Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.264

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.264.1

विनीय दुःखमबला साऽऽत्मनैवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा तमेवावर्जिता तदा ॥ १२.२६४.१ ॥

她抑制住悲痛,这位大眼的弱女子合掌向他行礼,随即亲自开口说道。

12.264.2

त्वया सृष्टा कथं नारी मादृशी वदतां वर ।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥ १२.२६४.२ ॥

辩才第一者啊,您所创造的像我这样的女子,怎会为残酷之行而生,成为一切众生的恐怖?

12.264.3

विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा ॥ १२.२६४.३ ॥

我畏惧非法;请为我指定合乎正法的行事。请以慈善而主宰的眼光看着惊惧的我。

12.264.4

बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः ।
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे ॥ १२.२६४.४ ॥

我不应夺取孩童、老人、壮年人和无辜的众生。众生之主啊,向您致敬;请对我慈悲。

12.264.5

प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितृनपि ।
अपध्यास्यन्ति यद्येवं मृतास्तेभ्यो विभेम्यहम् ॥ १२.२६४.५ ॥

若我所爱的儿子、伙伴、兄弟、母亲与父亲在死后这样诅咒我,我便怕他们。

12.264.6

कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥ १२.२६४.६ ॥

被不幸者泪水浸透的诅咒,将使我永世焚烧。我极其畏惧他们,因此前来投奔您的庇护。

12.264.7

यमस्य भवने देव पात्यन्ते पापकर्मिणः ।
प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो ॥ १२.२६४.७ ॥

神啊,在阎摩的居所,作恶的人被抛下。赐予恩惠者啊,我恳求你;主啊,请赐我恩典。

12.264.8

एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं महेश्वर ॥ १२.२६४.८ ॥

世界的祖父啊,这是我向你所求的:凭你的恩典,我愿修习苦行,伟大的主啊。

12.264.9

त्वं हिं संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय ॥ १२.२६४.९ ॥

我怀着愤怒与毁灭之意构想了你。因此你要毁灭一切众生,不必犹豫。

12.264.10

एतदेवमवश्यं हि भविता नैतदन्यथा ।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥ १२.२६४.१० ॥

这必定会这样发生,不会有别的结果。肢体无瑕之人啊,请按我所说的,依照我的话去做,无罪之人啊。

12.264.11

एवमुक्ता महाबाहो मृत्युः परपुरंजय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥ १२.२६४.११ ॥

被这样吩咐,大臂者,征服敌城者啊,死神没有说话;她谦卑地站立,面向世尊。

12.264.12

पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः ॥ १२.२६४.१२ ॥

虽然一再被呼唤,那容光焕发的女子仍然沉默,仿佛失去了生命。于是,众世界之主的主宰,神,也沉默了。

12.264.13

प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मनि ।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥ १२.२६४.१३ ॥

梵天自己在自己之中平静下来。众世界之主微笑着注视着一切世界。

12.264.14

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽथ जगामास्य समीपादिति नःश्रुतम् ॥ १२.२६४.१४ ॥

当那位不败的世尊怒气平息后,据我们所闻,那少女便离开了他的身边。

12.264.15

अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥ १२.२६४.१५ ॥

大王啊,死神未应允毁灭众生便退去了,随后仿佛急切地走向了达努卡。

12.264.16

सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च ॥ १२.२६४.१६ ॥

那位女神在那里修持了最高而极其艰难的苦行;她单足站立了十个帕德玛又五个(时期)。

12.264.17

तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥ १२.२६४.१७ ॥

她在那里如此修持最为艰难的苦行时,大光明的梵天再次对她说了这些话。

12.264.18

कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥ १२.२६४.१८ ॥

“死神啊,遵从我的话,不必顾虑,快去吧。”孩子,她同样单足站立,又过了七个(时期)。

12.264.19

तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद ।
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥ १२.२६४.१९ ॥

她站立了六、五、二个莲花期,尊贵的给予者,亲爱的孩子;然后又与鹿群一起漫游了一万个莲花期。

12.264.20

द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते ।
पुनरेव ततो राजन्मौनमातिष्ठदुत्तमम् ॥ १२.२६४.२० ॥

两阿由塔,人中之最,她只以风为食,大智者;然后,国王啊,她又持守了至高的沉默。

12.264.21

अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ।
ततो जगाम सा कन्या कौशिकीं नृपसत्तम ॥ १२.२६४.२१ ॥

她在水中度过了七千年又一年,国王啊;然后那位少女前往考希基河,王中之最。

12.264.22

तत्र वायुजलाहारा चचार नियमं पुनः ।
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ॥ १२.२६४.२२ ॥

她在那里以风和水为食,再次持守戒律;然后,大福之人啊,她前往恒河,只去了须弥山。

12.264.23

तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया ।
ततो हिमवतो मूर्ध्निं यत्र देवाः समीजिरे ॥ १२.२६४.२३ ॥

她如同木桩一般一动不动地站立,为了众生的福祉而愿;然后到了喜马拉雅山顶,那里是众神聚集之处。

12.264.24

तत्राङ्गुष्ठेन राजेन्द्र निखर्वमचरत्तपः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥ १२.२६४.२४ ॥

在那里,王中之王啊,她以一只脚趾站立,修行了一个尼卡尔瓦;并且站立着,她努力地使祖父(梵天)欢喜。

12.264.25

ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः ।
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः ॥ १२.२६४.२५ ॥

于是诸世界的曾祖父在那里对她说:"女儿啊,你在做什么?照我的话去做吧。"

12.264.26

ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये ॥ १२.२६४.२६ ॥

于是死神再次对尊贵的祖父说:"天神啊,我不会夺走众生;我再次恳请您。"

12.264.27

तामधर्मभयाद्भीतां पुनरेव प्रयाचतीम् ।
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥ १२.२६४.२७ ॥

那时,天神之神克制自己,对因惧怕不法而惊恐、又再次恳求的她说了这些话。

12.264.28

अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।
मयाऽप्युक्तं मृषा भद्रे भविता नेह किंचन ॥ १२.२६४.२८ ॥

"死神啊,你并无不法之过;吉祥的女神啊,请克制这些众生。即使我所说的话也成为虚妄吧,善良的女神;此地将不会有任何事发生。"

12.264.29

धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति ।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥ १२.२६४.२९ ॥

"永恒的法将在此进入你之中;我与诸神始终专心于你的福祉。"

12.264.30

इमन्यं च ते कामं ददानि मनसेप्सितम् ।
न त्वां दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥ १२.२६४.३० ॥

"我还赐予你另一个你心中所愿的心愿:被疾病折磨的众生不会因过错而到你那里去。"

12.264.31

पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥ १२.२६४.३१ ॥

在男性中你以男相出现,在女性中以女相出现,在第三性中则为非男非女者。

12.264.32

सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥ १२.२६४.३२ ॥

大王,她被如此告知后,合掌对那位大神、不灭的天神之主再次说道:「不。」

12.264.33

तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।
अधर्मस्ते न भविता यथा ध्यास्याम्यहं शुभे ॥ १२.२६४.३३ ॥

那时天神对她说:「死亡啊,去消灭人类吧;如我所思,吉祥者,你不会有罪过。」

12.264.34

त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि ।
अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम् ॥ १२.२६४.३४ ॥

你能干且合适,是先前所生,夫人;受过教导,无可指责。因此,请完成我的心愿。

12.264.35

यानश्रुबिन्दून्पतितानपश्यं ।
ये पाणिभ्यां धारितास्ते पुरस्तात्।
ते व्याधयो मानवान्घोररूपाः ।
प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥ १२.२६४.३५ ॥

我看到落下的泪滴,被双手承接的那些——是可怖形态的疾病,待时机到来时,它们将折磨人类,死亡啊。

12.264.36

सर्वेषां त्वं प्राणिनामन्तकाले ।
कामक्रोधौ सहितौ योजयेथाः।
एवं धर्मस्त्वामुपैष्यत्यमोघो ।
न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥ १२.२६४.३६ ॥

在一切众生临终之时,你要使欲望与愤怒相互结合。如此,不失的法将来到你身边,你行为平等,不会得到罪过。

12.264.37

एवं धर्मं पालयिष्यस्यथो त्वं ।
न चात्मानं मञ्जयिष्यस्यधर्मे।
तस्मात्कामं रोचयाभ्यागतं त्वं ।
सा त्वं साधो संहरस्वेह जन्तून् ॥ १२.२६४.३७ ॥

如此你将守护法,不会沉溺于非法。因此,接受到来的欲望吧。善人啊,在此毁灭众生。

12.264.38

सा वै तदा मृत्युसंज्ञा कृतास्त्री ।
शापाद्भीता बाढमित्यब्रवीत्तम्।
अथो प्राणान्प्राणिनामन्तकाले ।
कामक्रोधौ प्राप्य नित्यं निहन्ति ॥ १२.२६४.३८ ॥

那时名为死亡的执械女子因诅咒而恐惧,对他说:“好吧。”然后,在众生临终之时,她获得欲望与愤怒,便总是夺走他们的生命之气。

12.264.39

मृत्योर्ये ते व्याधयश्चाश्चुपाता ।
मनुष्याणां युज्यते यैः शरीरम्।
सर्वेषां वै प्राणिनां प्राणनान्ते ।
तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या ॥ १२.२६४.३९ ॥

那些死亡的疾病与坠马之类的意外,使人的身体受其束缚,它们在众生气息断绝之时降临。因此,以智慧领悟,不要悲伤。

12.264.40

सर्वे देवाः प्राणिनां प्राणनान्ते ।
गत्वा वृत्ताः सन्निवृत्तास्तथैव।
एवं सर्वे मानवाः प्राणनान्ते ।
गत्वा वृत्ता देववद्राजसिंह ॥ १२.२६४.४० ॥

所有的神也在众生气息断绝之时离去又回来;亦复如此。如此,所有人在气息断绝之时离去,如同诸神,王中雄狮啊。

12.264.41

वायुर्भीमो भीमनादो महौजाः ।
सर्वेषां च प्राणिनां प्राणभूतः।
अनावृत्तिर्देहिनां देहपाते ।
तस्माद्वायुर्देवदेवो विशिष्टः ॥ १२.२६४.४१ ॥

风神可怖,吼声骇人,威力广大。他是一切众生的生命之气。有身者身体倒下之后便不再返回。因此风神是诸神之神,最为殊胜。

12.264.42

सर्वे देवा मर्त्यसंज्ञाविशिष्टाः ।
सर्वे मर्त्या देवसंज्ञाविशिष्टाः।
तस्मात्पुत्रं मा शुचो राजसिंह ।
पुत्रः स्वर्गं प्राप्यते मोदते हे ॥ १२.२६४.४२ ॥

诸神以凡人之名而显,凡人以神之名而显。因此,王中之狮,不要为儿子悲伤。儿子得生天界,欢喜快乐。

12.264.43

एवं मृत्युर्देवसृष्टा प्रजानां ।
प्राप्ते काले संहरन्ती यथावत्।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः ।
प्राप्ते काले संहरन्तीह जन्तून् ॥ १२.२६४.४३ ॥

如此,神所造的死亡,在时候到来时,依次夺走众生。它的疾病与泪水也随之而来。时候一到,它便在此夺去众生。