Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.277

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.277.1

धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥ १२.२७७.१ ॥

婆罗多的后裔啊,吠陀教导法、利与欲。其中谁的利益最为殊胜?祖父啊,请告诉我。

12.277.2

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥ १२.२७७.२ ॥

在这里我将为你讲述一段古老的传说:往昔昆陀陀罗出于慈爱,曾为一位信徒施以恩惠。

12.277.3

अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत ।
यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥ १२.२७७.३ ॥

某位贫穷的婆罗门因欲望而渴求财富。为了祭祀,他不断追求财物,修行了严酷的苦行。

12.277.4

स निश्चयमथो कृत्वा पूजयामास देवताः ।
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥ १२.२७७.४ ॥

他下定决心供奉诸神。虽然他以虔诚礼拜诸神,却未能得到财富。

12.277.5

ततश्चिन्तामनुप्राप्तः कतमद्दैवतं तु तत् ।
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥ १२.२७७.५ ॥

于是他陷入忧思,想道:“哪位神明,能被世人唤醒,并迅速对我欢喜?”

12.277.6

सोऽथ सौम्येन मनसा देवानुचरमन्तिके ।
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥ १२.२७७.६ ॥

于是他以平静之心,看见近旁站着一位诸神的侍者——持云者昆陀陀罗,正立于那里。

12.277.7

दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत ।
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥ १२.२७७.७ ॥

他一见那位大臂者,便生起了虔敬之心。此人会赐予我福祉,因为他的形象正是如此。

12.277.8

संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥ १२.२७७.८ ॥

他靠近神明,不被其他人围绕。他很快就会赐予我丰厚的财富。

12.277.9

ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः ॥ १२.२७७.९ ॥

于是那位再生者以香、香料、各式花环以及种种供品礼拜他。

12.277.10

ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा ।
तस्योपकारनियतामिमां वाचमुवाच ह ॥ १२.२७७.१० ॥

于是不久,持云者感到满意,决意报答他的恩德,便说出了这些话。

12.277.11

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२.२७७.११ ॥

杀婆罗门者、饮酒者、盗贼以及毁弃誓言者,善人为其规定了赎罪;而对忘恩者则无赎罪。

12.277.12

आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजां ॥ १२.२७७.१२ ॥

非法是希望之子;愤怒被认为是嫉妒之子;贪婪是欺诈之子。忘恩负义者不配有子孙。

12.277.13

ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥ १२.२७७.१३ ॥

那时,这位婆罗门在梦中借着俱因达罗的光辉,看见一切众生都躺在吉祥草上。

12.277.14

शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥ १२.२७७.१४ ॥

这位婆罗门因寂静、苦行与虔诚而无瑕,灵魂纯净,夜里看见了一个征兆。

12.277.15

मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् ।
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥ १२.२७७.१५ ॥

他在那里站立的诸神中,看见了大光明的摩尼跋陀罗,那位大士正在发出命令,俱卢族的尤迪希提罗啊。

12.277.16

तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥ १२.२७७.१६ ॥

诸神在那里,把王国和财富赐予以善业开始的人,也从行恶业的人那里夺走它们。

12.277.17

पश्यतामथ यक्षाणं कुण्डधारो महाद्युतिः ।
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥ १२.२७७.१७ ॥

夜叉们注视之际,大光明的俱因达罗走出,在诸神面前倒在地上,婆罗多中的雄牛啊。

12.277.18

ततस्तु देववचनान्मणिभद्रो महामनाः ।
उवाच पतितं भूमौ कुण्डधार किमिच्छसि ॥ १२.२७७.१८ ॥

于是,依诸神之言,心胸广大的摩尼跋陀罗对倒在地上的俱因达罗说:俱因达罗啊,你想要什么?

12.277.19

यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥ १२.२७७.१९ ॥

若诸神对我满意,且这位婆罗门是我的信徒,我愿赐予他某种带来幸福的恩惠。

12.277.20

ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् ।
देवानामेव वचनात्कुण्डधारं माहद्युतिम् ॥ १२.२७७.२० ॥

于是摩尼跋陀罗依诸神之言,再次对光辉伟大的昆陀陀罗说道。

12.277.21

उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव ।
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम् ॥ १२.२७७.२१ ॥

起来,起来,愿你吉祥;事已成就,安乐快活。若这位婆罗门求取财富,便当赐予他财富。

12.277.22

यावद्धनं प्रार्थयते ब्राह्मणोऽयं सथा तव ।
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ॥ १२.२७७.२२ ॥

这位婆罗门求多少财富,便由你赐予多少。依诸神之命,我将赐予他无数的财富。

12.277.23

विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।
तपसो मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥ १२.२७७.२३ ॥

昆陀陀罗思量人生短暂无常,便将心意专注于那位声名卓著的婆罗门的苦行。

12.277.24

नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥ १२.२७७.२४ ॥

施财者啊!我并不为婆罗门求取财富,我所求的是对信徒另外施予的恩惠。

12.277.25

पृथिवीं रत्नपूर्णां वा महद्वा रत्नसंचयम् ।
भक्ताय नाहमिच्छमि भवेदेष तु धार्मिकः ॥ १२.२७७.२५ ॥

我不为虔诚者求取充满珠宝的大地,也不求巨大的珍宝堆;愿他成为虔信正法之人。

12.277.26

धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥ १२.२७७.२६ ॥

愿他的心意乐于正法,愿他依靠正法而生活;愿他以正法为首——这便是我认为的恩惠。

12.277.27

सदा धर्मफलं राज्यं सुखानि विविधानि च ।
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥ १२.२७७.२७ ॥

愿正法之果——王位与种种快乐——常为他所得;远离身体之苦,愿他享用这些果实。

12.277.28

ततस्तदेव बहुशः कुण्डधारो महायशाः ।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः ॥ १२.२७७.२८ ॥

于是大名鼎鼎的贡陀罗反复修习正法;于是诸神欢喜。

12.277.29

प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।
भविष्यत्येष धर्मात्मा धर्मे चाधरस्यते मतिः ॥ १२.२७७.२९ ॥

诸神皆欢喜于这位再生者;他将成为正法之人,他的心意将安住于正法,而不在非法之中。

12.277.30

ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥ १२.२७७.३० ॥

于是,持云者欢喜,其事已成,俱卢子(Yudhiṣṭhira)啊,他获得了心中所愿的恩赐——那是他人极难得到的。

12.277.31

ततोऽपश्यत चीराणि सूक्ष्मणि द्विजसत्तमः ।
पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः ॥ १२.२७७.३१ ॥

于是这位最优秀的婆罗门看见旁边放着细软的衣物,便生出了厌离之心。

12.277.32

अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।
गच्छामि वनमेवाहं परं धर्मेण जीवितुम् ॥ १२.२७७.३२ ॥

此人不知他人的善行;所做之事必由他人知晓。我将进入森林,依法过至高的生活。

12.277.33

निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥ १२.२७७.३३ ॥

因为厌离与诸神的恩惠,这位最优秀的婆罗门进入森林,随即开始了极大的苦行。

12.277.34

देवतातिथिशेषेण फलमूलाशनो द्विजः ।
धर्मे चास्य महाराज दृढा बुद्धिरजायत ॥ १२.२७७.३४ ॥

这位婆罗门以诸神与宾客所余之物为食,以果实和根茎为生,大王啊,他对法生出了坚定的心志。

12.277.35

त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा ॥ १२.२७७.३५ ॥

这位婆罗门舍弃了所有根茎与果实,改以树叶为食;后来又舍弃树叶,改以水为食。

12.277.36

वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥ १२.२७७.३६ ॥

此后他以风为食,如此持续了许多年。他的命气并不衰减,这事看来竟如奇迹一般。

12.277.37

धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।
कालेन महता तस्य दिव्या दृष्टिरजायत ॥ १२.२७७.३७ ॥

他信奉法义,专修严苛苦行,经过很长时间,天眼生起。

12.277.38

तस्य बुद्धिः प्रादुरासीद्यदि दद्यामहं धनम् ।
तुष्टः कस्यचिदेवेह मिथ्या वाङ्ग भवेन्मम ॥ १२.२७७.३८ ॥

他心中生起一念:“若我因欢喜而在此赐人财富,我的话便成了虚言。”

12.277.39

ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिमन्यते ॥ १२.२७७.३९ ॥

于是他面露喜色,重新开始修行;那位成就者又思索,他所认为最为殊胜的是什么。

12.277.40

यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥ १२.२७७.४० ॥

“若我因欢喜而将王国赐予任何人,他不久便会成为国王,我的话也不会成为虚言。”

12.277.41

तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥ १२.२७७.४१ ॥

婆罗多啊,出于友情,并因婆罗门修行的威力所感,持耳环者亲自显现在他面前。

12.277.42

समागम्य स तेनाथ पूजां चक्रे यथाविधि ।
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥ १२.२७७.४२ ॥

于是他与之相见,依法礼敬;国王啊,那婆罗门见到持耳环者,惊讶不已。

12.277.43

ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् ।
पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा ॥ १२.२७७.४३ ॥

于是昆陀陀罗说:"婆罗门啊,这是你的神圣殊胜之眼。用这眼睛看看国王的归宿与诸界吧。"

12.277.44

ततो राजसहस्राणि मग्नानि निरये तदा ।
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥ १२.२७७.४४ ॥

那时,成千上万的国王沉没于地狱。那婆罗门以具神通的慧眼从远处看见了他们。

12.277.45

मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥ १२.२७७.४५ ॥

若你以虔敬供奉我,却仍得苦恼,那我究竟做了什么?你又得到了什么恩惠?

12.277.46

पश्यपश्य च भूयस्त्वं कामानिच्छेत्कथं नरः ।
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥ १२.२७७.४६ ॥

你再看又看:人怎能贪求欲望?尤其在人类之中,天门是被闭塞的。

12.277.47

ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् ।
निद्रां तन्द्रीं तथाऽऽलस्यमावृत्त्य पुरुषान्स्थितान् ॥ १२.२७७.४७ ॥

于是他看见欲、怒、贪、惧、醉、眠、昏沉与懈怠站立着,笼罩着众人。

12.277.48

एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥ १२.२७७.४८ ॥

众界因此被完全阻隔;诸神又畏惧人类。同样,依诸神之命,它们处处制造障碍。

12.277.49

न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।
एष शक्तोस्मि तपसा दातुं राज्यं धनानि च ॥ १२.२७७.४९ ॥

若无诸神允许,无人能成为有德之人。我能以苦行赐予王国与财富。

12.277.50

ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥ १२.२७७.५० ॥

于是婆罗门俯首伏倒在持水者足前,说道:"这位德行高尚者向我施了大恩。"

12.277.51

कामलोभानुबन्धेन पुरा ते यदसूयितम् ।
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥ १२.२७७.५१ ॥

往昔我被欲望与贪婪所缚,曾嫉妒你;因不知你的情谊,请你原谅我。

12.277.52

क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥ १२.२७७.५२ ॥

说了一声"我已饶恕",昆荼陀罗以双臂紧拥那位婆罗门之翘楚,便就地隐没了。

12.277.53

ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह ।
कुण्डधारप्रसादेन तपसा सिद्धिमागतः ॥ १२.२७७.५३ ॥

于是那位婆罗门蒙昆荼陀罗之恩,凭借苦行遍历诸世界,终获成就。

12.277.54

विहायसा च गमनं तथा संकल्पितार्थता ।
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥ १२.२७७.५४ ॥

飞行于空中、心愿成就,以及由法、力与瑜伽所得的至上归宿,他都获得了。

12.277.55

देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥ १२.२७७.५५ ॥

诸天、婆罗门、善人、夜叉与人间乾闼婆在此尊敬行法之人,而不尊敬富有者,也不尊敬贪欲者。

12.277.56

सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः ।
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥ १२.२७७.५६ ॥

那些诸神因你的心乐于法而对你十分欢喜。财富中只有些许快乐,唯有在法中才有至高的快乐。