Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.274

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.274.1

अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः ।
यः स्यादुमयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥ १२.२७४.१ ॥

不与众生相违而行的舍弃,能成就六德,且为两种道路所共有的法——请告诉我,祖父。

12.274.2

गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः ।
अदूरसंप्रस्थितयोः किंस्विच्छ्रेयः पितामह ॥ १२.२७४.२ ॥

居家之法与瑜伽之法,二者相距不远而行,其中哪一个更为殊胜,祖父?

12.274.3

उभौ धर्मौ महाभागावुभौ परमदुश्चरौ ।
उभौ महाफलौ तौ तु सद्भिराचरितावुभौ ॥ १२.२७४.३ ॥

这两种法都极为殊胜,极难奉行;二者都带来大果报,且都为善人所奉行。

12.274.4

अव ते वर्तयिष्यासि प्रामाण्यमुभयोस्तयोः ।
शुणुष्वैकमताः पार्थ च्छिन्नधर्मार्थसंशयम् ॥ १२.२७४.४ ॥

我将为你阐明这二者的权威所在;普利塔之子,请专心一意地听,使你关于法与利的疑惑被斩断。

12.274.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥ १२.२७४.५ ॥

关于此事,人们也引用这段古老的传说——迦毗罗与牛的对话。请理解它,坚战。

12.274.6

आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् ।
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥ १२.२७४.६ ॥

察看传承、那永恒坚固的古老典籍,我们听说往昔那呼沙杀了特瓦湿多之牛。

12.274.7

तां नियुक्तामदीनात्मा सत्वस्थः संयमे रतः ।
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा ॥ १२.२७४.७ ॥

被如此安排的状态,心志不屈、安住于善性、乐于克制、有智慧、饮食有节的迦毗罗也同样看见了。

12.274.8

स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् ।
स्वरेण शिथिलां सत्यां वेदा ३ इत्यब्रवीत्सकृत् ॥ १२.२७४.८ ॥

他获得了至上、决定性、无所畏惧的智慧,曾一次说出了“吠陀”——在音调中已松懈的真理。

12.274.9

तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् ।
हंहो वेदा ३ यदि मता धर्माः केनापरे मताः ॥ १२.२७४.९ ॥

贤者斯尤马拉什米进入那番话语,对苦行者说:“喂!若吠陀被认可,那么其他法又是被什么认可的?”

12.274.10

तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः ।
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥ १२.२७४.१० ॥

坚定的苦行者,以闻知与智慧为眼目,自知者,都认为一切皆是仙人所说。

12.274.11

तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः ।
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वतः ॥ १२.२७४.११ ॥

对于这样无渴爱、无热恼、无所求、一切无所作为的人,还有什么想要谈论吠陀的愿望呢?

12.274.12

नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित् ।
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥ १२.२७४.१२ ॥

我不诽谤吠陀,也永远不会反对它们。我们听说,不同生活期者的业行有同一目的。

12.274.13

गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति ।
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥ १२.२७४.१३ ॥

舍弃者必定前行,林居者也前行;居家者与梵行学徒,二者也都前行。

12.274.14

देवयाना हि पन्थानश्चत्वारः शाश्वता मताः ।
नैषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम् ॥ १२.२७४.१४ ॥

天道之四路被认为是永恒的;其中无所谓高低,但它们在果报上的强弱已经说明。

12.274.15

एवं विदित्वा सर्वार्थानारभेतेति वैदिकम् ।
नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥ १२.२७४.१५ ॥

如此了知之后,应当为一切目的而行动——这是吠陀的说法;但在别处又听到苦行者的圣典说:‘不应行动’。

12.274.16

अनारम्भे ह्यदोषः स्यादारम्भे दोष उत्तमः ।
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥ १२.२७४.१६ ॥

不行动则无过;行动则有大过。如此确立的经典,其强弱之理难以明了。

12.274.17

यदत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम् ।
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥ १२.२७४.१७ ॥

此处关于不杀生被视为明显而至高的,若你不依传承经典而能看见,便请说出来。

12.274.18

स्यूमरश्मिरुवाच ।
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः।
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥ १२.२७४.१८ ॥

苏尤摩罗希摩说:常闻圣典云:‘欲生天者应当祭祀。’因为先设定了果报,祭祀才得以展开。

12.274.19

अजश्चाश्वश्च मेषश्च र्गौश्च पक्षिगणाश्च ये ।
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः ॥ १२.२७४.१९ ॥

山羊、马、公羊、牛、鸟群,以及村野的草药——这些是生命之息的食物,天启如是说。

12.274.20

तथैवान्नं ह्यहरहः सायंप्रातर्निरूप्यते ।
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥ १२.२७४.२० ॥

同样,食物每日于晚间与清晨被规定。牲畜与谷物是祭祀的支分,天启如是说。

12.274.21

एतानि सह यज्ञेन प्रजापतिरकल्पयत् ।
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ॥ १२.२७४.२१ ॥

生主与祭祀一同设定了这一切。由此,主生主以祭祀崇拜诸神。

12.274.22

तदन्योन्यवराः सर्वे प्राणिनः सप्तसप्त च ॥ १२.२७४.२२ ॥

这些生灵彼此皆为胜者,各以七为数。

12.274.23

गौरजो मनुजः श्वा वा अश्वाश्वतरगर्दभाः ।
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ १२.२७४.२३ ॥

牛、山羊、人、狗或马、骡与驴——智者宣称这七者为家畜。

12.274.24

सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ।
हरिणः शललाश्चैव सप्तारण्यास्तथा स्मृताः ॥ १२.२७४.२४ ॥

狮、虎、野猪、水牛与象,以及鹿与羚羊——这七种野兽同样被记载。

12.274.25

यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् ॥ १२.२७४.२५ ॥

在祭祀中献上的整个宇宙,被称为至上之名。

12.274.26

एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा ।
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥ १२.२७४.२६ ॥

这也是先人乃至更早的先人所认可的。哪位智者会不审视自己的能力呢?

12.274.27

पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह ।
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गोस्ति ते मखात् ॥ १२.२७४.२७ ॥

牲畜、人类与树木连同草药,都向往天界;然而离开祭祀,对他们而言并无天界。

12.274.28

ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि ।
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥ १२.२७४.२८ ॥

草药、牲畜、树木、藤蔓、酥油、乳、凝乳、作为供物的大地、方位、信心与时间——这十二者。

12.274.29

ऋचो यजूंषि सामानि ऋत्विजश्चापि षोडश ।
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ॥ १२.२७४.२९ ॥

梨俱之颂、夜柔之咒、娑摩之歌,以及十六位祭司;应当知道火是家主,他被称为第十七。

12.274.30

अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा ॥ १२.२७४.३० ॥

这些是祭祀的支分;祭祀本身便是根本,天启如此宣示。以酥油、乳、凝乳、牛粪、酸乳与皮革,祭仪得以完成。

12.274.31

बालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ।
एवं प्रत्यकेशः सर्वं यद्यदस्य विधीयते ॥ १२.२७४.३१ ॥

与小牛、牛角、牛蹄一起——如此,通过牛,祭祀得以成就。同样,凡为之所规定的一切,都在祭祀中完成。

12.274.32

यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः ।
संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥ १२.२७४.३२ ॥

他们共同与祭司及其酬礼一起承载祭祀。将这一切汇集起来,他们使祭祀圆满完成。

12.274.33

यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः ।
एवं पूर्वतराः पूर्वे प्रवृत्ताश्चैव मानवाः ॥ १२.२७४.३३ ॥

这些确实是为祭祀而被创造的,正如吠陀依其义所闻。同样,远古的先人也都投身于祭祀之中。

12.274.34

न हिनस्ति नारभते नाभिद्रुह्यति किंचन ।
यज्ञैर्यष्टव्यमित्येव यो यजत्यफलेप्सया ॥ १२.२७४.३४ ॥

不伤害,不作任何加害之事,对任何人都不怀敌意;以'只能通过祭祀来供奉'的想法行祭,不求果报的人。

12.274.35

यज्ञाङ्गान्यपि चैतानि यथोक्तान्यपि सर्वशः ।
विधिना विधियुक्तानि तारयन्ति परस्परम् ॥ १२.२७४.३५ ॥

这些祭祀的支分,如上所说,在一切方面依规定、如法地实行时,彼此相互度脱。

12.274.36

आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः ।
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥ १२.२७४.३६ ॥

我看见那先贤的传承,吠陀依之而立。智者遵从婆罗门的教导而得见它。

12.274.37

ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च ।
अनुयज्ञं जगत्सर्वं यज्ञश्चानुजगत्सदा ॥ १२.२७४.३७ ॥

祭祀源于婆罗门,并奉献给婆罗门。整个世界跟随祭祀,而祭祀也总是跟随世界。

12.274.38

ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् ।
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥ १२.२७४.३८ ॥

唵是梵的源头。南无、娑婆诃、施陀、缚沙吒,凡有所用者,即使是依自己能力所作的仪式中,也都会使用。

12.274.39

न तस्य त्रिषु लोकेषु परलोकभयं विदुः ।
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥ १२.२७४.३९ ॥

在三界之中,他不知有来世之怖——此处吠陀如是宣说,成就者与至上仙人也如是说。

12.274.40

ऋचो यजूंहि सामानि स्तोत्राश्च विधिचोदिताः ।
यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः ॥ १२.२७४.४० ॥

诵偈、祭祀祷词、歌咏与赞歌,依仪轨所定——凡此一切皆存于其中者,方是真正的再生族。

12.274.41

अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज ।
यच्चेतरैर्महायज्ञैर्वेद तद्भगवांस्तथा ॥ १२.२७४.४१ ॥

哦再生者,立圣火时所行,压榨苏摩时所行,以及其他大祭中所行——世尊亦如是知之。

12.274.42

तस्माद्ब्रह्मन्यजेच्चैव याजयेच्चाविचारयन् ।
यजतो यज्ञविधिना प्रेत्य स्वर्गफलं महत् ॥ १२.२७४.४२ ॥

故此,婆罗门啊,应无疑地自己祭祀,也应使他人祭祀。依祭祀仪轨而祭者,死后将获得天界的大果报。

12.274.43

नायं लोकोस्त्ययज्ञानां परश्चेति विनिश्चयः ।
वेदवादविदश्चैव प्रमाणमुभयं तदा ॥ १२.२७४.४३ ॥

对于不行祭祀的人来说,既无此世,也无彼世——这是确定的结论;而对于通晓吠陀教义的人,此时两者皆为依据。