摩诃婆罗多 · 章 12.265
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.265.1
इमे वै मानसाः सर्वे धर्मं प्रति विशङ्किताः ।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥ १२.२६५.१ ॥
这些心中的疑惑都关乎法。这法是什么?法从何而来?祖父,请告诉我。
12.265.2
धर्मस्त्वयमिहार्थः किममुत्रार्थोपि वा भवेत् ।
उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह ॥ १२.२६५.२ ॥
这法的目的只在此世,还是也可能有来世的目的?或者法同时服务于两者?祖父,请告诉我。
12.265.3
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।
चतुर्थमर्थमप्याहुः कवयो धर्मलक्षणम् ॥ १२.२६५.३ ॥
善行、传统(smṛti)和吠陀,是法的三种标志。智者还称利(artha)为法的第四种标志。
12.265.4
अविध्युक्तानि कर्माणि व्यवस्यन्त्युप्तमूषरे ।
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ॥ १२.२६५.४ ॥
人们所做的未经典章规定的行为,就像撒在贫瘠土地上的种子。法的规则之所以设立,只是为了世间生活的秩序。
12.265.5
उभयत्र सुखोदर्क इह चैव परत्र च ।
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति ॥ १२.२६५.५ ॥
若未能领悟精微的法,罪人便执着于罪,尽管法在此世与来世都结出快乐的果实。
12.265.6
न च पापकृतः पापान्मुच्यन्ते केचिदापदि ।
अपापवादी भवति यथा भवति धर्मवित्।
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य चावसेत् ॥ १२.२६५.६ ॥
有些作恶的人即使在困厄中也无法摆脱罪过。懂法的人不说人坏话。法的根基是自身的行为;应当依靠它而生活。
12.265.7
यथाधर्मसमाविष्टो धनं गृह्णाति तस्करः ।
रमते निर्हरस्तेनः परवित्तमराजके ॥ १२.२६५.७ ॥
如同完全沉溺于非法的盗贼夺取财物,在无王之国,劫掠者与强盗以他人之财为乐。
12.265.8
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति ।
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥ १२.२६५.८ ॥
当他人夺去他的财物时,他便渴望一位君王;那时,他又羡慕那些满足于自己财富的人。
12.265.9
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः ।
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥ १२.२६५.९ ॥
无所畏惧、清净的人毫无疑虑地走近王门,因为他在内心中看不到任何不善的行为。
12.265.10
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥ १२.२६५.१० ॥
真实之言为善;没有比真实更高的。一切都由真实所维系,一切都建立于真实之中。
12.265.11
अपि पापकृतो रौद्राः सत्यं कृत्वा मिथःकृतम् ।
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ॥ १२.२६५.११ ॥
即便是凶残的作恶者,只要遵守彼此所立的誓约,便不背叛、不争执,依靠这誓约而行。
12.265.12
ते चेन्मिथ्या धृतिं कुर्युर्विनश्येयुरसंशयम् ।
न हर्तव्यं परधनमिति धर्मविदो विदुः ॥ १२.२६५.१२ ॥
若他们虚假地立誓,必定毁灭无疑。通晓法者知道,不可夺取他人之财。
12.265.13
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।
यदा नियतिदौर्बल्यमथैषामेव रोचते ॥ १२.२६५.१३ ॥
强者把弱者所发动的那种行为视为命运的软弱,当这合乎他们自己的心意时。
12.265.14
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोपि वा ।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन ॥ १२.२६५.१४ ॥
有力量的人也不会永远完全拥有力量,也不总是幸福。因此,你的心意绝不可转向欺诈。
12.265.15
असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः ।
अकिंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥ १२.२६५.१५ ॥
不伤害任何人的人,不怕恶人、盗贼或国王。让他无畏而纯洁地生活。
12.265.16
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् ।
बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति ॥ १२.२६५.१६ ॥
盗贼四面疑惧,如同进入村庄的鹿。他所犯的种种罪过,只看见在别人身上。
12.265.17
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा ।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥ १२.२६५.१७ ॥
欢乐而纯洁的人总是无所畏惧地四处行走;他不会在别人身上看见自己的任何不善行为。
12.265.18
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः ।
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥ १२.२६५.१८ ॥
"应当施与"——这是致力于众生福利者所宣说的法。富有者却认为这是吝啬者所发动的。
12.265.19
यदा नियतिकार्पण्यमथैपामव रोचते ।
धनवन्तोपि नात्यन्तं भवन्ति सुखिनोपि वा ॥ १२.२६५.१९ ॥
当他们喜欢命运所致的吝啬时,即便富人也不会完全快乐,甚至也不会满足。
12.265.20
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः ।
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥ १२.२६५.२० ॥
人不应对他人做他人加于自己、自己不愿承受的事,因为知道那会令自己不快。
12.265.21
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति ।
यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः ॥ १२.२६५.२१ ॥
若成为他人妻子的情夫,他又有何资格对谁说什么?我的看法是:不应对他人做自己无法忍受的事。
12.265.22
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् ।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥ १२.२६५.२२ ॥
想要活命的人,怎能去杀害他人?凡是自己所求的,也应当为他人着想。
12.265.23
अतिरिक्तः संविभजेद्भोगैरन्यानकिंचनान् ।
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥ १२.२६५.२३ ॥
有余财者应当把财物分给一无所有之人;正因如此,造物主才设立了放债取息之制。
12.265.24
यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत् ।
अथ चेल्लोभसमये स्थितिर्धर्मोऽपि शोभना ॥ १२.२६५.२४ ॥
正如诸神各守其时,事情亦是如此;若在贪欲之时秩序仍能维持,那么法也就美好了。
12.265.25
सर्वं प्रियाभ्युपगतं पुण्यमाहुर्मनीषिणः ।
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥ १२.२६५.२५ ॥
智者称凡被欣然接受的一切为功德。阅此法与非法的标志指示吧,坚战。
12.265.26
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा ।
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥ १२.२६५.२६ ॥
善人这至上的行为,与维系世界相连,古时由造物主所规定,依于微妙的法与义而确立。
12.265.27
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम ।
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन ॥ १२.२६५.२७ ॥
库鲁中最杰出者,法的这一标志已向你宣说。因此,你的心智绝不可偏向邪曲。