Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.276

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.276.1

वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ १२.२७६.१ ॥

吠陀是世间的权威,吠陀不可置于脑后。应当知晓两种梵:声梵,以及至上者。

12.276.2

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ॥ १२.२७६.२ ॥

精通声梵者证得至上梵。他依据在吠陀中所行而塑造此身。

12.276.3

कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ।
आनन्त्यमनुचिन्त्येदं कर्मणां तद्ब्रबीमि ते ॥ १२.२७६.३ ॥

身体已经清净的婆罗门,确实成为合适的受者。思量此事之无尽,我为你讲述那些行为。

12.276.4

निरागममनैतिह्यमत्यक्षं लोकसाक्षिकम् ।
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ॥ १२.२७६.४ ॥

那些认为此即法——不依据经典与传承,超越感官,为世间所证——而不求回报地举行祭祀的人。

12.276.5

उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः ।
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥ १२.२७६.५ ॥

舍弃所得、不贪婪、无悲悯与嫉妒之人——对富人而言,这便是道路:在圣地布施。

12.276.6

अनाश्रिताः पापकृत्याः कदाचित्कर्मयोगिनः ।
मनः संकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥ १२.२७६.६ ॥

不依赖于外物、行为无罪、有时修行业瑜伽、心志与决断已成就、住于清净智慧之坚定者。

12.276.7

अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥ १२.२७६.७ ॥

他们不愤怒,不非议,无我慢与嫉妒;安住于智慧,三方面皆清净;喜乐于一切众生的福利。

12.276.8

आसन्गृहस्था भूयिष्ठा अपक्रान्ताः स्वकर्मसु ।
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥ १२.२७६.८ ॥

他们大多是居家之人,不离自己的本分;国王也同样有节制,婆罗门也依照法度而行。

12.276.9

समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः ।
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥ १२.२७६.९ ॥

他们确实心平如一,具足正直,知足,并坚定于智慧;其法显明,清净,于上下诸事皆有信心。

12.276.10

पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः ।
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवापि संहताः ॥ १२.२७६.१० ॥

往昔,他们净化自身,如法奉持誓戒,即便在艰难与困境中,也团结一致地奉行法。

12.276.11

संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत् ।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथंचन ॥ १२.२७६.११ ॥

往昔同心奉行法的人,这本身就是快乐;他们从来无需任何形式的赎罪。

12.276.12

सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः ।
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥ १२.२७६.१२ ॥

依止真实之法,他们被认为最为坚不可摧;他们不屈服于任何尺度,最终也不屈服于披着法之外衣的欺骗。

12.276.13

य एव प्रथमः कल्पस्तमेवात्र चरन्महान् ॥ १२.२७६.१३ ॥

在那第一劫之中,伟大者在此行走。

12.276.14

अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ।
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत् ॥ १२.२७६.१४ ॥

对于安住于此秩序者,无赎罪可言;而当心志薄弱之人,才有赎罪。

12.276.15

एत एवंविधाः प्राहुः पुराणा यज्ञवाहनाः ।
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥ १२.२७६.१५ ॥

古人称这样的人为承担祭祀者:精通三吠陀的长者、清净、有德行、名声卓著。

12.276.16

यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ।
तेषा यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ॥ १२.२७६.१६ ॥

对于日日以祭祀奉献、摆脱欲望束缚的智者,其祭祀、吠陀与仪轨皆依传承而行。

12.276.17

आगमाश्च यथाकामं संकल्पाश्च यथाव्रतम् ।
अपेतकामक्रोधानां दुश्चराचारकर्मणाम् ॥ १२.२७६.१७ ॥

对于远离欲望与愤怒、行持艰难苦行与善业者,其教义随其意愿,其誓愿随其戒律。

12.276.18

स्वकर्मभिः शंसितानां प्रकृत्या शंसितात्मनाम् ।
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम् ॥ १२.२७६.१८ ॥

那些因自身行为而受赞誉、天性心志可嘉、正直、常寂静、安于自身职分者。

12.276.19

सर्वमानन्त्यमेवासीदिति नः शाश्वताश्चुतिः ।
तेषामदीनसत्वानां दुश्चराचारकर्मणाम् ॥ १२.२७६.१९ ॥

一切本是无限的,这是我们永恒的圣典所说,关于那些意志坚定、行持艰难戒行与祭仪的人。

12.276.20

स्वकर्मभिः संसितानां तपो घोरत्वमागतम् ।
सं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥ १२.२७६.२० ॥

那些以自身职责得以净化之人的苦行变得严酷;善行奇妙、古老、永恒而坚定。

12.276.21

अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम् ।
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः ॥ १२.२७६.२१ ॥

对于那些连部分法也无法奉行的人,这被指示:无灾之法、行为、警觉,以及不被战胜。

12.276.22

सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ।
धर्ममेकं चतुष्पादमाश्रितास्ते नरा विभो ॥ १२.२७६.२२ ॥

在所有种姓之中没有任何违犯;啊,大能者,那些人皈依于唯一的四足之法。

12.276.23

तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ।
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ॥ १२.२७६.२३ ॥

善人依礼得之,便往至最高之归宿;其他人则从家中出走,皈依于森林。

12.276.24

गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ।
व्यस्तमेकं चतुर्धा तु ब्राह्मणा आश्रमं विदुः ॥ १२.२७६.२४ ॥

其他梵行者则唯依家居生活;而婆罗门则知道唯一的生命阶段被分为四份。

12.276.25

सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम् ।
एव एवंविधाः प्राहुः पुराणा ब्रह्मचारिणः ॥ १२.२७६.२५ ॥

无论停留何处,众人皆得至高之归宿。古人称这样的人为梵行者。

12.276.26

त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ।
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः।
आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम् ॥ १२.२७६.२६ ॥

那些再生者在天上显现为光明,如同各自位置上的星辰,如同众多星群。因知足而得臻无穷,这是吠陀之说。

12.276.27

यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः ।
न लिप्यन्ते पारकृत्यैः कदाचित्कर्मयोनितः ॥ १२.२७६.२७ ॥

若这样的人再回到轮回,进入胎胞,也从不因他人之业所染,亦不因业之根源而染。

12.276.28

एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः ।
एवंयुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ॥ १२.२७६.२८ ॥

同样,梵行者应当恭谨侍奉、决心坚定;唯有如此具备者方可为婆罗门,其他人只可徒有婆罗门之名。

12.276.29

कर्मैव पुरुषस्याह शुभं वा यदि वाऽशुभम् ।
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ॥ १२.२७६.२९ ॥

教导说,唯有行为属于人,无论善恶。如此,对于那些烦恼已成熟的人,便有无穷,并因所闻之教而得解脱。

12.276.30

सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ।
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ॥ १२.२७६.३० ॥

一切本是无穷,此乃我们永恒的天启所言。对于离渴爱、已净化、善心之人,此即是道。

12.276.31

चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ।
संसिद्धैः सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः ॥ १२.२७६.३१ ॥

第四种奥义书之法被认为是普遍的;成就者、心性受控的婆罗门始终奉行它。

12.276.32

संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ।
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः ॥ १२.२७६.३२ ॥

以知足为根、以舍弃为本性者,被称为智慧的根基;心志专注于解脱,是苦行者恒常的法,且是永恒的。

12.276.33

साधारणः केवलो वा यथाबलमुपास्यते ।
गच्छन्ते बलिनः क्षेमं दुर्बलोऽत्रावसीदति।
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥ १२.२७६.३३ ॥

无论是共同的还是独自修持的,都依各人之力而行;强者得到安稳,弱者在此动摇。纯净的婆罗门寻求那境界,便从轮回中解脱。

12.276.34

स्यूमरश्मिरुवाच ।
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये।
मात्राभिर्धर्मलुब्धाभिर्ये वा त्यागं समाश्रिताः ॥ १२.२७६.३४ ॥

那些享用的人、布施的人、祭祀与诵习的人,那些因贪求功德而节制有度的人,或那些皈依于舍弃的人——

12.276.35

एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः ।
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः ॥ १२.२७६.३५ ॥

在这些人中,死后谁是征服天界最卓越的人?婆罗门啊,我如实请问,请告诉我。

12.276.36

परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ते ।
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥ १२.२७६.३६ ॥

这些执取都是吉祥的,依其德性带来兴盛;然而它们并未获得舍弃的快乐——这一点你也看得见。

12.276.37

स्यूमरश्मिरुवाच ।
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः।
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥ १२.२७६.३७ ॥

斯尤玛拉什米说:你们是坚守智慧的居家者,决心于行动;据说在所有修行阶段的坚定之中有一致性。

12.276.38

एकत्वेन पृथक्त्वेन विशेषो नान्य उच्यते ।
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥ १२.२७६.३८ ॥

无论从一体还是从差别来说,都不另说别的区别。请尊者如实、依理为我讲说。

12.276.39

शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
पक्वे कषायविज्ञानं यथा ज्ञानं च तिष्ठति ॥ १२.२७६.३९ ॥

业行使身体成熟,但智慧才是至高之道。成熟之时,便生起对烦恼的觉知,智慧亦随之安住。

12.276.40

आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥ १२.२७६.४० ॥

慈悲、宽恕、寂静、不杀、真实、正直、不害他人、无傲慢、知耻、忍耐,以及同样的自制(寂止)。

12.276.41

पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम् ।
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम् ॥ १२.२७६.४१ ॥

这些是梵的道路;由此得以到达至高。智者应以心领悟此道,以及行动的决断。

12.276.42

यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।
गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् ॥ १२.२७६.४२ ॥

那些寂静、清净、决定于智慧的婆罗门,从各方面而去,心满意足所到达的境界,人们称之为至高之境。

12.276.43

वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम् ।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः ॥ १२.२७६.४३ ॥

知晓吠陀、应当知晓之事以及事物的真实状态者,被称为吠陀知者;与此不同者,是断绝呼吸之人。

12.276.44

सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् ।
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥ १२.२७६.४४ ॥

吠陀知者知晓一切;一切都建立于吠陀之中。的确,有与无的根基正在吠陀之中。

12.276.45

एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च ।
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः ॥ १२.२७६.४५ ॥

这正是处处的根基:有与无皆在于此。对于知者而言,这便是终与中,也是有与无。

12.276.46

समाप्तं त्याग इत्येव शम इत्येव निश्चितम् ।
संतोष इत्यनुगतमपवर्गे प्रतिष्ठितम् ॥ १२.२७६.४६ ॥

舍离即是圆满;寂静方为确定;知足随之而来。它建立于解脱之中。

12.276.47

ऋतं सत्यं विदितं वेदितव्यं ।
सर्वस्यात्मा स्थावरं जङ्गमं च।
सर्वं सुखं यच्छिवमुत्तरं च ।
ब्रह्माव्यक्तं प्रभवश्चाव्ययं च ॥ १२.२७६.४७ ॥

ṛta与真理已被认识,也是应当认识的。他是一切的自我,包括不动与动者。他是一切幸福、吉祥与至上;他是梵——未显现、万物之源、不灭。

12.276.48

तेजः क्षमा शान्तिरनामयं शुभं ।
तथाविधं व्योम सनातनं ध्रुवम्।
एतैः शब्दैर्गम्यते बुद्धिनेत्रै ।
स्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥ १२.२७६.४८ ॥

光明、忍辱、寂静、无病、吉祥;如同虚空,永恒而恒定。借这些词语,他以智慧之眼被证得。敬礼那梵,敬礼那婆罗门。