Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.270

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.270.1

सद्भिर्वा यदि वाऽसद्भिः पन्थानमिममाश्रितः ।
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ॥ १२.२७०.१ ॥

你若走这条路,无论与善人还是恶人同行,都要亲身去好好实践;那时你就会知道它是怎样的。

12.270.2

एते शकुन्ता बहवः समन्ताद्विचरन्ति ह ।
तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः ॥ १२.२७०.२ ॥

许多鸟儿四面飞翔;生于你头顶的鹰隼以及其他种类的鸟也在其中。

12.270.3

आहूयैनान्महाब्रह्मन्विशमानांस्ततस्ततः ।
पश्येमान्हस्तपादैश्च श्लिष्टान्देहेषु सर्वशः ॥ १२.२७०.३ ॥

伟大的婆罗门啊,把它们召来,看它们从这里那里进入;看它们用手脚紧紧攀附在各处的身体上。

12.270.4

संभावयन्ति पितरं त्वया संभाविताः स्वगाः ।
असंशयं पिता वै त्वं पुत्रानाह्वय जाजले ॥ १२.२७०.४ ॥

受你尊敬的那些升天者,也会尊敬他们的父亲;毫无疑问,你就是父亲。哦,闍阇梨,把你的儿子们召来吧。

12.270.5

ततो जाजलिना तेन समाहूताः पतत्रिणः ।
वाचमुच्चारयन्ति स्म धर्मस्य वचनात्किल ॥ १२.२७०.५ ॥

于是,被闍阇梨召来的鸟儿,据说,依着法的言辞,发出了它们的声音。

12.270.6

अहिंसादि कृतं कर्म इह चैव परत्र च ।
श्रद्धां निहन्ति वै ब्रह्मन्सा हता हन्ति तं नरम् ॥ १२.२७०.६ ॥

以不害等行为所作的业,无论今世还是来世,婆罗门啊,都会摧毁信心;而被摧毁的信心则摧毁那个人。

12.270.7

समानां श्रद्दधानानां संयतानां सुचेतसाम् ।
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ॥ १२.२७०.७ ॥

只有信心坚定、克己自制、心地纯净、平等行祭者所行,才算是祭祀;否则祭祀永远不被珍视。

12.270.8

श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज ।
सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः ॥ १२.२७०.८ ॥

婆罗门啊,信仰是善性女神,太阳之女;她是萨维特丽,也是生育者,由她而生祭品、言语与心意。

12.270.9

वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च जाजले ।
श्रद्धावृद्धं वाङ्भनसी न यज्ञस्त्रातुमर्हति ॥ १२.२७०.९ ॥

闍阇利啊,信仰能护持因言语与心意而增长之物;但祭祀不能护持因信仰而增长的言语与心意。

12.270.10

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
शुचेरश्रद्दधानस्य श्रद्दधानस्यर चाशुचेः ॥ १२.२७०.१० ॥

此处,通晓古事者诵唱一首名为《梵歌》的偈颂:论及清净而无信者,以及有信而不净者。

12.270.11

देवा वित्तममन्यन्त सदृशं यज्ञकर्मणि ।
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ॥ १२.२७०.११ ॥

诸神认为,于祭祀之事而言,学者祭司、吝啬者、慷慨者与放贷者的财富同样适用。

12.270.12

मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ।
प्रजापतिस्तानुवाच विषमं कृतमित्युत ॥ १२.२७०.१२ ॥

诸神审察二者之后,使食物平等;于是生主对他们说:“此物已被弄得不平等了。”

12.270.13

श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥ १२.२७०.१३ ॥

以信念净化的慷慨之人的食物可以食用;无信而给予的则不可。应食慷慨者的食物,不应食吝啬者或放债者的食物。

12.270.14

अश्रद्दधान एवैको देवानां नार्हते हविः ।
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ॥ १२.२७०.१४ ॥

唯独无信之人不配向诸神献祭;他的食物也不应食用——知法者如是说。

12.270.15

अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी ।
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ॥ १२.२७०.१५ ॥

无信是最大的罪恶;信则能解脱罪恶。有信之人舍弃罪恶,犹如蛇蜕去旧皮。

12.270.16

ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह ।
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ॥ १२.२७०.१६ ॥

在净化之道中,与信念相伴的弃离最为殊胜;断除行为过失的有信之人,才是真正清净的。

12.270.17

किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १२.२७०.१७ ॥

他何须苦行、何须德行、何须自我?此人由信念所成;其信如何,他便是如何。

12.270.18

इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः ।
वयं जिज्ञासमानास्तु संप्राप्ता धर्मदर्शनात् ॥ १२.२७०.१८ ॥

如此,见法与利的善人宣说了法。我们渴望知晓,因而得以见法。

12.270.19

श्रद्धां कुरु महाप्राज्ञ ततः प्राप्स्यसि यत्परम् ॥ १२.२७०.१९ ॥

大智者啊,当持守信心(śraddhā);此后你将获得那至高之境。

12.270.20

न वै मुनीनां शृणुमश्च तत्वं ।
पृच्छामि ते वाणिज तत्वमेतत्।
पूर्वे हि पूर्वेऽप्यनवेक्षमाणा ।
नातः परं ते ऋषयः स्थापयन्ति ॥ १२.२७०.२० ॥

我们从诸仙人那里未曾听闻此真理。商人啊,我正是向你询问此真理。先前的人也未能洞见;诸仙人在此之外并未立下任何更高之说。

12.270.21

यस्मिन्नेवानुतीर्थेन पशवः प्राप्नुयुः सुखम् ।
पत्नीव्रतेन विधिना प्रकरोति नियोजयन्।
श्रद्धावाञ्श्रद्दधानश्च धर्मश्चैव हि वाणिज ॥ १२.२७०.२१ ॥

凭借那适宜的圣渡之法,牲畜得以安乐;依妻子忠贞之戒的仪轨而行、而指引之人——商人啊,有信心、持信之人,那便是法(dharma)。

12.270.22

स्ववर्त्मनि स्थितश्चैव गरीयानेव जाजले ॥ १२.२७०.२२ ॥

安住于自己道路之人,方才成为更为尊贵者,啊,阇阇勒。

12.270.23

ततोऽचिरेण कालेन तुलाधारः स एव च ।
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्।
स्वंस्वं स्थानमुपागम्य स्वकर्मफलनिर्मितम् ॥ १२.२७०.२३ ॥

此后不久,多罗陀罗与那两位大智者升入天界,安乐地居住其中,各自抵达由自身业果所成就的处所。

12.270.24

एवं बहुविधार्थं च तुलाधारेण भापितम् ।
सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ॥ १२.२७०.२४ ॥

多罗陀罗以多种义理如此言说;如此正确地受教后,永恒之法得以宣说。

12.270.25

तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि जाजलिः ।
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ॥ १२.२७०.२५ ॥

娄陀之子啊,闻听以勇名著称的图拉陀罗之言,遮闍梨便得到了平静。

12.270.26

समानां श्रद्दधानानां युक्तानां च यथाबलम् ।
कुर्वतां यज्ञ इत्येव नायज्ञो जातु नेष्यते ॥ १२.२७०.२६ ॥

凡平等、有信、精进且依自身力量而行者,其所行即是祭祀;绝不被视为非祭。

12.270.27

एवं बहुमतार्थं च तुलाधारेण भाषितम् ।
यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ॥ १२.२७०.२७ ॥

如此,图拉陀罗以多重珍贵之义,借譬喻而开示;你还想听什么呢?