Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.272

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.272.1

कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा ।
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥ १२.२७२.१ ॥

处理一件事应如何审慎——是迅速,还是迟缓?在这样艰难的事务中,您是我们至高的导师。

12.272.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसां कुले ॥ १२.२७२.२ ॥

此处人们也讲述这段古老的传说,即昔日安吉罗娑家族中迟作者(Cirakārin)所遭遇之事。

12.272.3

गौतमस्य सुता ह्यासन्वीयांश्चिरकारिकः ।
चिरकारिक भद्रं ते भद्रं ते चिरकारिक।
चिरकारी हि मेधावी नापराध्यति कर्मसु ॥ १२.२७२.३ ॥

乔达摩的诸子之中,长子名为迟作者(Cirakārin)。迟作者啊,愿你吉祥;迟作者啊,愿你吉祥!因为智慧的迟作者在行事中不会犯错。

12.272.4

चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः ।
चिरेण सर्वकार्याणि विमृश्यार्थान्प्रपद्यते ॥ १२.२७२.४ ॥

乔达摩之子迟作者大有智慧。他先长久权衡各项事务,审察其义理,然后才去着手。

12.272.5

चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन् ।
चिरं कार्याभिषत्तिं च चिरकारी तथोच्यते ॥ १२.२७२.५ ॥

他长时间思量其事的目的,醒着时如此,睡着时也如此;执行事务时也迟缓,因此被称为迟作者。

12.272.6

अलसग्रहणं प्राप्तो दुर्मेधावीति चोच्यते ।
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥ १२.२७२.६ ॥

陷入怠惰的人被称为愚钝。这是就那些智力轻浮、缺乏远见的人而言的。

12.272.7

व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् ।
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥ १२.२७२.७ ॥

然而,当与某人发生通奸时,父亲越过其他儿子,愤怒地说:“杀了这个母亲。”

12.272.8

इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः ।
अविमृश्य महाभागो वनमेव जगाम सः ॥ १२.२७२.८ ॥

说完这话,那位婆罗门乔答摩,诵经者中的最优者,这位大福之人,未加思虑便径直进入了森林。

12.272.9

स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः ।
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥ १२.२७२.९ ॥

他天性行动迟缓,过了很久才说“好吧”,经过考虑,因为迟缓的性格,长久地陷入沉思。

12.272.10

पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ।
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥ १२.२७२.१० ॥

我如何执行父亲的命令,又如何能不杀母亲?我怎能像恶人一样,陷入这借口法义的圈套之中?

12.272.11

पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ।
अस्वतन्त्रं च पुत्रत्वं किंतु मां नानुपीडयेत् ॥ १२.२७२.११ ॥

父亲的命令是最高的法,保护母亲是我自己的法。作为儿子并不自由;但愿它不要使我痛苦。

12.272.12

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ।
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥ १२.२७२.१२ ॥

杀了女人和母亲的人,谁能永远快乐?轻慢父亲的人,谁能获得稳固的地位?

12.272.13

अनवज्ञा पितुर्युक्ता स्वधर्मो मातृरक्षणम् ।
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ॥ १२.२७२.१३ ॥

不轻慢父亲是应当的,保护母亲是自己的本分。这两者都是合宜而可以忍受的,怎能违越?

12.272.14

पिता ह्यात्मानमाधत्ते जायायां जायतामिति ।
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥ १२.२७२.१४ ॥

父亲将自己置于妻子之中,心想“愿他降生”,以维持品行、德性与宗系,以及家族。

12.272.15

सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः ।
विज्ञानं मे कथं न स्याद्द्वौ बुद्ध्ये चात्मसंभवम् ॥ १२.२७२.१५ ॥

我这同一个人,已由母亲与父亲再次生为儿子。我怎会没有智慧?两种心智,以及从自身生出的知识,岂会没有?

12.272.16

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ।
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥ १२.२७२.१६ ॥

父亲在诞生礼中所说、在入门礼中所说,足以坚定地确立对父亲的尊敬。

12.272.17

गुरुरग्र्यः परो धर्मः पोषणाध्यापनान्वितः ।
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥ १२.२७२.१७ ॥

父亲兼具养育与教导,是最上的导师,至高的法。父亲所说的法,即使在吠陀中也已确立无疑。

12.272.18

प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता ।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥ १२.२७२.१८ ॥

儿子对父亲所能给予的只是爱,而父亲却给予儿子一切。身体等物应当奉献,而只有父亲一人赐予它们。

12.272.19

तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन ।
पातकान्यपि पूयन्ते पितुःर शासनकारिणः ॥ १२.२७२.१९ ॥

因此应当遵行父亲的话,永不怀疑;即使是顺从父亲命令之人的罪孽,也会被洗净。

12.272.20

भाग्यभोगे प्रसवने सर्वलोकनिदर्शने ।
धात्र्याश्चैव समायोगे सीमन्तोन्नयने तथा ॥ १२.२७२.२० ॥

在享受福分时、在分娩时、在展示诸世界时、在与乳母结合时,以及在分发头发的仪式中(父亲为首)。

12.272.21

पिता धर्मः पिता स्वर्गः पिता हि परमं तपः ।
पितरि प्रीतिमापन्ने सर्वाः प्रीणन्ति देवताः ॥ १२.२७२.२१ ॥

父亲即是法,父亲即是天堂,父亲即是至高的苦行;父亲欢喜时,诸神皆得欢喜。

12.272.22

आशिषस्ता भजन्त्यनं पुरुषं प्राह यत्पिता ।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति ॥ १२.२७२.२२ ॥

父亲所对之人,诸般祝福便随之而来;父亲所认可的,便是洗净一切罪孽的赎罪。

12.272.23

मुच्यते बन्धनात्पुरुषं फलं वृक्षान्प्रमुच्यते ।
क्लिश्यन्नपि सुतस्नेहैः पिता पुत्रं न मुञ्चति ॥ १२.२७२.२३ ॥

人可以脱离束缚,果实可以从树上脱落;但父亲即便因对儿子的爱而受苦,也不放开儿子。

12.272.24

एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् ।
पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥ १२.२७२.२४ ॥

至此已论述了儿子对父亲的尊重。父亲的地位并不低;现在我将考虑母亲的地位。

12.272.25

यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः ।
अस्य मे जननी हेतुः पावकस्य यथाऽरणिः ॥ १२.२७२.२५ ॥

我身中这具处于凡俗之境、由五大所成的形体聚合,其因是我的母亲,正如钻木取火的木棒之于火。

12.272.26

माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥ १२.२७२.२६ ॥

母亲是众人身体的钻木之木,是一切受苦者的慰藉;有母则有依靠,失母则孤苦无依。

12.272.27

न च शोचति नाप्येनं स्थाविर्यमपकर्षति ।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते ॥ १२.२७२.२७ ॥

即便失去财富,若能在家中得到如母般的庇护,便不会悲伤,衰老也不会使他衰败。

12.272.28

पुत्रपौत्रोपपन्नोपि जननीं यः समाश्रितः ।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥ १२.२७२.२८ ॥

即便子孙满堂,若仍依托于母亲,即便到了百岁之末,也应像两岁的孩童一样行事。

12.272.29

समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा ।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥ १२.२७२.२९ ॥

无论儿子能干与否、瘦弱与否,只有母亲保护他;按照常理抚育他的,再无他人。

12.272.30

तदा स वृद्धो भवति तदा भवति दुःखितः ।
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥ १२.२७२.३० ॥

当他失去母亲时,便会衰老,便会悲伤;当他与母亲分离时,他的世界便变得空虚。

12.272.31

नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः ।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया ॥ १२.२७२.३१ ॥

没有与母亲相同的荫庇,没有与母亲相同的依靠。没有与母亲相同的庇护,没有与母亲相同的所爱。

12.272.32

कुक्षौ संधारणाद्धात्री जननाज्जननी स्मृता ।
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥ १२.२७२.३२ ॥

因在腹中承载而称为提利(dhātrī),因生育而被称为生母(jananī)。因养育肢体而称为母亲(ambā),因生育英雄而称为英雄之母(vīrasū)。

12.272.33

शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् ।
चेतनावान्स को हन्याद्यस्य नासुषिरं शिरः ॥ १२.२७२.३३ ॥

因照料幼儿而被称为照顾者(śuśrūḥ),随后也照料身体。谁有意识、头颅并非中空,会杀害她呢?

12.272.34

दंपत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल ।
तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥ १२.२७२.३४ ॥

夫妻生命相合时所立的意图,称为母与父;众生的目的寄于母亲之中。

12.272.35

माता जानाति यद्गोत्रं माता जानाति यस्य सः ।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥ १२.२७२.३५ ॥

母亲知道他是哪一族;母亲知道他是谁的儿子。仅因供养母亲,父亲对子嗣的慈爱与情分便由此而生。

12.272.36

पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च ।
यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यतां ॥ १२.२७२.३६ ॥

当男子亲自完成执手之礼、共守夫妻之法后,却离去之时,女子并不应被遗弃。

12.272.37

भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा ।
गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥ १२.२७२.३७ ॥

丈夫因供养妻子而称为婆陀(bhartā),也因保护妻子而称为主(pati)。然而,若此德性止息,他既不再是婆陀,也不再是主。

12.272.38

एवं स्त्री नापराघ्नोति नर एवापराध्यति ।
व्युच्चरंश्च महादोषं नर एवापराध्यति ॥ १२.२७२.३८ ॥

如此,女子并不犯过,犯过的是男子。陷入大过失而偏离正道的,唯有男子成为有罪之人。

12.272.39

स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् ।
तस्मात्मना तु सदृशमात्मानं परमं ददौ ॥ १२.२७२.३९ ॥

对于女子而言,丈夫被认为是至高的神明。因此她将与自己相等的自身,奉献给了至上者。

12.272.40

नापराधोऽस्ति नारीणां नर एवापराध्यति ।
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥ १२.२७२.४० ॥

女子并无过错,犯过的是男子。因为在一切事务中都是男子有过,所以女子不犯过。

12.272.41

यश्चनोक्तोऽथ निर्देशः स्त्रिया मैथुनवृद्धये ।
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥ १२.२७२.४१ ॥

若有人清楚地提醒女子那一条并非为增进交合而说的教示,他并无非法之过,这一点毫无疑问。

12.272.42

एवं नारीं मातरं च गौरवे चाधिके स्थिताम् ।
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥ १२.२७२.४२ ॥

如此,应当知道女子、母亲以及居于更高尊位者是不可杀害的;即使无知的牲畜也知道这一点。

12.272.43

देवतानां समावायमेकस्थं पितरं विदुः ।
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥ १२.२७२.४३ ॥

在诸神的集会中,站立为一体者被认为是父亲;出于爱,凡人与神都会走向母亲。

12.272.44

एवं विमृशतस्तस्य विरकारितया बहु ।
दीर्घः कालो व्यतिक्रान्तस्ततोस्याभ्यागमत्पिता ॥ १२.२७२.४४ ॥

他如此反复思量,因厌离而度过了很长时间;然后他的父亲回来了。

12.272.45

मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः ।
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥ १२.२७२.४५ ॥

大智的乔答摩·弥陀提住于苦行中,经过思考,随着时间他察觉到妻子行为的越轨。

12.272.46

सोऽब्रवीद्भृशसंतप्तो दुःखेनाश्रूणि वर्तयन् ।
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥ १२.२७२.४६ ॥

他极度痛苦,含悲落泪而言;凭借所学的坚定之恩,他终于生出悔意。

12.272.47

आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः ।
अतिथिव्रतमास्थाय ब्राह्मण्यं रूपमास्थितः ॥ १२.२७२.४७ ॥

三界之主补罗诃罗(因陀罗)来到我的静修处,持守客人的誓戒,化作婆罗门的形貌。

12.272.48

स मया सान्त्वितो वाग्भिः स्वागतेनाभिषूजितः ।
अर्ध्यं पाद्यं यथान्यायं मया च प्रतिपादितः ॥ १२.२७२.४८ ॥

我以言语安慰他,以欢迎之礼敬重他,并依规矩奉上奉水与洗足水。

12.272.49

परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च ।
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः ॥ १२.२७२.४९ ॥

她说“我听从你”,便会由他引导。此处即便发生不幸,女子也没有过失。

12.272.50

एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः ।
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥ १२.२७२.५० ॥

如此,女子、我、过路人、天主皆不违犯法;违犯法的只是放逸。

12.272.51

ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ।
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥ १२.२७२.५१ ॥

人们说嫉妒所生的恶习;因此即使是守持上行精液的苦行者也会堕落。我因嫉妒而被摧倒,沉没于恶行之海。

12.272.52

हत्वा साध्वीं च नारीं च व्यसनित्वाच्च वासिताम् ।
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥ १२.२७२.५२ ॥

杀害了贤淑的女子和另一个女子,又抛弃了因恶习被囚禁的女子以及应当赡养的妻子,如今谁能拯救我?

12.272.53

अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः ।
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥ १२.२७२.५३ ॥

“虽受我的命令,他心地高尚,行事审慎。”若今日他行事审慎,就会使我免于罪过。

12.272.54

चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥ १२.२७२.५४ ॥

慎行者啊,愿你吉祥,愿你吉祥!慎行者啊,若你今日是慎行者,那么你正因此而是慎行者。

12.272.55

त्राहि मां मातरं चैव तपो यच्चार्जितं त्वया ।
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥ १२.२७२.५५ ॥

请救我和母亲,并以你所修得的苦行,使自己免于罪业;今日成为一个经久思虑而后行的人。

12.272.56

सहजं चिरकारित्वमतिप्रज्ञतया तव ।
सफलं तत्तथा तेऽस्तु भवाद्य चिरकारिकः ॥ १२.२७२.५६ ॥

愿你天生的审慎与大智慧结出果实,愿一切如你所愿;今日成为一个经久思虑而后行的人。

12.272.57

चिरमांशसितो मात्रा चिरं गर्भेण धारितः ।
सफलं चिकारित्वं कुरु त्वं चिरकारिक ॥ १२.२७२.५७ ॥

你的母亲长久地怀着你,长久地在腹中护持你;愿你使你的审慎结出果实,哦,经久思虑而后行的人。

12.272.58

चिरायते च संतापाच्चिरं स्वपिति धारितः ।
आवयोश्चिरसंतापादवेक्ष्य चिरकारिक ॥ १२.२७२.५८ ॥

他因忧愁而迟缓,长久沉睡;看到我们两人长久的痛苦,哦,经久思虑而后行的人。

12.272.59

एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा ।
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥ १२.२७२.५९ ॥

王啊,如此忧伤的大仙人乔达摩那时看见他的儿子经久思虑者站在近旁。

12.272.60

चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ।
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥ १२.२७२.६० ॥

然而经久思虑者见到父亲,极为悲痛,弃下兵器,低首叩拜,开始安抚父亲。

12.272.61

गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि ।
पत्नीं चैव निराकारां परामभ्यागमन्मुदम् ॥ १२.२७२.६१ ॥

于是乔达摩见他俯首伏地,又见妻子神色黯然,心中大为欢喜。

12.272.62

न हि सा तेन संभेदं पत्नी नीता महात्मना ।
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥ १२.२७२.६२ ॥

那位大德之人从未在僻静处与妻子亲近;住在修行处的儿子也同样专心自持。

12.272.63

हन्या इति समादेशः शस्त्रपाणौ सुते स्थिते ।
विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु ॥ १२.२७२.६३ ॥

“杀之”的命令针对手持兵器站立的儿子;但他在出生的目的、流放之中以及自身的职责上都是谦逊的。

12.272.64

बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ।
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥ १२.२७२.६४ ॥

他见儿子跪拜在父亲脚下,心中想到拿起兵器的轻率被恐惧所掩盖。

12.272.65

ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि ।
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥ १२.२७२.६५ ॥

随后父亲久久地赞美他,久久地嗅他的头顶,久久地用双臂拥抱他,并祝福说:“愿你长寿!”

12.272.66

एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः ।
अभिनन्द्य महाप्रज्ञ इदं वचनमब्रवीत् ॥ १२.२७२.६६ ॥

那位大智的乔达摩以慈爱与欢喜之德赞美儿子之后,说出了这些话。

12.272.67

चिरकारिक भद्रं ते चिरकारी चिरं भव ।
चिराय यदि ते सौम्य चिरमस्मि न दुःखितः ॥ १२.२७२.६७ ॥

审慎行事者啊,愿你吉祥。愿你长久保持耐心。温和的人啊,即使你迟来,我也不会长久忧伤。

12.272.68

गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ।
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः ॥ १२.२७२.६८ ॥

博学的乔达摩,众仙中最杰出者,也说了这些偈颂:在坚定和审慎的人中,美德得以依托。

12.272.69

चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् ।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥ १२.२७२.६९ ॥

结交朋友应当缓慢,放弃已做之事也应当缓慢。因为缓慢建立的友谊,才值得长久维系。

12.272.70

रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥ १२.२७२.७० ॥

在贪欲、傲慢与自负中,在背叛与罪恶之行中,甚至在必须去做的不悦之事中,审慎者都会受到称赞。

12.272.71

बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥ १२.२७२.७१ ॥

对待亲属、朋友、仆人与妇女,以及在不明显的过失中,审慎者都会受到称赞。

12.272.72

एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत ।
कर्मणा तेन कौरव्य चिरकारितया तथा ॥ १२.२७२.७२ ॥

婆罗多的后裔啊,俱卢之子啊,就这样,乔达摩因儿子的那一行为和他的审慎而在那里感到欢喜。

12.272.73

एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः ।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥ १२.२७२.७३ ॥

如此,在一切事务上深思熟虑,人若延迟才作决定,便不会长久懊悔。

12.272.74

चिरं धारयते रोषं चिरं कर्म नियच्छति ।
पश्चात्तापकरं कर्म न किंचिदुपपद्यते ॥ १२.२७२.७४ ॥

长久压抑愤怒、长久约束自己行为的人,不会做出令人事后懊悔的事。

12.272.75

चिरं वृद्धानुपासीत चिरमन्यांश्च पूजयेत् ।
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम् ॥ १२.२७२.७५ ॥

长久侍奉长者,长久尊敬他人,长久奉行法,长久探求真理。

12.272.76

चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च ।
चिरं विनीय चात्मानं चिरं चात्यनवज्ञताम् ॥ १२.२७२.७६ ॥

长久追随智者,长久侍奉贤者,长久克制自己,长久不过分轻慢他人。

12.272.77

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ।
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते ॥ १२.२७२.७७ ॥

若他人说出合乎法的话,应长久倾听;被问及时,也应长久作答,如此便不会长久懊悔。

12.272.78

उपास्य बहुलास्तस्मिन्नाश्रमो सुमहातपाः ।
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥ १२.२७२.७८ ॥

这位大苦行的婆罗门在那处修行地侍奉多年后,便与儿子一同升往天界。