Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.280

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.280.1

मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥ १२.२८०.१ ॥

祖父说解脱是通过正当的方法获得的,而非不当的方法。婆罗多后裔啊,我愿依正理听闻那种方法。

12.280.2

त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थं नित्यं मृगयसेऽनघ ॥ १२.२८०.२ ॥

大智者啊,你具有精微的见识,这在你身上是恰当的:你总是借助方法追求一切目标。无罪者啊。

12.280.3

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माभ्यपायेषु नान्यद्धर्मेषु कारणम् ॥ १२.२८०.३ ॥

制作瓶子时的智慧,并不被视为瓶子产生的原因。同样,在达摩的方法中,达摩并没有其他的原因。

12.280.4

पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥ १२.२८०.४ ॥

通往东海的路不会通往西方。解脱之路只有一条,请详细听我说来。

12.280.5

क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।
सत्वसंसेवानद्धीरो निद्रामुच्छेत्तुमर्हति ॥ १२.२८०.५ ॥

以忍耐断除愤怒,以舍弃念想断除欲望。坚定者亲近萨埵,便能断除昏睡。

12.280.6

अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ १२.२८०.६ ॥

以不放逸防护恐惧,以修习知田者防护呼吸。欲望、憎恶与贪爱,应以坚定加以遣除。

12.280.7

भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत् ।
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥ १२.२८०.७ ॥

迷惑、昏乱与旋涡,应以修习而消除;睡眠与无明,应由知真理者以修习智慧而消除。

12.280.8

उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् ।
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ॥ १२.२८०.८ ॥

以有益、易消化、适量的饮食克服疾病与困扰;以知足克服贪婪与迷惑;以洞见真理克服对境。

12.280.9

अनुक्रोशादधर्मं च जयेद्धर्ममवेक्षया ।
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥ १२.२८०.९ ॥

以慈悲战胜不义,以审慎的观照成就法;以观察未来之果战胜希望,以舍离执著战胜财利。

12.280.10

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥ १२.२८०.१० ॥

智者以无常之理战胜爱恋,以瑜伽战胜饥渴;以慈悲战胜自我的傲慢,以圆满的知足战胜渴爱。

12.280.11

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।
मौनेन बहुभाषां च शौर्येण च भयं जयेत् ॥ १२.२८०.११ ॥

以努力战胜懈怠,以决断战胜疑虑;以沉默战胜多言,以勇气战胜恐惧。

12.280.12

यच्छेद्वाङ्भनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ।
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः ॥ १२.२८०.१२ ॥

应以智慧约束言语与意念,又以智慧之眼约束它们;大我应约束知识,而这知识应在自我之中受约束。

12.280.13

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः ॥ १२.२८०.१३ ॥

心境寂静、行为清净者应当知道此理。应当彻底斩断智者所知的瑜伽五种过失。

12.280.14

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।
परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥ १२.२८०.१४ ॥

舍弃欲望、愤怒、贪婪、恐惧,以及第五种——睡眠,然后应修习这些瑜伽的方法。

12.280.15

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥ १२.२८०.१५ ॥

禅定、学习、布施、真实、知耻、正直、忍耐、清净、以饮食得净化,以及制御诸根。

12.280.16

एतैर्विवर्धते तेजः पाप्मानमपहन्ति च ।
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ॥ १२.२८०.१६ ॥

借此,光辉增长,罪过被消除;他的志愿得以成就,智慧随之生起。

12.280.17

धूतपापः स तेजस्वी लध्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १२.२८०.१७ ॥

已除罪过、光辉照人、饮食简少、克制诸根者,使欲与怒受其制服后,应当志求梵的境界。

12.280.18

अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ।
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥ १२.२८०.१८ ॥

不迷惑、无执著、断除欲与怒、无卑屈、不妄动、无忧扰、安住不移。

12.280.19

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥ १२.२८०.१९ ॥

此乃解脱之道,清净、无垢、纯洁。言语、身体与意念的克制亦复如是;若因欲望而有所不同,则非此道。