Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.273

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.273.1

कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १२.२७३.१ ॥

国王应如何保护臣民,又不可加害任何人?善人中最优秀者,祖父,我请问您,请告诉我。

12.273.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥ १२.२७३.२ ॥

此处人们也讲述这段古老的传说:国王德尤玛特塞纳与萨提亚瓦特之间的对话。

12.273.3

अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।
वधाय नीयमानेषु पितुरेवानुशासनात् ॥ १२.२७३.३ ॥

我们听说,萨提亚瓦特在被押去处死的人群中,依父亲的命令说出了一句晦涩的话。

12.273.4

अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् ।
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥ १२.२७३.४ ॥

法会变为非法,非法会变为法。把杀戮称为法,这是不可能的。

12.273.5

अथ चेदवधो धर्मोऽधर्मः को जातुचिद्भवेत् ।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥ १२.२७३.५ ॥

若不杀生即是法,那什么才可能是非法?若不杀盗贼,萨提亚瓦特啊,就会出现混乱。

12.273.6

ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।
लोकयात्रा न चैव स्यादश्च चेद्वेत्थ शंस नः ॥ १२.२७३.६ ॥

在迦利时代,他心中不会生起“这是我的”之念,那么世间的运行也将无法延续。若你知道,请告诉我们。

12.273.7

सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।
धर्मपाशनिबद्धानां नाल्पोऽप्यपचरिष्यति ॥ १२.२७३.७ ॥

三种种姓都应受婆罗门约束;被法绳束缚者,连一点也不会违犯。

12.273.8

यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥ १२.२७३.८ ॥

他们中若有人违犯,再生者应指明:「此人不听我言」;然后国王应对其施以刑罚。

12.273.9

तत्त्वाभावेन यच्छास्त्रं तत्कुर्यान्नान्यथा वधः ।
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि।
दस्यून्निहन्ति वै राजा भूयसो वाऽप्यनागसः ॥ १२.२७३.९ ॥

若无真知,应依经典所示而行,不可他行;不应杀戮。不应未经审察而行事;应依治国之术,如法而行。国王杀盗贼,或甚至杀害许多无辜者。

12.273.10

भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते ।
परेणापकृतो राजा तस्मात्सम्यक्प्रधारयेत् ॥ १२.२७३.१० ॥

妻子、母亲、父亲、儿子,被人杀害;因此,受他人侵害的国王,应当妥善裁决。

12.273.11

असाधुश्चैव पुरुषो लभते शीतमेकदा ।
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजाः ॥ १२.२७३.११ ॥

不善之人有时也能得到清凉(安乐);无论是从善人还是从不善之人,都会生出美好的子嗣。

12.273.12

न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥ १२.२७३.१२ ॥

不应毁灭根本;这不是永恒的法。即便不杀戮,也规定了赎罪之法。

12.273.13

उद्वे तेन बन्धेन विरूपकरणेन च ।
वधदण्डेन क्लिश्या न पुरोहितससदि ॥ १२.२७३.१३ ॥

不应以那种焦虑、捆绑、毁容和死刑折磨祭司会中的婆罗门。

12.273.14

यदा पुरोहितं वा ते पर्येयुः शरणैपिणः ।
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥ १२.२७३.१४ ॥

当他们寻求庇护,围绕祭司说:“婆罗门啊,我们不会再这样做了,这不是罪过”,

12.273.15

तदा विसर्गमर्हाः स्युरितीदं धातृशासनम् ।
विभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम् ॥ १२.२७३.१५ ॥

那时应当释放他们,这是造物主的命令。唯有手持杖、身披鹿皮、剃光头的婆罗门才配受惩罚。

12.273.16

गरीयांसो गरीयांसमपराधे पुनः पुनः ।
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥ १२.२७३.१६ ॥

地位更高者一再犯错时,便不像初次那样值得释放。

12.273.17

यत्रयत्रैव शक्येरन्संयन्तुं समये प्रजाः ।
स तावान्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते।
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ॥ १२.२७३.१७ ॥

凡能以法度约束民众之处,便称为法,只要它不被违背。但若不杀他们,一切将再次毁灭。

12.273.18

पूर्वे पूर्वतरे चैव सुशास्या ह्यभवञ्जनाः ।
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ॥ १२.२७३.१८ ॥

在更早以前,人们很容易被治理;他们温和,大多诚实,少有怨恨,少有愤怒。

12.273.19

पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ।
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ॥ १२.२७३.१९ ॥

古时唯以斥责为刑罚;此后有以言语为刑罚。再后又有没收财产之刑,如今则盛行死刑。

12.273.20

वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥ १२.२७३.२० ॥

即使以死刑,也无法约束其他人。

12.273.21

नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।
न गन्धर्वपितृणां च कः कस्येह न कश्चन ॥ १२.२७३.२१ ॥

据天启所言,人中无盗贼,神中亦无;乾闼婆与祖灵中也无。此处谁属于谁?无人。

12.273.22

पक्वं श्मशानादादत्ते पिशाचांश्चापि दैवतम् ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ १२.२७३.२२ ॥

神祇也取用火葬场中煮的食物,夜叉鬼也取用。若有人与那些心智败坏之人立约……

12.273.23

तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।
कस्यचिद्भूतभव्यस्य लोभेनान्तं तथा कुरु ॥ १२.२७३.२३ ॥

若你不能以不杀保护善人,则借某个现在或未来众生的贪欲,将此了结。

12.273.24

राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।
तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥ १२.२७३.२४ ॥

诸王为世间运行而修最高苦行。他们在此类人面前感到羞惭,于是便退缩了。

12.273.25

वित्रास्यमानाः सुकृतो न कामाद्धन्ति दुष्कृतीन् ।
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥ १२.२७३.२५ ॥

即使受到惊吓,善人也不会出于贪欲而杀害恶人;君王大多凭借善行来统治臣民。

12.273.26

श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते ।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥ १२.२७३.२६ ॥

即便是最好中的最好者也如此行事,世界便随之效法他们的行为;人们总是效法老师的行为。

12.273.27

आत्मानमसमाधाय समाधित्सति यः परान् ।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥ १२.२७३.२७ ॥

若有人不先安定自己,却想安定他人,并在诸境中为感官所役使——世人便会嘲笑他。

12.273.28

यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् ।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥ १२.२७३.२८ ॥

凡因君王的傲慢与迷惑而做出不当之事者,应以一切手段加以制约;如此他便能远离罪恶。

12.273.29

आत्मैवादौ नियन्तव्यो दुष्कृंतं संनियच्छता ।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥ १२.२७३.२९ ॥

想要制止恶行的人,首先应当约束自己;即便是近亲,也应以重刑加以惩处。

12.273.30

यो राजा लोभमोहेन किंचित्कुर्यादसांप्रतम् ।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥ १२.२७३.३० ॥

凡国王因贪婪与迷惑而做出不当之事者,应以一切手段加以制约;如此他便能远离罪恶。

12.273.31

यत्र वै पापकृन्नीचो न महद्दुःखमर्च्छति ।
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ॥ १२.२७३.३१ ॥

若卑劣的作恶者不遭受大苦,则罪恶在彼增长,法必定衰减。

12.273.32

इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ।
इति चैवानुशिष्टोऽस्मि पूर्वैस्तातपितामहैः।
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥ १२.२७३.३२ ॥

如此,具慈悲之性的博学婆罗门教诲了我;同样,先祖、父亲与祖父也教导我,以慈悲极力安慰我。

12.273.33

एतत्प्रथमकल्पेन राजा कृतयुगे जयेत् ।
पादोनेनापि धर्मेण गच्छेत्रेतायुगे तथा।
द्वापरे तु द्विपादेन पादेन त्ववरे युगे ॥ १२.२७३.३३ ॥

依此初次之法,国王在克里多时代获胜;减少四分之一的法,他在特雷塔时代同样行进;在德瓦帕拉时代以一半的法,在其后时代以四分之一的法。

12.273.34

तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह ।
भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥ १२.२७३.३४ ॥

同样,当羯利时代来临时,由于国王的恶行,在某个特定时期,法可能只剩十六分之一。

12.273.35

अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥ १२.२७३.३५ ॥

依此初次之法,诚实者之间可能发生混杂;应确定寿命、力量与时限,然后规定苦行。

12.273.36

सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥ १२.२७३.३६ ॥

为使人们为了真理而不在此舍弃法的大果,斯瓦扬布瓦摩奴出于对众生的慈悲而说。