६२.१६ ॥
大王啊,从他的愤怒中,火从天空的孔隙中升起;国王啊,那位祖父以此焚烧了所有方向。
12.262.17
ततो दिवं भुवं खं च जगच्च सचराचरम् ।
ददाह पावको राजन्भगवत्कोपसंभवः ॥ १२.२६२.१७ ॥
然后,国王啊,那由世尊之怒所生的火焚毁了天、地、空,以及包括动与不动之物在内的整个世界。
12.262.18
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च ।
महता क्रोधवेगेन कुपिते प्रपितामहे ॥ १२.२६२.१८ ॥
当那位曾祖父被巨大的愤怒力量所激怒时,动与不动的众生都在那里被焚烧。
12.262.19
ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः ।
जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम् ॥ १२.२६२.१९ ॥
于是,束发的、不动的神、祭祀之主、吉祥的湿婆(诃罗)前往至尊梵天处寻求庇护。
12.262.20
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥ १२.२६२.२० ॥
当斯塔努(湿婆)走近时,出于对众生福祉的愿望,赐予恩惠的神梵天仿佛燃烧着一般对湿婆说道。
12.262.21
करवाण्यद्य कं कामं व्नरार्होऽसि मतो मम ।
कर्ता ह्यसि प्रियं शंभो तव यद्धृदि वर्तते ॥ १२.२६२.२१ ॥
今日我该满足你的何种愿望?你为我所敬重。啊,商布,你确实是实现心中所愿之事的人。