摩诃婆罗多 · 章 12.269
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.269.1
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया ।
स्वर्गद्वारं च वत्तिं च भूतानामवरोत्स्यते ॥ १२.२६९.१ ॥
你执掌天平,使法得以推行,因此众生的天门与生计都不会被阻断。
12.269.2
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जिवसि ।
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ॥ १२.२६९.२ ॥
粮食确实由耕作而生,你也因此得以活命。凡人依靠牲畜、草药和贸易而生存。
12.269.3
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि ।
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम् ॥ १२.२६९.३ ॥
由此产生祭祀,你却还在胡说无神论。若只舍弃生计,这世界便无法存续。
12.269.4
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः ।
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥ १२.२६९.४ ॥
啊,阇社离,我将谈论生计。婆罗门啊,我并非无神论者,也不非议祭祀;只是懂得祭祀的人极其稀少。
12.269.5
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः ।
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः ॥ १२.२६९.५ ॥
向祭祀致敬,向婆罗门致敬,也向懂得祭祀的人致敬。婆罗门舍弃自己的祭祀,却行刹帝利的祭祀。
12.269.6
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम् ।
वेदवादानभिज्ञानां सत्याभासमिवानृतम् ॥ १२.२६९.६ ॥
婆罗门啊,这是由贪婪、逐利、不懂吠陀教义的无神论者所推行的;它是一种看似真实的虚妄。
12.269.7
इदं देयमिदं देयमिति नान्यच्चिकीर्षति ।
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ॥ १२.२६९.७ ॥
他所想的只是:“这应当给予,这应当给予。”除此之外别无所求。因此,偷窃与恶业便生起,婆罗门啊,闍阇梨。
12.269.8
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः ।
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा।
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम् ॥ १२.२६९.८ ॥
凡是善行与供品,诸神便因此而欢喜——以敬礼、以供物、以吠陀诵习,也以草药同样如此。对诸神的供奉应依照经典所示而行。
12.269.9
इष्टापूर्तादसाधूनां विदुषां जायते प्रजा ।
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ॥ १२.२६९.९ ॥
从恶人的祭祀与功德,以及智者的祭祀与功德,人民便产生。贪者生出贪者;平等心者生出平等心者。
12.269.10
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः ।
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ॥ १२.२६९.१० ॥
祭祀者为自己,祭司亦然,民众亦复如是。人民从祭祀而生,如同清净之水从天而降。
12.269.11
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ १२.२६९.११ ॥
婆罗门啊,投入火中的供物到达太阳。由太阳生出雨;由雨生出食物;由食物生出众生。
12.269.12
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे ।
अकृष्टपच्या पृथिवी आशीर्भिर्वीररुधोऽभवन् ॥ १२.२६९.१२ ॥
因此,古人安立于正道,获得了一切所愿。由于祝福,大地无需耕作便能丰产,并且英雄辈出。
12.269.13
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन ।
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन ॥ १२.२६९.१३ ॥
他们在祭祀中或在自我中看不到任何果报;怀疑祭祀的果报,却以任何方式行祭的人。
12.269.14
जानन्तः सर्वथा साधु लुब्धा वित्तप्रयोजनाः ।
स स्म पापकृतां लोकान्गुच्छेदशुभकर्मणा ॥ १२.२६९.१४ ॥
尽管在各方面都知道善,但贪婪而以财富为目的的人,因不吉之业而前往恶人的世界。
12.269.15
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः ।
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥ १२.२६९.१५ ॥
以非度量之物行度量、作不吉之事的人,心存罪恶,智慧未成熟。啊,二生者中最优秀的,此人在此世总是如此。
12.269.16
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम् ।
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः ॥ १२.२६९.१६ ॥
知道'此事应当做'的婆罗门,便知道恐惧;世间唯有梵存在,不再有应作之义务。
12.269.17
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम् ।
सर्वभूतोपकारश्च फलभावे च संयमः ॥ १२.२६९.१७ ॥
我们又听说:无功德之业更胜一筹——即利益一切众生,以及在果报之境中自我克制。
12.269.18
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मवृत्तयः ।
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥ १२.२६९.१८ ॥
以真实为祭祀、以克制为祭祀,无贪、行为自我节制,自然舍弃——所有人都是这样,对食物没有嫉妒。
12.269.19
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः ।
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि ॥ १२.२६९.१९ ॥
知晓田与田知者真理、坚守自身祭祀、诵习梵之吠陀的人,也能使他人满足。
12.269.20
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम् ।
तृप्यन्ति तृप्यतो देवास्तृप्ताऽतृप्तस्य जाजले ॥ १२.२६९.२० ॥
一切神性,一切皆是梵,依于梵而住。被满足者,诸神也因之而满足;哦,阇阇梨,对于满足者与不满足者皆是如此。
12.269.21
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन ।
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ॥ १२.२६९.२१ ॥
如同满足于一切滋味的人对任何事物都不再欣喜,同样,以智慧满足者的恒常满足生出快乐。
12.269.22
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा ।
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते ॥ १२.२६९.२२ ॥
以法为根基、以法为乐、完全决意的人;智者如此观察:“实际上,对我们而言还有更多。”
12.269.23
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः ।
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम् ॥ १२.२६९.२३ ॥
有智慧与识见者中,有人想要渡到至上的彼岸——那里极具功德,赐予功德,与有功德的族系相连。
12.269.24
यत्र गत्वा न शोचन्ति च च्यवन्ति व्यथन्ति च ।
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्विकाः ॥ १२.२६९.२४ ॥
到达那里的人,不悲伤,不堕落,不烦恼;那些具足悦性(萨埵)的人,即使在此世也能得到那梵的住所。
12.269.25
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनाः ।
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥ १२.२६९.२५ ॥
他们不求天堂,以名声为财富者也不行祭祀。依其力量,以不杀生遵循善人之道。
12.269.26
वनस्पतीनोषधीश्च फलमूलानि ते विदुः ।
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः ॥ १२.२६९.२६ ॥
他们认识树木、草药、果实与根茎;但贪求果报的贪婪祭司却不用这些来主持祭祀。
12.269.27
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः ।
परिनिष्ठितकर्माणाः प्रजानुग्रहकाम्यया ॥ १२.२६९.२७ ॥
二生者为了自身的目的又行祭祀;职责已尽的人则出于愿使众生安乐的心而行祭。
12.269.28
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान् ।
प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै।
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥ १२.२६९.२८ ॥
因此贪婪的祭司让不吉之人行祭;若依自身之法而行,他们本可引导众生升往天界。如此,哦阇跋梨,我的见解处处一致。
12.269.29
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभाः ।
तेन ते देवयानेन पथा यान्ति महामुने ॥ १२.२६९.२९ ॥
智慧的二生者中之尊者总以那种方式投入祭祀,哦大仙,他们便沿着那天神之道前行。
12.269.30
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणाः ।
उभौ तौ देवयानेन गच्छतो जाजले यथा ॥ १२.२६९.३० ॥
那一人有返回,而他没有返回,诸位智者;哦阇跋梨,二者都沿着天神之道而行,如同他们所行。
12.269.31
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च ।
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः ॥ १२.२६९.३१ ॥
他们的公牛自己套上轭、自己负重,母牛也自己挤奶——凭借心念所立之愿的成就。
12.269.32
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः ।
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति ॥ १२.२६९.३२ ॥
他们亲自扛起祭柱行祭,以自己的财力完成酬金。唯有如此内心清净之人,才配杀牛。
12.269.33
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः ।
श्रद्धया गां पुरस्कृत्य तदृतं प्रब्रवीमि ते ॥ १२.२६९.३३ ॥
婆罗门啊,他们同样可以用草药行祭,但他们并非如此。以信心将牛置于首位——这真理我告诉你。
12.269.34
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥ १२.२६९.३४ ॥
不求祝福、不起事业、不行礼、不赞颂、不衰减、业已尽除之人,诸神知其为婆罗门。
12.269.35
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च ।
काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले।
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ १२.२६९.३५ ॥
不令人诵读吠陀、不行祭、不布施婆罗门,而追求欲望驱使的生计——迦利啊,他得何趣?以此为神,可得祭祀之果。
12.269.36
न वै मुनीनां शृणुमः स्म तत्त्वं ।
पृच्छामि ते वाणिज कष्टमेतत्।
पूर्वेपूर्वे चास्य नावेक्षमाणा ।
नातः परं तमृषयः स्थापयन्ति ॥ १२.२६९.३६ ॥
我们从诸仙人处未曾听闻此真理。商人啊,我向你问这难题。前人未曾审视,诸仙人也未在此之外确立它。
12.269.37
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम् ।
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम्।
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥ १२.२६९.३७ ॥
以自我为圣渡,牲畜如何得以达到祭祀?人以何种行为获得幸福?商人啊,大智者啊,请告诉我;我完全信任你。
12.269.38
उत यज्ञा उतायज्ञा मस्वं नार्हन्ति ते क्वचित् ।
आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा।
बालैः शृङ्गेण पादेन संभरत्येव गौर्मखम् ॥ १२.२६९.३८ ॥
无论是祭祀还是非祭祀,你都不应认为它们有价值。以酥油、牛奶、凝乳、酸乳、皮、毛、角与蹄,唯有受到尊敬的母牛能使祭祀圆满。
12.269.39
पत्नीव्रतेन विधिना प्रकरोति नियोजयन् ।
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ १२.२६९.३९ ॥
依照对妻子的誓愿,按规定而行,便能行事;以所奉之神为依归,便能获得祭祀。
12.269.40
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते ।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः।
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भव ॥ १२.२६९.४० ॥
在一切牲畜之中,只有原罗达舍被称为适于祭祀。一切河流皆是萨罗室伐蒂,一切石堆皆为圣地。遮遮利啊,自我便是圣渡;不要做这片土地的过客。
12.269.41
एतानीदृशकान्धर्मानाचरन्निह जाजले ।
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान् ॥ १२.२६९.४१ ॥
遮遮利啊,在此践行此类法行,并依其因缘寻求法者,便能获得吉祥的世界。
12.269.42
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति ।
उपपत्त्याऽभिसंपन्नान्नित्यं सद्भिर्निषेवितान् ॥ १२.२६९.४२ ॥
衡者赞美这样的法,它们以理性确立,为善人所常行。