Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.267

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.267.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥ १२.२६७.१ ॥

此处亦有人讲述这段古老的故事:关于法,图拉陀罗与阇吒利的言论。

12.267.2

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः ।
सागरोद्देशमागम्य तपस्तेपे महातपाः ॥ १२.२६७.२ ॥

林中有一位名叫阇吒利的婆罗门,是居于林中的大苦行者,他来到海边修行苦行。

12.267.3

नियतो नियताहारश्चीराजिनजटाधरः ।
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥ १२.२६७.३ ॥

克己守节,饮食有度,身披树皮衣、鹿皮,结着发髻,身上沾满污泥,这位智慧的苦行者多年如此。

12.267.4

स कदाचिन्महातेजा जलवासो महीपते ।
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥ १२.२६७.४ ॥

那位光辉的水居者,哦大地之主,曾游历诸世界——这位如意念般迅捷的婆罗门仙人,凝视着一切。

12.267.5

स चिन्तयामास मुनिर्जलमध्ये कदाचन ।
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥ १२.२६७.५ ॥

这位仙人曾站在水中,望着延伸至海边的、林木与园林遍布的大地,陷入沉思。

12.267.6

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे ।
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥ १२.२६७.६ ॥

在这世上,无论静止还是运动之物,都无人能与我相比;水中也无人能与我一同凌空飞行。

12.267.7

स दृश्यमानो रक्षोभिर्जलमध्ये च भारत ।
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥ १२.२६७.७ ॥

婆罗多啊,罗刹们看着,他在水中、在空中拍手说:“法已被我获得。”

12.267.8

अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि ।
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥ १२.२६७.८ ॥

毗舍遮对他说:“你不应这样说。瓦腊纳西的商人图罗陀罗,奉法且名声显赫,也不配像你这样说,二生者中的最优者啊。”

12.267.9

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः ।
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥ १२.२६७.९ ॥

众生如此对他说,大苦行者阇磔利回答道:“我必须去见那位智慧而有名的图罗陀罗。”

12.267.10

इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात् ।
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम् ॥ १२.२६७.१० ॥

那位仙人如此说话时,罗刹们从海中升起,对他说:“二生者中的最优者啊,走这条路去吧。”

12.267.11

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा ।
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम् ॥ १२.२६७.११ ॥

众生如此对他说,阇磔利心情沮丧地出发了。到达瓦腊纳西后,他对图罗陀罗说了这些话。

12.267.12

किं कृतं दुष्करं तात कर्म जाजलिना पुरा ।
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि ॥ १२.२६७.१२ ॥

“亲爱的,阇磔利从前做了什么艰难的事,因而获得了最高成就?请为我解说。”

12.267.13

अतीव तपसा युक्तो घोरेण स बभूव ह ।
नद्युपस्पर्शनपरः सायंप्रातर्महातपाः ॥ १२.२६७.१३ ॥

他极其投入于严酷的苦行,早晚都在河中沐浴,是伟大的苦行者。

12.267.14

अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः ।
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया ॥ १२.२६७.१४ ॥

他妥善侍奉圣火,全心致力于诵习吠陀,通晓林居者的规矩,这位再生者闍利以光辉照耀。

12.267.15

वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत ।
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः ॥ १२.२६७.१५ ॥

他在林中修苦行而住,从未见到不义;雨季便露天而眠,寒季则投身水中栖息。

12.267.16

वातातपसहो ग्रीष्मे न चाधर्ममविन्दत ।
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥ १२.२६७.१६ ॥

夏季忍受风吹日晒,他未曾犯下不义;他睡在各种艰苦的床铺上,在地上辗转反侧而度日。

12.267.17

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः ।
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः ॥ १२.२६७.१७ ॥

于是有一次,这位仙人在雨季站在露天之下,把从天空落下的水一次又一次地接在自己头上。

12.267.18

आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो ।
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः ॥ १२.२६७.१८ ॥

主啊,他沐浴后湿透的发辫纠结在一起;因常入林中,他总是污秽,却又与清净相伴。

12.267.19

स कदाचिन्निराहारो वायुभक्षो महातपाः ।
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥ १२.२६७.१९ ॥

他有一次绝食,只以风为食,大苦行者如木柴般不动地站立,从未移动。

12.267.20

तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत ।
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥ १२.२६७.२० ॥

婆罗多啊,国王啊,在那已如柱石般一动不动之人的头上,两只名为拘林伽的鸟筑起了巢。

12.267.21

स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दंपती ।
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः ॥ १२.२६७.२१ ॥

那位慈悲的梵仙观察着这对夫妇,他们在他纠结的发丝中用草茎和细线筑巢。

12.267.22

यदा न स चलत्येव स्थाणुभूतो महातपाः ।
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा ॥ १२.२६७.२२ ॥

因为那位大苦行者如柱石般从不移动,他们二人安心信任,便在那里快乐地居住。

12.267.23

अतीतास्वथ वर्षासु शरत्काल उपस्थिते ।
प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥ १२.२६७.२३ ॥

雨季过去,秋天来临,二者因信任而为欲望所迷,依照生主之礼结合。

12.267.24

तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ ।
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥ १२.२६७.२४ ॥

国王啊,那位光辉、誓愿坚定的婆罗门察觉到了那两只翱翔天空的鸟在他头上产下的卵。

12.267.25

बुद्ध्वा च स महातेजा न चचाल च जाजलिः ।
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत् ॥ १२.२६७.२५ ॥

知此之后,大光明者闍利不曾动摇。他常年心系法,从不赞许非法。

12.267.26

अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि ।
आश्वासितौ निवसतः संप्रहृष्टौ तदा विभौ ॥ १२.२६७.२६ ॥

日复一日,二者飞来栖于他的头顶,安然而居,甚为欢喜,啊,大能者。

12.267.27

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः ।
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥ १२.२६७.२७ ॥

此后,经养育的卵中孵出了雏鸟,它们就在那里长大;然而闍利并不动摇。

12.267.28

स रक्षमाणस्त्वण्डानि कुलिङ्गानां धृतव्रतः ।
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥ १२.२६७.२८ ॥

他守护着拘利伽鸟的卵,持戒坚定、心性正直的他,依旧那样纹丝不动、凝神专注地站着。

12.267.29

ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः ।
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान् ॥ १२.२६७.२९ ॥

随后,时候到了,啊,诸王之王,它们化为了鸟;而那位仙人看到这些拘利伽鸟已长出了翅膀。

12.267.30

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः ।
बभूव परमप्रीतस्तदा मतिमतां वरः ॥ १२.२६७.३० ॥

此后某日,他在那里看见这些鸟,持戒坚定、智者中最杰出的他,甚为欢喜。

12.267.31

तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम् ।
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥ १२.२६७.३१ ॥

见他们已经完全长大,他也感到了喜悦。那两只鸟无所畏惧地与幼雏一同住在那里。

12.267.32

जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् ।
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥ १२.२६७.३२ ॥

每个傍晚,他都看见那些长出羽翼的鸟飞走又飞回;然而婆罗门闍跋利并未动摇。

12.267.33

कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् ।
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः ॥ १२.२६७.३३ ॥

有时那些鸟又飞近,然后一次又一次地不停飞走,仿佛被父母抛弃;闍跋利仍然没有动摇。

12.267.34

तथा ते दिवसं चापि गत्वा सायं पुनर्नृप ।
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥ १२.२६७.३४ ॥

于是那些鸟白天飞去,国王啊,傍晚又回到那同一个地方栖息。

12.267.35

कदाचिद्दिवसान्पञ्च समुत्पत्य विहगमाः ।
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥ १२.२६७.३५ ॥

有时那些鸟飞走五天,到第六天又重新聚在一起;闍跋利仍然没有动摇。

12.267.36

क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ ।
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा ॥ १२.२६७.३६ ॥

随后,渐渐地,那些已长出羽翼的鸟很多天都没有回来。

12.267.37

कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः ।
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥ १२.२६७.३७ ॥

有一次,过了一个月,鸟儿飞走了,再也没有回来,大王;于是阇阇利出发了。

12.267.38

ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः ।
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥ १२.२६७.३८ ॥

它们消失后,阇阇利心生惊异,想道:“我已成就。”于是傲慢进入了他的心中。

12.267.39

स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः ।
संभावितात्मा संभाव्य भृशं प्रीतस्तदाऽभवत् ॥ १२.२६७.३९ ॥

他看到鸟儿离去,持戒坚定的他自认为受到尊崇,极为欢喜。

12.267.40

स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् ।
उदयन्तमथादित्यमभ्यागच्छन्महातपाः ॥ १२.२६७.४० ॥

他在河中沐浴、漱口,向圣火献祭,然后朝着升起的太阳走去,这位大苦行者。

12.267.41

संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः ।
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥ १२.२६७.४१ ॥

诵经者中最优秀的阇阇利,在头上礼敬麻雀,在空中拍手说:“我确实已经获得了法。”

12.267.42

अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः ।
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥ १२.२६७.४२ ॥

这时天空中传来一个声音,阇阇利听见了:“阇阇利啊,你在法上不如持秤者(Tulādhāra)。”

12.267.43

वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥ १२.२६७.४३ ॥

在瓦拉纳西住着大智慧的图拉陀罗。他也不配像你那样说话,婆罗门啊。

12.267.44

सोमर्षवशमापन्नस्तुलाधारदिदृक्षया ।
पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः ॥ १२.२६७.४४ ॥

大王啊,那位被愤怒支配的仙人,为了见图拉陀罗,他以日暮之处为家,在大地上漫游。

12.267.45

कालेन महताऽगच्छत्स तु वाराणसीं पुरीम् ।
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥ १२.२६७.४५ ॥

经过很长时间,他来到瓦拉纳西城,在那里看见图拉陀罗正在卖货。

12.267.46

सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः ।
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥ १२.२६७.४६ ॥

他看见那位婆罗门走来,便以营生为业的他也欣然起身,并以欢迎的话语向他致敬。

12.267.47

आयानेवासि विदितो मम ब्रह्मन्न संशयः ।
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥ १२.२६७.४७ ॥

婆罗门啊,我知道你来了,毫无疑问。二生者中最优秀的人啊,请听我所说的话。

12.267.48

सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् ।
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन ॥ १२.२६७.४८ ॥

你依止海岸,行了大苦行;但你以前从未以任何方式知道法的真实名称。

12.267.49

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः ।
क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया ॥ १२.२६७.४९ ॥

于是,婆罗门啊,凭借你的成就与苦行之力,小鸟很快便生在你的头上,而你爱护了它们。

12.267.50

जातपक्षा यदा ते च गता संचरितुं ततः ।
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज।
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥ १२.२६७.५० ॥

待它们长出羽翼飞去之时,婆罗门啊,你以为那是法,于是在空中听到了关于我的声音,婆罗门中最优秀者啊。

12.267.51

अमर्षवशमापन्नस्ततः प्राप्तो भवानिह ।
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥ १२.२६७.५१ ॥

你被愤怒所控制而来到此处。婆罗门中最优秀者啊,请告诉我,我可以为你做什么令你欢喜的事?