Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.27.1

ज्ञातिशोकाभितप्तस्य प्राणानिष्टांस्त्यजिष्यतः ।
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥ १२.२७.१ ॥

毗耶娑驱散了般度长子的忧愁。他因亲族之哀而痛苦万分,几欲舍弃心爱的生命之气。

12.27.2

अत्राप्युदाहरन्तीमभितिहासं पुरातनम् ।
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥ १२.२७.२ ॥

此处人们也讲述这个古老的故事——《石之歌》。人中猛虎的般遮罗啊,你要听明白它。

12.27.3

अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः ।
संशयं परिपप्रच्छ दुःखशोकसमन्वितः ॥ १२.२७.३ ॥

毗提诃王遮那迦充满痛苦与忧伤,向智慧的婆罗门阿希摩详细请教心中的疑惑。

12.27.4

आगमे यदि वाऽपाये ज्ञातीनां द्रविणस्य च ।
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥ १२.२७.४ ॥

在亲族与财富得失之间,追求福祉的人应当如何自处?

12.27.5

उत्पन्नमिममात्मानं नरस्यानन्तरं ततः ।
तानितान्यनुवर्तन्ते दुःखानि च सुखानि च ॥ १२.२७.५ ॥

此我一旦生于人身,便随即伴随着种种苦与乐。

12.27.6

तेषामन्यतरापत्तौ यद्यदेवोपसेवते ।
तदस्य चेतनामाशु हरत्यभ्रमिवानिलः ॥ १२.२७.६ ॥

当其中任何一种降临时,人所沉溺的那物便迅速夺走他的心识,犹如风吹散云朵。

12.27.7

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।
इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥ १२.२७.७ ॥

「我出身高贵,我已成就,我不只是凡人」——因这三种缘由,他的心便被牵引而去。

12.27.8

संप्रसक्तमना भोगान्विसृज्य पितृसंचितान् ।
परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १२.२७.८ ॥

心执著于享乐的人,舍弃祖辈积累的财富,彻底耗尽,便认为夺取他人之财才是好的。

12.27.9

तमतिक्रान्तमर्यादमाददानमसांप्रतम् ।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ १२.२७.९ ॥

贪婪的国王会阻止那越过界限、不当夺取的人,如同用箭射止鹿一般。

12.27.10

ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः ।
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥ १२.२७.१० ॥

国王啊,那些二十或三十岁的人,过了一百年便不会在世了。

12.27.11

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥ १२.२७.११ ॥

对于那些极度痛苦的人,应以智慧施用药方,并处处观察一切有生命者的行为。

12.27.12

मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः ।
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥ १२.२७.१२ ॥

心灵苦痛的根源又是心的迷乱;厄运降临,或第三种(因),并不产生。

12.27.13

एवमेतानि दुःखानि तानि तानीह मानवम् ।
विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि ॥ १२.२७.१३ ॥

如此,这些种种苦难在此降临于人,也包括由触碰而生的。

12.27.14

जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ १२.२७.१४ ॥

衰老与死亡对众生而言,如同两只吞噬的狼——无论强弱、矮小或高大。

12.27.15

न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः ।
अपि सागरपर्यन्तां विजित्येमां वसुंधराम् ॥ १२.२७.१५ ॥

没有任何人能够超越衰老与死亡,即使征服了这片直至海边的大地。

12.27.16

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् ।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥ १२.२७.१६ ॥

无论快乐还是痛苦降临于众生,无力者都必须承受,无法避免。

12.27.17

पूर्वे वयसि मध्ये वाऽप्युत्तरे वा नराधिप ।
अवर्जनीयास्तेऽर्था वै काङ्क्षिता ये ततोऽन्यथा ॥ १२.२७.१७ ॥

人主啊,无论在青年、中年还是老年,所追求的目标都无法避免;它们不会有别的结局。

12.27.18

अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः ।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥ १२.२७.१८ ॥

与不喜欢的人相聚,与最亲爱的人分离,得与失,乐与苦——这一定则随之而来。

12.27.19

प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च ।
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥ १२.२७.१९ ॥

众生的出现与舍弃身体,以及获得与努力的结合——这一切都是既定的。

12.27.20

गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः ।
तथैव सुखदुःखानि विधानमनुवर्तते ॥ १२.२७.२० ॥

气味、颜色、味道与触觉依其本性而退去;同样,苦乐也如此——定数随之而行。

12.27.21

आसनं शयनं यानमुत्थानं पानभोजनम् ।
नियतं सर्वभूतानां कालेनैव भवत्युत ॥ १२.२७.२१ ॥

座位、卧榻、车乘、起身、饮与食——这些对一切众生都有定数,唯依时而成。

12.27.22

वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः ।
स्त्रीमन्तश्चापरे षण्ढा विचित्रः कालपर्ययः ॥ १२.२७.२२ ॥

医生也会生病,强者也会变弱;有妻室的人,也有其他的宦官——时间的变迁真奇妙。

12.27.23

कुले जन्म तथा वीर्यमारोग्यं रूपमेव च ।
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥ १२.२७.२३ ॥

出生于良好家族、力量、健康、容貌、福运与享受——这些都是通过注定之事而得到的。

12.27.24

सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥ १२.२७.२४ ॥

贫穷而不希望的人有许多儿子,富裕的人却没有儿子——命运的作为真奇异。

12.27.25

व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम ।
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा ॥ १२.२७.२५ ॥

疾病、火、水、兵器、饥饿、灾难、毒药、发热、众生的死亡,以及从高处坠落,皆是如此。

12.27.26

निर्याणे यस्य यद्दिष्टं तेन गच्छति सेतुना ।
दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः।
दृश्यते चाप्यतिक्रामन्न निग्राह्योऽथवा पुनः ॥ १२.२७.२६ ॥

每个人都沿着为他注定的道路前行。不见他越过界限,也不见他离去或再次返回;即便见他越界,也无法阻止,或者再次(亦是如此)。

12.27.27

दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः ।
दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः ॥ १२.२७.२७ ॥

在此可见富人即使在年少时也会死去,而贫苦受折磨的人却能活到百岁,负载着衰老。

12.27.28

अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥ १२.२७.२८ ॥

一无所有的人可见长寿,而生于富裕家族的人却如飞蛾般死去。

12.27.29

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
दरिद्राणां तु भूयिष्ठं काष्ठमश्मा हि जीर्यते ॥ १२.२७.२९ ॥

世上富人通常缺少享受的能力,而贫者大多如木石般消磨。

12.27.30

अहमेतत्करोमीति मन्यते कालनोदितः ।
यद्यदिष्टमसंतोषाहुरात्मा पापमाचरेत् ॥ १२.२७.३० ॥

被时间驱使的人以为“这是我在做”;因为不知足,凡所希求的,他便去行恶。

12.27.31

मृगयाक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः ।
दृश्यन्ते पुरुषाश्चात्र संप्रयुक्ता बहुश्रुताः ॥ १२.२७.३१ ॥

狩猎、掷骰、女色与饮酒,这些沉溺为智者所斥责;然而在此可见博学之人也陷于其中。

12.27.32

इति कालेन सर्वार्थानीप्सितानीप्सितानिह ।
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥ १२.२७.३२ ॥

如此,由于时间,一切可欲与不可欲之物都触及一切众生,而其原因无法察觉。

12.27.33

वायुमाकाशमग्निं च चन्द्रादित्यावहः क्षपे ।
ज्योतींषि सरितः शैलान्कः करोति बिभतिं च ॥ १२.२७.३३ ॥

风、天空、火,以及在夜间带来光明的月与日,群星、河流与山峦——谁造作它们?谁维持它们?

12.27.34

शीतमुष्णं तथा वर्षं कालेन परिवर्तते ।
एवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥ १२.२७.३४ ॥

寒冷与炎热,以及降雨,都随时间而转变;同样,人类之雄啊,凡人的苦乐也随之转变。

12.27.35

नौषधानि न शस्त्राणि न होमा न पुनर्जपाः ।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम् ॥ १२.२७.३५ ॥

药物、兵器、祭火、以及诵咒,都不能保护被死亡或衰老所追上的人。

12.27.36

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १२.२७.३६ ॥

如同两段木头在大海中相遇,相遇之后又再分开,众生的聚会也是如此。

12.27.37

ये च निष्परुषैरुक्तगीतवाद्यैरुपस्थिताः ।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ १२.२७.३७ ॥

无论是受到温言、歌唱与乐器侍奉的人,还是无依无靠、靠他人之食为生的人,时间对他们一视同仁。

12.27.38

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ १२.२७.३८ ॥

在轮回之中,我们经历过千万位父母、数百位子女与妻子。他们属于谁,我们又属于谁?

12.27.39

नैवास्य कश्चिद्भविता नायं भवति कस्यचित् ।
पथि संगतमेवेदं दारबन्धुसुहृज्जनैः ॥ १२.२७.३९ ॥

没有人会属于他,他也不属于任何人;与妻子、亲属、朋友的这种聚合,只是路上的一次相遇。

12.27.40

क्वासे क्व च गमिष्यामि कोऽन्वहं किमिहास्थितः ।
कस्मात्किमनुशोचेयमित्येवं स्थापयेन्मनः ॥ १२.२७.४० ॥

他在哪里,我又将去往何处?我是谁,在此处处于何种状态?我为何悲伤,又为了什么?应当这样安定自己的心。

12.27.41

अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
पथि संगतमेवैतद्धाता माता पिता सखा ॥ १२.२७.४१ ॥

在无常的相聚之中,在如车轮般转动的轮回里,这一切不过是路上的相遇:扶养者、母亲、父亲、朋友。

12.27.42

न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ १२.२७.४२ ॥

彼岸世界从未被亲眼见过;智者知晓它。但渴望善好的人应当怀有信心,且不违背经典。

12.27.43

कुर्वीत पितृदैवत्यं धर्म्याणि च समाचरेत् ।
यजेच्च विद्वान्विधिवत्रिवर्गं चाप्युपाचरेत् ॥ १२.२७.४३ ॥

应当举行献给祖先与诸神的祭仪,并认真践行合乎法的本分。智者应依法祭祀,也应照顾三种人生目标(三目的)。

12.27.44

सन्निमज्जेज्जगदिदं गम्भीरे कालसागरे ।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥ १२.२७.४४ ॥

这个世界沉没于深邃的时间之海,衰老与死亡是其中巨大的鳄鱼;然而无人觉察。

12.27.45

आयुर्वेदमधीयानाः केवलं सपरिग्रहाः ।
दृश्यन्ते बहवो वैद्या व्याधिभिः समबिप्लुताः ॥ १२.२७.४५ ॥

许多学习过养生医学(阿育吠陀)的医师,即便家人在侧,也被疾病完全压倒。

12.27.46

ते पिबन्तः कषायांश्च सर्पीषि विविधानि च ।
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥ १२.२७.४६ ॥

他们即便饮用汤药与各种酥油,也无法超越死亡,犹如大海不越其岸。

12.27.47

रसायनविदश्चैव सुप्रयुक्तरसायनाः ।
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥ १२.२७.४७ ॥

即便是精通长生术、善用丹药之人,也被衰老所摧折,犹如象群为最优之象所击倒。

12.27.48

तथैव तपसोपेताः स्वाध्यायाध्ययने रताः ।
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥ १२.२७.४८ ॥

同样,修持苦行、勤于自修与诵读吠陀、乐善好施、热衷祭祀之人,也无法超越衰老与死亡。

12.27.49

न ह्यहानि निवर्तन्ते न मासा न पुनः समाः ।
जातानां सर्वभूतानां न पुनर्वै समागमः ॥ १२.२७.४९ ॥

日子不会回返,月份也不会,年岁也不会再来。对于所有已生的众生,不会再有重聚。

12.27.50

सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः ।
स्रोतसैव समभ्येति सर्वभूतनिषेवितम् ॥ १२.२७.५० ॥

他随时间沿着那广阔的道路前行,固然是无常的,如同水流一般,那是为一切众生所行之路。

12.27.51

देहो वा जीविताद्व्येति देही वाऽप्येति देहतः ।
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ॥ १२.२७.५१ ॥

身体离开生命,或有身者离开身体。在路上,这种相聚只是与妻子、其他人和亲属。

12.27.52

नायमत्यन्तसंवासो लभ्यते जातु केनचित् ।
अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ १२.२७.५२ ॥

无人能获得这种长久的相处,连与自己的身体也不能,更何况与他人。

12.27.53

क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहाः ।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ ॥ १२.२७.५३ ॥

君王啊,你的父亲如今在哪里?你的祖父们如今在哪里?今天你看不见他们,无罪的人啊,他们今天也看不见你。

12.27.54

न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च ।
आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥ १२.२७.५४ ॥

无人能亲见天堂或地狱;但圣典(阿伽摩)是善人的眼睛。君王啊,请在此实践它。

12.27.55

चरितब्रह्मचर्यो हि प्रजायेत यजेत च ।
पितृदेवमनुष्याणामानृण्यादनसूयकः ॥ १२.२७.५५ ॥

持守梵行者应当生育子嗣、举行祭祀,并脱离对祖先、诸神与人类的债务,不怀嫉妒。

12.27.56

स यज्ञशीलः प्रजने निविष्टः ।
प्राग्ब्रह्मचारी प्रविभक्तभैक्षः।
आराधयेत्स्वर्गमिमं च लोकं ।
परं च मुक्त्वा हृदयव्यलीकम् ॥ १२.२७.५६ ॥

他应当专心祭祀、致力生育,曾为梵行者并已分发乞食;舍弃心中的虚伪,于此世与来世敬奉天界。

12.27.57

सम्यक्स्वधर्मं चरतो नृपस्य ।
द्रव्याणि चाभ्याहरतो यथावत्।
प्रवृद्धचक्रस्य यशोऽभिवर्धते ।
सर्वेषु लोकेषु चराचरेषु ॥ १२.२७.५७ ॥

对于如法履行自身职责、适当聚集财富、军阵之轮已壮大的君王,他的名声在一切世界、动与不动的众生中增长。

12.27.58

इत्येवमाकर्ण्य विदेहराजो ।
वाक्यं समग्रं परिपूर्णहेतु।
अश्मानमामन्त्र्य विशुद्धबुद्धि ।
र्ययौ गृहं स्वं प्रति शान्तशोकः ॥ १२.२७.५८ ॥

视陀国王以清净之智听完这番完整而有充分理由的言辞,向阿什摩告辞,悲伤平息,回到自己的家中。

12.27.59

तथा त्वमप्यद्य विमुच्य शोक ।
मुत्तिष्ठ शक्रोपम हर्षमेहि।
क्षात्रेण धर्मेण मही जिता ते ।
तां भुङ्क्ष्व कुन्तीसुत मावमंस्थाः ॥ १२.२७.५९ ॥

同样,你这与帝释相等的人啊,今日应舍弃悲伤,起身,迎来喜悦。你以刹帝利之法征服了这大地;贡蒂之子啊,去享受它,不要轻视它。