摩诃婆罗多 · 章 12.263
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.263.1
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो ।
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥ १२.२६३.१ ॥
主啊,请知道我这为创造众生而行的职责。祖父啊,它们是由您所造,请不要愤怒。
12.263.2
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥ १२.२६३.२ ॥
天神啊,以您光辉之火,众生尽皆焚烧。见到他们,我心生慈悲;世界之主啊,请不要愤怒。
12.263.3
न कुप्ये न च मे कामो नभवेयुः प्रजा इति ।
लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥ १२.२६३.३ ॥
我并不愤怒,我也不愿众生不存在。为了减轻大地的负担,因此才希望有所毁灭。
12.263.4
इयं हि मां सदा देवी भारार्ता समचोदयत् ।
संहारार्थं महादेव भारेणाप्सु निमज्जती ॥ १२.२६३.४ ॥
这位女神大地,被重负所苦,一直催促我行毁灭。大天神啊,她因重负而沉入水中。
12.263.5
यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥ १२.२६३.५ ॥
当我以智慧反复思量,却找不到毁灭这些长者的办法时,愤怒便进入了我心。
12.263.6
संहारात्त्वं निवर्तस्य मा क्रुधो विवुधेश्वर ।
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः ॥ १२.२६३.६ ॥
天神之主啊,请从毁灭中回转,不要愤怒。不要将不动和能动的众生全部毁灭。
12.263.7
पल्वलानि च सर्वाणि सर्वं चैव तृणीलपम् ।
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥ १२.२६३.७ ॥
一切池沼,一切草木,静止与运动之物,四类众生。
12.263.8
अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् ।
प्रसीद भगवन्साधो वर एष वृतो मया ॥ १२.२६३.८ ॥
非时之间,整个世界化为灰烬,陷于苦难。请垂怜,尊贵的主,善者啊!这便是我所求的恩赐。
12.263.9
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन ।
तस्मान्निवर्ततामेतत्तेन स्वेनेव तेजसा ॥ १२.२६३.९ ॥
这些被毁灭的众生,无论如何也不会再回来。所以愿此毁灭以其自身的光辉收回。
12.263.10
उपायमन्यं संपश्य भूतानां हितकाम्यया ।
यथामी जन्तवः सर्वे न दह्येरन्पितामह ॥ १२.२६३.१० ॥
出于对众生福祉的愿望,请另寻一法,使这一切众生不被焚毁,祖父啊。
12.263.11
अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः ।
पुत्रत्वेनानुसंकल्प्ये तदाऽहं तप्य दानवैः।
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना ॥ १२.२६३.११ ॥
愿那些后嗣已断的众生不致陷入灭无。那时,我视之如子,却为檀那婆所苦。你为世界的福祉着想,委任我于神界之位。
12.263.12
त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम् ।
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥ १२.२६३.१२ ॥
世界之主啊,这一切静止与运动之物都源于你。大天神啊,我以恳求使你欢喜,求那些因更新而重生的众生。
12.263.13
श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्भनाः ।
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि ॥ १२.२६३.१३ ॥
天神聆听了斯塔奴的话语,收摄言语与心意,将那团火焰般的能量重新收回自己的内在自我之中。
12.263.14
ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः ।
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ॥ १२.२६३.१४ ॥
此时,受诸世界供奉的世尊收摄了那团火,并确立了活动与止息两者。
12.263.15
उपसंहरतस्तस्य तमग्निं रोषजं तदा ।
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥ १२.२६३.१५ ॥
当那位大德收摄由愤怒所生的那团火时,一位女子从所有天空的虚空中显现出来。
12.263.16
कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा ।
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता ॥ १२.२६३.१६ ॥
身着黑红二色衣裳,眼睛深处有黑色的瞳仁,佩戴着神圣的耳环,并以神圣的饰物装饰。
12.263.17
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् ।
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ ॥ १२.२६३.१७ ॥
她从天空中走出,投向南方;两位宇宙之主的天神看见了这位少女。
12.263.18
तामाहूय तदा देवो लोकानामादिरीश्वरः ।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥ १२.२६३.१८ ॥
此时,诸世界的初始主宰天神召唤她,说:“死亡啊,毁灭这些众生吧!”——如是,啊,大地的守护者。
12.263.19
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥ १२.२६३.१९ ॥
我因愤怒而以毁灭之意构想了你。因此,你要毁灭一切众生,无论愚者还是智者。
12.263.20
अविशेषेण चैव त्वं प्रजाः संहर कामिनि ।
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥ १२.२६३.२० ॥
哦,可爱的女子,你依我的命令不分彼此地毁灭众生,由此你将获得至高的福祉。
12.263.21
एवमुक्ता तु या देवी मृत्युः कमलमालिनी ।
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च ॥ १२.२६३.२१ ॥
被如此告知后,身戴莲花花环的女神死亡,这位悲伤的少女,陷入沉思,泪流不止。
12.263.22
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः ।
मानवानां हितार्थाय ययाचे पुनरेव ह ॥ १२.२६३.२२ ॥
人主用双手接住了那些眼泪,并为了人类的福祉再次恳求她。