Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.266

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.266.1

सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् ।
प्रतिभा त्यस्ति मे काचित्तां ब्रूयामनुमानतः ॥ १२.२६६.१ ॥

您精微而恰当地阐明了法的特征。我凭推断有些见解,我愿说出来。

12.266.2

भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया ।
इदं त्वन्यत्प्रवक्ष्यामि न राजन्निग्रहादिव ॥ १२.२६६.२ ॥

大王,我心中的许多疑问已被您解答。我还要说另一件事,并非出于强迫。

12.266.3

इमानि हि प्राणयन्ति सृदन्त्युत्तारयन्ति च ।
न धर्मः परिपाठेन शक्यो भारत वेदितुम् ॥ १२.२६६.३ ॥

这些既能维持生命,也能毁灭,还能使人渡过。婆罗多啊,法不能凭固定的条文来认识。

12.266.4

अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः ।
आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ॥ १२.२६६.४ ॥

处于平顺境地者有一种法,处于困厄境地者又有另一种法。灾难怎能凭固定的条文来认识?

12.266.5

सदाचारो मचो धर्मः संतस्त्वाचारलक्षणाः ।
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणः ॥ १२.२६६.५ ॥

善行即是法,善人以行为之特征而被辨识。善行若无特征,又怎能知道可成与不可成?

12.266.6

दृश्यते धर्मरूपेण ह्यधर्मं प्राकृतश्चरन् ।
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ॥ १२.२६६.६ ॥

可见普通之人以法的面貌行非法,而某位非凡之人以非法的面貌行法。

12.266.7

पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः ।
वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम् ॥ १२.२६६.७ ॥

学者们再次宣示其权威。我们在此听闻,吠陀之言随时代而渐衰。

12.266.8

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ १२.२६६.८ ॥

在圆满时代有一种法,在三时代与二时代另有他法;在迦利时代又有别的法,似乎只依各人之力而行。

12.266.9

आम्नायवचनं सत्यमित्ययं लोकसंग्रहः ।
आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः ॥ १२.२६६.९ ॥

传承之言是真实的——这是世界的凝聚。由传承,吠陀再度向四面八方流布。

12.266.10

ते चेत्सर्वप्रमाणं वै प्रमाणं ह्यत्र विद्यते ।
प्रमाणं च प्रमाणेन विरुद्ध्येच्छास्त्रता कुतः ॥ १२.२६६.१० ॥

若它们皆为权威,那么此处确有权威。但权威若与权威相悖,经典的性质又如何能够成立?

12.266.11

धर्मस्य क्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
यदा विक्रियते संस्था ततः साऽपि प्रणश्यति ॥ १२.२६६.११ ॥

当被实行的法被强暴而邪恶之人扭曲时,它所确立的秩序也随之消亡。

12.266.12

विद्मश्चैनं न वा विद्मः शक्यं वा वेदितुं न वा ।
अणीयान्क्षुरधाराया गरीयानपि पर्वतात् ॥ १२.२६६.१२ ॥

我们知道或不知道它,它能否被知晓——它比剃刀之刃更细微,比山岳更沉重。

12.266.13

गन्धर्वनगराकारः प्रथमं संप्रदृश्यते ।
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् ॥ १२.२६६.१३ ॥

它先像乾闥婆城一样清楚地显现;当智者仔细观察时,它又消失不见。

12.266.14

निपानानीव गोभ्याशे क्षेत्रे कुल्ये च भारत ।
स्मृतो हि शाश्वतो धर्मो विप्रहीणो न दृश्यते ॥ १२.२६६.१४ ॥

婆罗多啊,如牛旁的水池、田间的水渠,永恒的法被人记住;若无智者,便不再显现。

12.266.15

कामादन्ये भयादन्ये कारणैरपरैस्तथा ।
असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे ॥ १२.२६६.१५ ॥

有人出于欲望,有人出于恐惧,有人出于其他原因,虽非善人,却奉行虚妄的行为;还有许多人也是如此。

12.266.16

धर्मो भवति स क्षिप्रं विलोमस्तेष्वसाधुषु ।
अथैतानाहुरुन्मत्तानपि चावहसन्त्युत ॥ १२.२६६.१६ ॥

那法很快便背离那些不善之人;于是人们称他们为疯子,并加以嘲笑。

12.266.17

महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः ।
न हि सर्वहितः कश्चिदाचारः संप्रवर्तते ॥ १२.२६६.१७ ॥

大人们也已背离,皆依托王法而行;没有一种能利益众人的行为得以施行。

12.266.18

तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः ।
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया ॥ १२.२६६.१८ ॥

由彼而生另一人,他又压迫另一人;而那同一个人又以相同的形貌偶然再现。

12.266.19

येनैवान्यः प्रभवति सोऽपरानपि बाधते ।
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् ॥ १२.२६६.१९ ॥

凭借之而使他人得势者,也会压迫其他人;应当察知众人行为中缺乏专一的情形。

12.266.20

चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः ।
तेनाचारेण पूर्वेण संस्था भवति शाश्वती ॥ १२.२६६.२० ॥

久已确立的法,昔日为诸智者所宣说;依靠那古老的行为,便会确立永恒的根基。