摩诃婆罗多 · 章 12.275
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.275.1
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः ।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥ १२.२७५.१ ॥
如此观见,行于正道的苦行者前行;在一切世界中,对他们而言都没有违越。
12.275.2
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः ।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥ १२.२७५.२ ॥
超越对立之偶,不行礼拜,无求报之缚,智者脱离一切罪恶,清净无垢地游行。
12.275.3
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः ।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥ १२.२७५.३ ॥
在解脱、完全舍弃与智慧中坚定决意者,安住于梵,成为梵,唯以梵为居处。
12.275.4
येऽशोका नष्टरजसस्तेषां लोकाः सनातनाः ।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥ १२.२७५.४ ॥
凡无忧、灭尽罗阇之人,其界永恒;既已获得其至上之归宿,何必再行居家之事?
12.275.5
स्यूमरश्मिरुवाच ।
यद्येषां परमा निष्ठा यद्येषां परमा गतिः।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥ १२.२७५.५ ॥
若其至上之定与至上之归宿如此,则不依托居家者,他种生活阶段便无由成立。
12.275.6
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः ॥ १२.२७५.६ ॥
犹如一切众生依靠母亲而生存,其他生活阶段也依靠居家之道而运行。
12.275.7
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेव हि ॥ १२.२७५.७ ॥
唯有居家者行祭祀,唯有居家者修苦行。此法之根本,凡有者,正是居家之道。
12.275.8
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेः ।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥ १२.२७५.८ ॥
贤者啊,一切有情皆由生育等而生。而生育在他处绝无可寻。
12.275.9
यास्तु स्युर्बहिरोषध्यो बहिरन्यास्तथाऽद्रिजाः ।
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ॥ १२.२७५.९ ॥
彼外之草药,及同样生于山中者;因为草药之外,寻不到任何有情。
12.275.10
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ।
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ॥ १२.२७५.१० ॥
此言“居家则无解脱”,究竟对谁为真?此言出自无信、无智、缺乏微妙洞察者之口。
12.275.11
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ।
शमस्योपरमो दृष्टः प्रव्रज्यायामपण्डितैः ॥ १२.२७५.११ ॥
那些绝望、懈怠、疲惫、被自身业行所煎熬的无智之人,在出家中看见了寂静的终结。
12.275.12
त्रैलोक्यस्येव हेतुर्हि मर्यादा शाश्वती ध्रुवा ।
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥ १२.२७५.१२ ॥
永恒而坚定的秩序,仿佛正是三界之因。尊贵的婆罗门自出生起便受到尊崇。
12.275.13
प्राग्गर्भाघानमन्त्रा हि प्रवर्तन्ते द्विजातिषु ।
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः ॥ १२.२७५.१३ ॥
事实上,受孕前仪式的咒语在再生族中流行;它们存在于不可信者之中,也依附于可信者之中。
12.275.14
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने ।
दानं गवां पशूनां वा पिण्डानामप्सु मज्जनम् ॥ १२.२७५.१४ ॥
在火化时,在再次皈依时,在依止之时,在用器皿进食时,在布施牛或牲畜时,或在将供物团投入水中时。
12.275.15
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा ।
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥ १२.२७५.१५ ॥
光辉的、坐于圣草之上的、以及食肉的祖先也是如此。对于死者,咒语也被接受,咒语正是其原因。
12.275.16
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् ।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥ १२.२७५.१६ ॥
在吠陀如此宣告之时,当凡人对祖先、诸神和再生族负有债务时,何人如何能得解脱?
12.275.17
श्रिया विहीनैरलसैः पण्डितैश्च पलायितम् ।
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥ १२.२७५.१७ ॥
由于缺乏财富、懒散者和学者之辈,真理已经逃离;因对吠陀学说缺乏真正的理解,虚妄看起来就像真实。
12.275.18
न वै पापैर्हियते कृष्यते वा ।
यो ब्राह्मणो यजते वेदशास्त्रैः।
ऊर्ध्वं यजन्पशुभिः सार्धमेति ।
ततः पुनस्तर्कयते न कामान् ॥ १२.२७५.१८ ॥
依吠陀与经典举行祭祀的婆罗门,不会被罪恶所夺去或拖走;他在祭祀中与牲畜一同升向上界,此后便不再考虑欲望。
12.275.19
न वेदानां परिभवान्न शाठ्येन न मायया ।
महत्प्राप्नोति पुरुषो ब्राह्मणो ब्रह्म विन्दति ॥ १२.२७५.१९ ॥
人不因轻慢吠陀、不因欺诈、不因幻术而获得大果;婆罗门证得梵。
12.275.20
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम् ।
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥ १२.२७५.२० ॥
新月祭与满月祭、智者的火祭以及四月祭都存在;其中祭祀是永恒的。
12.275.21
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः ।
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव ॥ १२.२७५.२१ ॥
那些不从事世俗事务、意志坚定、清净并以梵为名的婆罗门,确实以甘露般的供养使诸神满足。
12.275.22
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः ॥ १२.२७५.२२ ॥
对于成为一切众生之我、并视一切众生的人,即便诸神也在道路上迷惑——他们寻求无处之人的所在。
12.275.23
चतुर्द्वारं पुरुष चर्तुर्मुखं ।
चतुर्मुखो नैनमुपैति निन्दा।
बाहुभ्यां पद्भ्यामुदरादुपस्था ।
त्तेषां द्वारं द्वारपालो बुभूषेत् ॥ १२.२७५.२३ ॥
具有四门的人,即使四面神也不带责备地接近他。通过双臂、双足、腹与生殖器,愿他愿做这些门的守门人。
12.275.24
नाक्षैर्दीव्येन्नाददीतान्यवित्तं ।
न वाऽयोनीयस्य शृतं प्रगृह्णात्।
क्रुद्धो न चैव प्रहरेत धीमां ।
स्तथास्य तत्पाणिपादं सुगुप्तम् ॥ १२.२७५.२४ ॥
不应以骰子赌博,不应接受他人的财物,也不应接受出身卑贱者煮的食物。智者在愤怒时不应打人;如此,他的手足便得到良好的守护。
12.275.25
नाक्रोशमृच्छेन्न वृथा वदेच्च ।
न पैशुनं जनवादं च कुर्यात्।
सत्यव्रतो मितभाषोऽप्रमत्त ।
स्तथाऽस्य वाग्द्वारमथो सुगुप्तम् ॥ १२.२७५.२५ ॥
不受辱骂,不妄言。不搬弄是非,不议论他人。持守真实誓愿,言语节制,保持警觉。如此,他的言语之门便得以妥善守护。
12.275.26
नानाशनः स्यान्न महाशनः स्या ।
न्न लोलुपः साधुभिरागतः स्यात्।
यात्रार्थमाहारमिहाददीत ।
तथाऽस्य स्याज्जाठरद्वारगुप्तिः ॥ १२.२७५.२६ ॥
不可饮食过多或贪求多样美食;来到善人之中不可贪婪。只为维持身体而在此进食。如此,他的腹门便得以守护。
12.275.27
न वीरपत्नीं विहरेत नारीं ।
न चापि नारीमनृतावाह्वयीत।
भार्याव्रतं ह्यात्मनि धारयीत ।
तथास्योपस्थद्वारगुप्तिर्भवेत् ॥ १२.२७५.२७ ॥
不可与英雄之妻交往,也不可与任何女子交往,非经期之时不可召唤女子。应在自身之中持守对妻子的忠贞誓愿。如此,他的生殖之门便得以守护。
12.275.28
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः ।
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः ॥ १२.२७५.२८ ॥
那位智者,其所有之门——生殖器、腹部、双手,第四是言语——都得以妥善守护,他才真正是再生者(婆罗门)。
12.275.29
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत ।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥ १२.२७५.२९ ॥
对于门户无人守护者,其一切行为都将徒劳无功。苦行于他何用,祭祀于他何用,自我又于他何用?
12.275.30
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥ १२.२७५.३० ॥
衣无上衣,卧于未铺之床,以臂为枕,内心平静——诸天知他为婆罗门。
12.275.31
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः ।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥ १२.२७५.३१ ॥
那在一切二元之园中独自欢愉、不思念他人的牟尼,诸神称他为婆罗门。
12.275.32
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥ १२.२७५.३२ ॥
凡以此一切为所知——自性及其变化,知晓一切众生之去向者——诸神知其为婆罗门。
12.275.33
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥ १२.२७५.३३ ॥
他施予一切众生无畏,使一切从他获得安全,成为一切众生之自我——诸神知其为婆罗门。
12.275.34
नान्तरेणानुजानाति वेदानां यत्क्रियाफलम् ।
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम् ॥ १२.२७५.३४ ॥
于吠陀祭仪之果,若未知而不接受,且不知此一切,却欲求另一种果报——
12.275.35
स्वकर्मभिः संश्रितानां तपो घोरत्वमागमत् ।
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥ १२.२७५.३५ ॥
凡依其自身业行者,苦行之严酷随之而至;那善行、奇妙、古老、永恒、坚定之道——
12.275.36
अशक्नुवन्तश्चरितुं किंचिद्धर्मेषु सूत्रितम् ।
निरापद्धर्म आचारो ह्यप्रमादो पराभवः ॥ १२.२७५.३६ ॥
若不能践行诸法中所编织之任何一项——无灾难之法的行为即是不放逸,而由此则招致败亡。
12.275.37
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रवाणि च ।
विगुणानि च पश्यन्ति तथा नैकानि केन च ॥ १२.२७५.३७ ॥
行为有果报,有结果,且是确定的;然而有人却看见它们无德且种类繁多。
12.275.38
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः ।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥ १२.२७५.३८ ॥
此处之德极难知晓,已知之德也极难践行;你看见已践行者也是有限的。
12.275.39
स्यूमरश्मिरुवाच ।
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥ १२.२७५.३९ ॥
Sthūmaraśmi说:吠陀的权威与有果的舍弃,愿这两条道路都清楚;尊者啊,请告诉我。
12.275.40
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः ।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥ १२.२७५.४० ॥
在此,你们站在正道上,看见了现量;然而此处有什么现量,是你们所崇奉的?
12.275.41
स्यूमरश्मिरुवाच ।
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ॥ १२.२७५.४१ ॥
Sthūmaraśmi说:婆罗门啊,我来此是为了求问;我希望得到至善,因为正直而作答,并非为了想要说话。
12.275.42
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ।
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ॥ १२.२७५.४२ ॥
愿尊者为我解说这可怕的疑惑:你们站在正道上,见此现量,此处最为现量的,是你们所崇奉的什么?
12.275.43
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम् ।
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः ॥ १२.२७५.४३ ॥
除逻辑论著之外,应依照圣典理解圣典之义。圣典即吠陀的教说,而逻辑论著亦是圣典。
12.275.44
यथाश्रममुपासीत आगमस्तत्र सिध्यति ।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्ययात् ॥ १२.२७५.४४ ॥
应依照所处的生活阶段修行;在那里,经由圣典成就便得以实现。成就具有直接知觉之形,凭借对圣典的确信而得以显现。
12.275.45
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना ।
ह्रियमाणा कथ विप्र कुबुद्धींस्तारयिष्यति ॥ १२.२७५.४५ ॥
如系着缆绳的船被激流冲走,婆罗门啊,这如何能救度那些愚昧之人呢?
12.275.46
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो ।
नैव त्यागी न संतुष्टो नाशोको न निरामयः।
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥ १२.२७५.४६ ॥
愿世尊说之;我已准备好,请您开示。无人是舍弃者,无人知足,无人离忧,无人离病;无人没有求知之欲,无人返回,无人背离。
12.275.47
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् ।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ १२.२७५.४७ ॥
你们也像我们一样欢喜和忧伤;感官之境对你们和一切众生而言都是一样的。
12.275.48
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।
एकमालम्बमानानां निर्णये किं निरामयम्।
एतद्ब्रवीतु भगवानुपपन्नोस्य्यधीहि भो ॥ १२.२७५.४८ ॥
如此,在四种姓与四住期的种种行持之中,对于只执守一种的人而言,何者才是无病的抉择?愿世尊说之;我已准备好,请您开示。
12.275.49
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु ।
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम् ॥ १२.२७५.४९ ॥
凡在一切行事中正确奉行的经典,凡有人遵行之处,那对他而言便是无害的。
12.275.50
सर्वं प्रापयति ज्ञानं ये ज्ञानं ह्यनुवर्तते ।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥ १२.२७५.५० ॥
追随智慧的人,智慧使他得到一切;而背离智慧的行为,则毁灭众生。
12.275.51
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरमयाः ।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥ १२.२७५.५१ ॥
你们始终是智者,且完全无害。所谓自我合一的境界,有时才会达到。
12.275.52
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः ।
कामद्वेषाभिभूतत्वादहंकारवशं गताः ॥ १२.२७५.५२ ॥
有些人不能真正理解经典,凭借辩论之力行事;为欲望和憎恨所压倒,他们便落入我慢的掌控之中。
12.275.53
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।
ब्रह्मस्तेना निरारम्भा अपक्वमनसोऽशिवाः ॥ १२.२७५.५३ ॥
不了解经典的真实面貌,他们便成为经典的掠夺者、吠陀的窃贼,无所作为、心智未熟,且不吉祥。
12.275.54
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते ।
तेषां तमः शरीराणां तम एव परायणम् ॥ १२.२७५.५४ ॥
他们只看见无德性,而不去践行德性;对于身体为黑暗的人,黑暗便是他们最终的归宿。
12.275.55
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः ।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः।
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसंभवाः ॥ १२.२७५.५५ ॥
凡众生依其本性而受自然支配者,憎恨、欲望、愤怒、骄慢、虚妄与迷醉便常常随其而行,因为诸德皆生于自然。
12.275.56
ये तद्बुद्ध्वाऽनुपश्यन्तः संत्यजेयुः शुभाशुभम् ।
परां गतिमभीप्सन्तो यतयः संयमे रताः ॥ १२.२७५.५६ ॥
凡知此而明察者,舍弃善与恶;渴望至高归宿、乐于克制的苦行者便是如此。
12.275.57
स्यूमरश्मिरुवाच ।
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम्।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥ १२.२७५.५७ ॥
婆罗门啊,这一切你已依经典详尽宣说。若不知经典之义,任何行为都不会正常进行。
12.275.58
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः ।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥ १२.२७५.५८ ॥
凡是合宜的行为,都属于全部经典——此为天启之言;而不合宜者则非经典——此亦见于天启。
12.275.59
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः ।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥ १२.२७५.५९ ॥
可以确定,离开经典便无任何行为;而异于吠陀言说者非经典——天启如是说。
12.275.60
शास्त्रादपेतं पश्यन्ति बहवोऽत्यर्थमानिनः ।
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ १२.२७५.६० ॥
许多人背离经典,极度骄傲,便从中看到了它;另一些人既看不到经典在此世的过失,也看不到其在彼世的过失。对你们而言,感官对象在一切众生中都是相同的。
12.275.61
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।
एकमालम्बमानानां निर्णये सर्वतो दिशम् ॥ १२.२७५.६१ ॥
如此,在四种种姓与四行期的行为之中,执着于一种依据者,便能在各方面判定方向。
12.275.62
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना ।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥ १२.२७५.६२ ॥
谈论无限者,有能力却未调伏自我者,智慧被无知所摧毁、缺乏智慧、被黑暗笼罩的人。
12.275.63
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः ।
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतो दिशम् ॥ १२.२७५.६३ ॥
然而,一位自律且已全然圆满的人,仅凭托钵之器,便可游行于四面八方。
12.275.64
नात्यन्तं वन्दमानेन शक्तेन विजितात्मना ।
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभापितुम्।
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा ॥ १२.२७५.६४ ॥
不是对于那个过度赞美、有能力却未征服自我的人而言,他依据吠陀之说宣称解脱存在——以一部缺乏正理、为一切世间所谴责的论著。
12.275.65
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् ।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥ १२.२७५.६५ ॥
然而对于选择家居生活的人而言,这些行为是艰难的:布施、学习、祭祀、延续子嗣,以及正直。
12.275.66
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित् ।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥ १२.२७५.६६ ॥
若如此行仍无人得解脱,则作者与所作皆应受责,此番努力徒劳无益。
12.275.67
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया ।
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥ १२.२७५.६७ ॥
否则,循吠陀而行之事便成了单纯的无信。尊者啊,我愿直接听闻其无穷之义。
12.275.68
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः ।
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥ १२.२७५.६८ ॥
婆罗门啊,请为我说真理;我已来到您面前。先生,我愿像您所知的那样,受教于解脱之道。